मंगलवार, 20 अक्तूबर 2020

चन्द्रगुप्तमौर्यः

चन्द्रगुप्तमौर्यः

चन्द्रगुप्तमौर्यः (३२३-२९८ ई.पू) एक: महान् सम्राट् आसीत्‌। स: मौर्यसाम्राज्यस्य प्रथमः सम्राट् आसीत्। चन्द्रगुप्तः चाणक्योक्त्या सकलं भारतवर्षम् अजयत्। सः शाक्यकुले क्षत्रियः आसीत्। सः परियात्रपर्वतस्य यवनभूपतिम् विजित्य तक्षशीलायाम् अभिषिक्तः। अतः सः भारतस्य एकीकर्ता इति मन्यते।

तस्य शासनात् प्राक् पश्चिमोत्तरभारते चत्वारि लघुराज्यानि गङ्गातीरे नन्दराज्यम् च आसन्। परन्तु तस्य साम्राज्यं समस्तं भारतम् आसीत्।

चन्द्रगुप्तमौर्यः नन्दराजकुमारस्य मुरा नामिकाया: चेटिकायाः पुत्रः आसीत् इति केचन इतिहासकाराः मन्यन्ते। अन्ये सः मयुरपोषककुले एकः इति कथयन्ति।
धननन्दः चन्द्रगुप्तमौर्यस्य पितरं कारागरे अक्षिपत्। चाणक्यः तक्षशीलायाम् आचार्यः आसीत्। सः अपि नन्दमहाराजेन अपमानित:। सः प्रतिक्रियाम् अवाञ्छत्। सः वैदेशिकान् यवनान् जेतुं भारतं मोचयितुम् च अपि ऐच्छत्। चन्द्रगुप्तमौर्यः तक्षशीलाम् अगच्छत्। केचन यवनाः सः अलेक्सान्द्रम् तत्र अपश्यत् इति अकथयन्। तत्र सः कौटिल्ल्येन अपि अमिलत्। धीमान् चाणक्यः चन्द्रगुप्तम् सैन्यरचनाविद्यायाम् अबोधयत्। तौ नन्दराज्यं जेतुम् चिन्तनम् अकुरुताम्। चन्द्रगुप्तमौर्यः कौटिल्योक्त्या सेनाम् नयति स्म। सः पर्वतकस्य साहय्येन चाणक्यस्य धूर्तयोजनाभिः च धननन्दम् जितवान्। इयं कथा विशाखदत्तस्य मुद्ररक्षसनाम नाटके कथिता।
चन्द्रगुप्तमौर्यः पश्चिमोत्तरभारते युडामास्-फिलिप्-पैतोनादयः यवनक्षत्रपान् जितवान्।
सेल्युकस् एकः यवनराजः आसीत्। सः पारसिक-अरबिक-बह्लिकादीन् देशान् जितवान्। पूर्वस्याम् दिशि तस्य राज्यस्य सीमा सिन्धुनदी आसीत्। चन्द्रगुप्तमौर्यः तम् जित्वा तस्य पुत्रीं परिणीतवान्। सेल्युकस् तस्मै बह्लिककम्बोजगन्धारसिन्धुबालोचिस्थानादिदेशान् अददात्। तौ मित्रे अभवताम्। मेगस्थेनीस् मौर्यराजसभायाम् उषित्वा इन्डिका नाम ग्रन्थे भारतसंस्कृतिम् अवर्णयत्। चन्द्रगुप्तमौर्यः अपि तस्मै पञ्चशतगजान् दत्तवान्।
सः स्वविशालसेनया दक्षिणभारतम् अपि जितवान्।
स्त्राबो नामकः यवनेतिहासज्ञः चन्द्रगुप्तमौर्यस्य सेनायाम् चतुर्लक्षसैनिकाः आसन् इति उक्तवान्। प्लिनी नाम रोमकेतिहासज्ञः मौर्यसेनायां षड्लक्षपादसैनिकाः त्र्ययुताश्वाः नवसहस्रगजाः च आसन् इति अकथयत्।

शास्त्री रेखा सिंह जयशूर

गौतमबुद्धः

गौतमबुद्धः

निखिलेऽपि भूमण्डले प्रसिद्धं महात्मनो बुद्धस्य पावनं नामधेयम् । अयं महापुरुषः मानवान् अहिंसायाः पाठम् अपाठयत् । अयमेव महापुरुषः जनानां दुःखनिवारणाय स्वकीयं राज्यमत्यजत ।
सोऽयं महापुरुषः कपिलवस्तुनरेशस्य शाक्यवंशीयस्य शुद्धोदनस्य सुपुत्रः आसीत् । अस्य प्रथमं नामधेयं सिद्धार्थ इति आसीत् । बाल्यादेव सिदार्थस्य चित्तं विषयेषु नारमत । पुत्रस्य एतादृशीं विरक्तिं विलोक्य पिता तत् कृते सकलानि सुखसाधनानि समयोजयत् । परं सिद्धार्थस्य चित्तं तेषु मनागपि आसक्तं नाभवत् । अथ कदाचित् आतुरं कदाचि्त् वृद्धम्, अनन्तरं मृतकं ततः संन्यसिनं च विलोक्य तस्य हृदये महदवैराग्यम् अजायत । अतः मानवानां दुःखनिवृत्तये राजकुमारः सिद्धार्थः रात्रौ पियां पन्तीं नवजातं पुत्रं च विहाय गृहात् प्राव्रजत् ।

ततः स प्रथमं पंचभिः ब्राह्मणैः सह तपः आचरत्, किन्तु तेन त्स्य मनः पूर्णसन्तोषं नाभजत । अनन्तरं सः महता श्रमेण सतताभ्यासेन तपस्यया च एकस्मिन् दिने बोधम् अलभत । ततः प्रभृति स बुद्ध इति प्रसिद्दोऽभवत् । ततः स जनेभ्यः उपादिशत "जगदिदं दुःखमयम्, दुःखस्य मूलं कामना, कामनायाः उन्मूलनम् साध्यम्, एवं दुःखनिवृत्तिः सम्भाव्या" इति । महात्मा बुद्धः एतेषां चतुर्णाम् आर्यसत्यानां प्रचारम् अकरोत् । सः जनानां दुःखनिवारणाय तेषां कल्याणाय च उपादिशत् । इमे तस्य प्रमुखाः उपदेशाः -लौकिकसुखेभ्यः विरक्तो भवेत् । मनसा वाचा कर्मण अहिंसायाः पालनं कुर्यात् । सदा सत्यं वदेत् । क्स्यापि किमपि वस्तु कदापि न चोरयेत् । सर्वान् समदृष्ट्या पश्येत् । सत्कर्म कुर्यात् । सर्वेषु दयामाचरेत् । शरणागतान् रक्षेत् । अधिकं संग्रहं न कुर्यात् । ब्रह्मचर्यं पालयेत् इति ।

एतेषां पालनेनैव सुखं शान्तिश्च भवितुम् अर्हति । महात्मनो बुद्धस्य विचाराणाम् उपदेशानां च प्रचारः न केवलं भारते, अपि तु चीनजापानलंकादिषु देशेषु लोकप्रियता्म् अलभत ।

भारतीय धर्मगुरुः भगवान् बुद्धः ज्ञानिषु श्रेष्ठः इति विख्यातः । गौतम्या पोषितः इति सः गौतमबुद्धः । कोशलगणराज्यस्य राज्ञः शाक्यवंशीयस्य शुद्धशीलस्य शुद्धोदनस्य तथा तत्पत्न्याः पतिव्रतायाः मायादेव्याश्च पुत्रः सिद्धार्थः । असौ वैराग्यमवलम्ब्य गौतमबुद्धो बभूव ।

सिद्धार्यो महान् सम्राट् व परिव्राट् वा भवतीति दैवज्ञवाणी आसीत् । पितुः अतिप्रयत्नम् अपि अतिक्रम्य दैवप्रचोदितः सिद्धार्थः रोगिणम्, अकिञ्चनं वृद्धं, मृतं नरं तथा स्थितप्रज्ञं मुनिं दृष्ट्वा वैराग्येण वनं गतः । तत्र बोधिवृक्षस्य छायायां तपस्तप्त्वा गौतमबुद्धो बभूव । तस्माच्च सः नश्वरं तत्कालीनमात्रं साम्राज्यं त्यक्त्वा आर्तजनानां हृदयसिंहासने शाश्वतं स्थानं प्राप्य अधुनापि तत्र विराजते ।

देशेऽस्मिन् गौतमबुद्धस्य काले धर्मस्य स्थाने सर्वत्र अधर्मस्यैव विकटाटृहासः विजृम्भमाणः आसीत् । यज्ञयागादिषु पशुबलिः नरबलिः इत्यादयः हिंसाक्रमाः प्रचलिताः अवर्तन्त । गौतमबुद्धस्तु 'अहिंसा परमो धर्मः’ इति सनातनं तत्त्वं पुनः संस्थापितवान् ।

गौतमबुद्धस्य मार्गः बौद्धधर्मः इति क्रमेण ख्यातः । सम्राजः अशोकादारभ्य अगणिताः चक्रवर्तिनः बौद्धधर्मस्य अनुयायिनो भूत्वा विदेशेष्वपि अस्य प्रचारमकुर्वन् । चीन-जपानादिदेशेषु अद्यापि बौद्धधर्मीयाः बहवः सन्ति ।
शास्त्री रेखा सिंह जयशूर

प्रत्यक्षरूपेण भाषाप्रयोगो हि लाभप्रदः

प्रत्यक्षरूपेण  भाषाप्रयोगो हि लाभप्रदः --

     संस्कृतसाहित्यं विशालम्, समृद्धा च इत्यत्र न कदापि कस्यापि संशयः । एतस्य न एकमात्रं मुखम् अपितु विविधमुखानि दृश्यन्ते । न केवलम् एकमात्रं व्याकरणशास्त्रं हि वर्तते अस्मिन् विशाले संस्कृतवाङ्मये महासागरे । अत्र छन्दः, साहित्यम्, ज्योतिषः, निरुक्तम्, काव्यम्, इतिहासः, योगः, मन्त्रः, तन्त्रः, ज्ञानम्, विज्ञानम्, अध्यात्मम्, औषधम्  इत्यादिविविधविषयकानि नानाविधानि मुखानि संस्कृतवाङ्मये अवलोक्यन्ते । अलङ्कारः, रसः, छन्दः इत्यादिभिः सम्पुष्टमिदं वाङ्मयं न सामान्यम् । अत्र केवलं व्याकरणज्ञानं हि न सर्वम्, केवलं साहित्यार्थं हि व्याकरणस्य सामान्यावश्यकता अत्र । परन्तु असकृत् प्रत्यक्षं च भाषाप्रयोगाभ्यासेन हि शनैः व्याकरणज्ञानमपि आसाद्यते ।  व्याकरणशिक्षाप्राप्तिः सर्वेषां न सम्भवति जीवने । ये छात्रदशायां  विद्यालयेषु अन्यविषयान् स्वीकृत्य अधीतवन्तः, तेषान्तु संस्कृतव्याकरणविषयकं ज्ञानं न सम्भवेदेव । परन्तु ये बाल्यतः संस्कृतविद्यालयेषु  अधीतवन्तः, तेषां हि सम्यक्तया तज्ज्ञानं सम्भवितुम् अर्हेत् । अतः केचन विद्वांसः एकपक्षीयाः अर्थात् केवलं व्याकरणपक्षीयाः हि दृश्यन्ते । सामान्यानां तु तत्र काठिन्यम्, निरसता, अरुचिः वा हि भवति प्रायः । परन्तु अद्यत्वे बहुधा दृश्यते यत्र तत्र यत् संस्कृतस्य अपठितवन्तः जनाः हि असकृत् अभ्यासबलेन अतिसुन्दरतया शुद्धतया च भाषमाणाः दृश्यन्ते । परन्तु वैयाकरणानां केवलं शब्दप्रीतिः आधिक्येन दृश्यते चेदपि प्रायशः साहित्यकलायां न्यूनता हि  परिलक्ष्यते । एकपक्षीयत्वस्य परिणामोऽयम् । अतः संस्कृतवाङ्मयस्य सर्वाणि अङ्गानि ज्ञातव्यानि चेत् इदंप्रथमतया प्रत्यक्षरूपेण  साहित्यसेवा हि पर्याप्ता भवति, तर्हि एव सर्वत्र संस्कृतप्रसारोऽपि सम्भवति इति मे स्वकीयोऽनुभवः इति, अस्तु ।
                  -- नारदः ।

माघे सन्ति त्रयो गुणाः

उपमा कालिदासस्य भारवेरर्थगौरवम्।

दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥

(कालिदास उपमा में, भारवि अर्थगौरव में, और दण्डी पदलालित्य में बेजोड़ हैं। लेकिन माघ में ये तीनों गुण हैं।)

करतलम्

तिथियः

आत्मकल्याणम्

आत्मकल्याणम्।
यावत् स्वास्थ्यो ह्ययं देहः तावन्मृत्युश्च दूरतः।
तावदात्महितं कुर्यात् प्राणान्ते किं करिष्यति।

अर्थात् यावत् पर्यन्तं देहः स्वस्थः भवति तावत् पर्यन्तं मृत्युभयं न भवति। अतः स्वस्थे स्थिते सति आत्मानं परमात्मानं च ज्ञानेन सम्यग् ज्ञात्वा आत्मकल्याणं करणीयं भवेत्। 

कारणं वार्धक्ये जीवने तत् कर्तुं केनापि न शक्यते। अपिच मृत्योः परं तत्तु न भवत्येव। 
-प्रदीपः!

चीन- चिनाहट - आचार्य प्रताप

चीन चिनाहट

भारतस्य सर्वेषु भागेषु चीनदेशे निमित्तं एकोनषष्ठिः ऐप्स प्रतिबंध ते कोधितः अभवन् , भारतस्य एतत् कार्य कारणम् विरोधः प्रदर्शिते चीनी दूतावासस्य प्रवक्ता जी रोंग कथ्यते - अंतर्राष्ट्रीयव्यापारश्च  ई-कॉमर्सस्य सामान्य परिस्थिते विरोधतः इति उपभोक्ता अहिताय सन्ति, इति पूर्णतः अन्यायः  अस्ति।

भारतस्य एतत् विभेदकारी पक्षपातपूर्ण निर्णयः चीनी ऐप्स मध्ये साध्य निशानासाध्तः। एतत् अनिंदनीय कृतः केवलम् राष्ट्रस्य सुरक्षाव्यवस्था नाम्नाः  अपवादस्य दुरोपयोगश्च पारदर्शी व्यवस्थायः उल्लंघनाऽस्ति।

चीनी प्रवक्ता उच्यते भावः
भारतस्य  एतत् निर्णयः  विश्व व्यापार संगठनस्य नियमेव उल्लंघनः संदेहः दर्शयते। चीन एतत् निर्णयः विरोधं कृतवान्। भारते संबंधित ऐप्स उपभोक्तायः बहवः जनाः  वर्धमानः।

मोदी सरकारः भारतस्य विधिः विधाने बहवः शक्तिनः पालनम् करोति। सः भारतीय उपभोक्ताः सृजनकर्ताः च उद्यमिने कुशलश्च तीव्र सेवायाः प्रदास्यसि।

ऐप्स प्रतिबन्धः न केवलम्  ऐप्स उपयोकर्तायः  स्थानीय  भारतीय श्रमिकस्य रोजगारः अपि प्रभावितः जातः।

आचार्य प्रताप

क्रोधाभाव

#क्रोधाभाव(संस्कृत में अनुवाद)
----------------
(१)मेरे काम में दखल मत दो।
**मम कार्येषु हस्तक्षेपं मा कुरु।

(२)चुप रहो।
**तूष्णीं भव।

(३)अपनी चिंता करो।
**स्वचिन्तां कुरु।

(४)तो क्या?
**तदा किम्/तत् किम्?

(५)बकबक मत करो।
**अनर्गलप्रलापं मा कुरु।

(६)अपना रास्ता नापो।
**स्वमार्गं गच्छ।

(७)बाहर चले जाओ।
** बहिर्गच्छ।

(८)क्या तब तुम मर गये थे?
**तदानीं त्वं मूर्छित: आसी: किल?

(९)हल्ला क्यों कर रहो हो?
** कलकलं किमर्थं कुरुत?

(१०)रे मूर्ख!
** रे मूढ!

(११)अपनी राह देखो।
**स्वमार्गं पश्य।

(१२)एक शब्द भी मत बोलो।
** शब्दैकमपि मा वद।

(१३)क्या पागल हो गए हो?
**त्वं विमूढो जातः किल?

(१४)होश में हो या नहीं?
**चेतसि असि किल?

(१५)तुम्हारी इतनी हिम्मत?
**एतद् दुस्साहसम्?

(१६)तुम ऐसा कैसे कहते हो?
**ब्रवीषि किमु?

(१७)तुम्हारा मतलब क्या है?
**किम् अभिप्रायेण?

(१८)जरा मौका तो जाने दो।
**मया एकवारम् अवसर: तु प्राप्यै।

(१९)तुझे मजा चखा दुंगा।
**त्वामहं निग्रहीष्यामि।

(२०)चूल्हे में जा।
**क्षयमुपेया:।
**अध: पते:।
**नश्ये:।

एवीपीन्यूज इत्यस्य परिचर्चायाः संक्षिप्तविवरणम्।

एवीपीन्यूज इत्यस्य परिचर्चायाः संक्षिप्तविवरणम्

रूबिका लियाकतः- राजीवः त्यागी महोदय! प्रधानमन्त्री नरेन्द्रमोदी अद्य सैनिकानाम् उत्साहवर्धनाय लेहं संप्राप्तवान्। समस्तदेशः सैनिकानां पराक्रमे गौरवम् अनुभवति। एवं स्थितौ राहुलगान्धी, कांग्रेसदलस्य प्रवक्ता च किमर्थं प्रश्नम् उत्थापयतः?

किं प्रधानमन्त्रिणि मोदिनि सैनिकेषु च तयोः विश्वासः नास्ति? 

राजीवः त्यागी- रूबिकामहोदये! वयं वारं वारं वदन्तः स्मः यत् सैनिकेषु अस्माकं विश्वासः अस्ति। परन्तु प्रधानमन्त्री वदति यत् चीनदेशीयसैनिकाः अस्माकं देशस्य सीमायाः अन्तः न आगतवन्तः। अस्माकं भूमेः निग्रहणं न कृतवन्तः। 

इदानीं प्रधानमन्त्री लेहं गत्वा विस्तारवादि-शक्त्यै प्रत्युत्तरं दास्यामि इति उद्घोषितवान्।

पुनः अस्माकं विंशतिः सैनिकाः किमर्थं मृताः अभवन्? 
अपिच प्रधानमन्त्री-मोदी *मन कि बात* इति कार्यक्रमे चीनदेशस्य नाम किमर्थं न उद्घोषयति? 

रूबिका लियाकतः- अस्तु, वयम् एतस्य प्रश्नस्य उत्तरं सम्बितपात्रामहोदयात् स्वीकुर्मः। पात्रामहोदय! भवान् इत्यस्य उत्तरं दद्यात्। 

सम्बितपात्रा- पश्यतु रूबिकामहोदये! महान् लज्जायाः विषयोऽस्ति यद् प्रधानमन्त्री स्वयं कथयति अपिच सैनिकाः अपि कथयन्ति यत् चीनदेशस्य सैनिकान् वयम् अपसारितवन्तः परन्तु कांग्रेसदलस्य विश्वासः एव न भवति। 
ते वदन्ति यत् चीनदेशस्य सैनिकाः अस्मद्देशं प्रविष्टवन्तः परन्तु अस्माकं सैनिकाः किमपि कर्तुं न शक्तवन्तः। 
ते अस्माकं सैनिकानां पराक्रमस्य अस्वीकारं कुर्वन्ति। 

सुरजेवाला, राहुलः च अजस्रं चीनदेशस्य स्वपक्षे ट्विटरमध्ये सन्देशान् कुर्वन्तौ स्तः। 

इदानीं द्वितीयः प्रश्नः अस्ति प्रधानमन्त्री किमर्थं नाम न वदति! अस्मिन् विषये अहं वक्तुमिच्छामि यदद्य प्रधानमन्त्री नरेन्द्रमोदी विस्तारवादिशक्तिः इत्यस्य शब्दस्य प्रयोगं कृत्वा गर्जनेन सम्बोधितवान्।
सम्बोधनमिदं कस्य कृते वर्तते? 
अमेरिकादेशस्य कृते वा, रुसदेशस्य कृते वा? 

कस्यापि नाम्नः आवश्यकता न भवति। अवगन्तारः अवगच्छन्ति एव।

उदाहरणार्थं वदामि- पञ्चाशद्वर्षीयः अबोधबालकः! अहं नाम न उक्तवान् परन्तु सर्वे अवगतवन्तः इति मन्ये। 
अहं वदामि यद् देशे कश्चन लुण्ठकः कुटुम्बः अस्ति। 
सप्तदशवर्षात् देशस्य लुण्ठनं कुर्वन् आसीत्। 
अहं नाम न उक्तवान्। परन्तु सर्वे अवगतवन्तः।

अपिच देशे एका महिला अस्ति यस्याः जामाता क्षेत्रचोरः अस्ति। 
सा एव महिला सर्वोच्चन्यायालयस्य दयया कारागारात् बहिः अस्ति। 
-प्रदीपः!

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...