हास्य लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
हास्य लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

गुरुवार, 24 सितंबर 2020

हास्यकणाः

राहुलः तस्य श्वशुरगृहं पत्नीम् आनेतुं गच्छन् आसीत्। 
मार्गे सः चायापणं गत्वा चायं पीतवान्। 
तदा चायविक्रेता तं पृष्टवान् भोः! भवान् कुत्र गच्छन् अस्ति? 

पत्नीम् आनेतुं श्वशुरगृहं गच्छन् अस्मि इति राहुलः अवदत्। 

चायविक्रेता तदा उक्तवान् सा तु विधवा अभूत्। इदानीं किमर्थं ताम् आनेतुं गच्छति भवान्? 

एतच्छ्रुत्वा सः अत्यन्तं निराशः अभवत्। ततः स्वगृहं प्रत्यागच्छत्। 
यदा सः गृहं प्राप्तवान् तदा तस्य माता तं दृष्ट्वा पृष्टवती किम् अभवत् पुत्र? एकाकी एव त्वं किमर्थं प्रत्यागतवान्? वधूः कुत्र? 

अम्ब! सा विधवा अभूत् इति चायविक्रेता अवदत्। अतः अहं ततः प्रत्यागतवान् इति राहुलः अवदत्। 

अरे मूढ! त्वयि जीविते सति सा कथं विधवा भवितुम् अर्हति? 😅😅

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...