ऋग्वेदभाष्यभूमिका लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
ऋग्वेदभाष्यभूमिका लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

शनिवार, 26 सितंबर 2020

ऋग्वेदभाष्यभूमिका

 ऋग्वेदभाष्यभूमिका


वागीशाद्या: सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्या:स्युस्तं नमामि गजाननम्।।१।।

अन्वयः-
आद्या सर्वार्थानाम् उपक्रमे यं सुमनसः वागीशः नत्वा कृतकृत्याः स्युः तं गजाननं नमामि।

संस्कृतव्याख्या:-
सर्वार्थानामुपक्रमे वागीशाद्याः सुमनसः यं नत्वा कृतकृत्याः स्युः, तं गजाननं नमामि।सर्वेषां कार्याणामुपक्रमे= आरम्भसमये प्रसंगे वा वागीशाद्याः वृहस्पत्याद्याः सुमनस्काः यं नमस्कृत्य कृतकार्याः भवन्ति, तं गजाननं गणपति प्रणमामि सुमनसो देवाः।

यस्य निः श्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं      वन्दे       विद्यातीर्थमहेश्वरम्।।२।।
यत्कटाक्षेण तद्रूपं दधद् बुक्कमहीपति:।
आदिशन् माधवाचार्यं वेदार्थस्य प्रकाशने।।३।।
ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात्।
कृपालुर्माधवाचार्यो वेदार्थं वक्तुमुद्यत:।।४।।
आध्वर्यवस्य यज्ञेषु प्राधान्याद् व्याकृत:पुरा।
यजुर्वेदोऽथ हौत्रार्थमॄग्वेदो व्याकरिष्यते।।४।।
एतस्मिन् प्रथमोध्यायः श्रोतव्यः संप्रदायत:।
व्युत्पन्नस्तावता सर्वं बोद्धं शक्नोति बुद्धिमान्।।६।।

संदर्भ:- 
ऋग्वेदभाष्यभूमिका

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...