संस्कृत लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
संस्कृत लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

मंगलवार, 20 अक्तूबर 2020

बहिष्कारः

बॉलीवुड् इति चलच्चित्रजगत् अस्मभ्यं भोजनं न ददाति, अपितु वयं तस्मै दद्मः। परन्तु तच्चलच्चित्रजगत् अस्माकं समाजम्, धर्मं संस्कृतिञ्च शनैः शनैः नाशयति। अतः तस्य बहिष्कारः अस्माभिः करणीयः।🙏🏻
-प्रदीपः!

गुरुवार, 15 अक्तूबर 2020

संस्कृत वाक्याभ्यासः

ॐ श्रीसरस्वत्यै नमः॥ वन्दे मातरम् 
संस्कृत वाक्याभ्यासः  

अद्य एकां गोशालाम् अगच्छम् ।
= आज एक गौशाला गया था 

तत्र अनेकाः गावः आसन् ।
= वहाँ अनेक गौएँ थीं 

गोपालः गवां सेवां करोति स्म ।
= गोपाल गायों की सेवा कर रहा था 

गवाम् अनेके वत्साः अपि तत्र आसन् 
= गायों के अनेक बछड़े भी थे 

वत्साः तृणं न खादन्ति स्म ।
= बछड़े घास नहीं खा रहे थे 

केवलं गावः एव तृणं खादन्ति स्म।
= केवल गौएँ ही घास खा रही थीं 

वत्साः केवलं गोदुग्धमेव पिबन्ति ।
= बछड़े केवल गाय का दूध पीते हैं 

अनेके जनाः इतः दुग्धं क्रीणन्ति ।
= अनेक लोग यहाँ से दूध खरीदते हैं 

अनेके जनाः अत्र तृणं खादयितुम् आगच्छन्ति ।
= अनेक लोग यहाँ घास खिलाने आते हैं

जयतु संस्कृतम्॥ जयतु भारतम्॥

सोमवार, 12 अक्तूबर 2020

हटाने अर्थ वाली क्रिया का प्रयोग

  हटाने अर्थ वाली क्रिया का प्रयोग होने पर कर्ता का जो इच्छित पदार्थ है उसकी भी अपादान संज्ञा होती है व उसमें पञ्चमी विभक्ति होती है।
 उदाहरण-- कृषकः यवेभ्यो गां वारयति। यहां किसान जौ के खेत से गाय को इसलिए ह्टाता है क्योंकि जौ उसका इच्छित पदार्थ है। अतः जौ की अपादान संज्ञा होकर पञ्चमी विभक्ति हुई।
   इसी प्रकार-२) माता शिशोः मलिनतां वारयति ।
                       माता शिशु की मलिनता को दूर करती है
                ३) गृहणी मार्जन्या गृहात्‌ अवकरम्‌ अपसारयति।
                     गृहणी झाड़ू से घर से कूड़ा हटाती है।
                 ४) गुरुः शिष्यात्‌ अज्ञानं निवारयति।
                      गुरु शिष्य से अज्ञान दूर करता है।
                 ५) सैनिकः भूमेः शत्रुं निवर्तयति।
                      सैनिक भूमि से शत्रु को हटाता है।
                 ६) पिता पुत्रात्‌ पापं पृथग्‌करोति।
                      पिता पुत्र से पाप को दूर करता है।
                 ७) ईश्वरः लोकात्‌ सर्वाः बाधाः अपसारयति।
                      ईश्वर लोक से सारी बाधाओं को हटाता है
                 ८) रामः कृष्णं ग्रामाद्‌ व्यपनयति।
                      राम कृष्ण को गांव से हटाता है।
                 ९) लेखहारकः कुक्कुरं विद्यालयात्‌ अपसारयति।
                      चपरासी कुते को विद्यालय से हटाता है।
               १०) अहं वस्तु प्रकोष्ठाद्‌ वारयामि।
                        मैं वस्तु को कमरे से हटाता हूं।

गृहबद्धानाम्

गृहबद्धानाम् अस्माकं स्थितिं वीक्ष्य अयं श्लोक: स्मृतिपथम् आयाति -

रात्रिर्गमिष्यति भविष्यति सुप्रभातम्| 
भास्वानुदेष्यति हसिष्यति पङ्कजश्री:||
इत्थं विचिन्तयति कोशगते  द्विरेफे|
हा हन्त! हन्त! नलिनीं गज उज्जहार||

गुरुवार, 24 सितंबर 2020

श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥

#मूलश्लोक:

स्वामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ।
मामुद्धरात्मीयकटाक्षदृष्ट्या ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या ॥३७॥

#पदविभाग:

स्वामिन् नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ
माम् उद्धर आत्मीयकटाक्षदृष्ट्या ऋज्व्या अतिकारुण्यसुधाभिवृष्ट्या ॥

#पदार्थ:

स्वामिन् - हे भगवन्
नमस्ते - ते नमस्कार:
नतलोकबन्धो - नतानां जनानां वन्धु:
कारुण्यसिन्धो - हे अहेरुक दयासिन्धो
पतितं - पतितम्
भवाब्धौ - भवसागरे
माम् - माम् 
उद्धर - जन्मादि बन्धनिर्मुक्तं कुर्वित
आत्मीयकटाक्षदृष्ट्या - तव कटाक्षदृष्ट्या
ऋज्व्या - स्वभावसरलया
अतिकारुण्यसुधाभिवृष्ट्या - अतिकारुण्यसुधाभिवृष्ट्या

#अन्वय:

हे स्वामिन् ! हे  नतलोकबन्धो ! हे कारुण्यसिन्धो ! ते (तुभ्यम्) नम: (अस्तु) ।  भवाब्धौ पतितं माम् ऋज्व्या अतिकारुण्यसुधाभिवृष्ट्या आत्मीयकटाक्षदृष्ट्या  उद्धर ।

#तात्पर्यम्

अस्मिन् श्लोके भगवान् श्री आदिशंकराचार्य: अचार्य: कथं प्रार्थनीय: इति वदति । शिष्य: गरो: समीपं गत्वा हे स्वामिन् ! हे  नतलोकबन्धो ! हे कारुण्यसिन्धो ! तुभ्यं मम नमस्कार:  अस्तु ।  सम्सारसागरे पतितं माम्  अतिकारुण्यसुधाभिवृष्ट्या सरलतया तव कटाक्षदृष्ट्या  उद्धर ।

#व्याकरणम्
#सन्धि:

 स्वामिन् + नमस्ते - अनुनासिकासन्धि:

 उद्धर + आत्मीयकटाक्षदृष्ट्या - सवर्णदीर्घसन्धि:

 ऋज्व्या + अतिकारुण्यसुधाभिवृष्ट्या - सवर्णदीर्घसन्धि:  

नमो नम: श्रीगुरुपादुकाभ्याम् ।

#श्रवण:

बुधवार, 23 सितंबर 2020

संगणक-विषयक-शब्दावली

संगणक-विषयक-शब्दावली

(1)ID— परिचयपत्रम्
(2)Data – टंकितांश:
(3) Edit – सम्पादनम्
(4)Keyboard – कुंचिपटलम्
(5) Timeline – समयरेखा 
(6) Login – प्रवेश:
(7)Share - वितरणम्, प्रसारणम्
(8) Laptop – अंकसंगणकम्
(9) Search - अन्वेषणम्
(10)Default - पूर्वनिविष्ठम्
(11)Input – निवेश:
(12)Output - फलितम् 
(13)Block – अवरोध:
(14)Display – प्रदर्शनम् / विन्यास:
(15)Wallpaper - भीत्तिचित्रम्
(16)Theme – विषयवस्तु:
(17)User – उपभोक्ता
(18) Smart phone - कुशलदूरवाणी
(19)Tag - चिह्नम्
(20)Setup – प्रतिष्ठितम्
(21)Install - प्रस्थापना / प्रतिस्थापनम्
(22)Privacy - गोपनीयता 
(23)Manual – हस्तक्रिया 
(24)Accessibility - अभिगम्यता
(25)Error – त्रुटि: 
(26)Pass word – गूढशब्द:
(27) Code no. - कूटसंख्या
(28) Pen drive - स्मृतिशलाका

सामान्यभूते लुङ्-लकारस्य प्रयोगो भवति, उदाहरणानि -

रामः  शिक्षकः अभूत् ।
परन्तु तौ रमेश-गोपालौ कृषकौ अभूताम् ।
पूर्वतनकाले देशेषु बहवः राजानः अभूवन् ।

त्वम् अध्यापकः अभूः किम् ?
युवां गतवर्षे राजनेतारौ अभूतम् ।
यूयम् अपि तदा समाजसेवकाः अभूत ।

अहं ह्यः मन्दिरव्यवस्थापकः अभूवम् ।
आवां पूर्वं सुहृदौ अभूव ।
वयं तदा सर्वे कार्यकर्तारः अभूम । 
इत्येवं त्रिषु पुरुषवचनेषु ।

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...