सतीश भार्गव लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
सतीश भार्गव लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

शनिवार, 24 अक्टूबर 2020

अक्षरवाणी

संस्कृतं संस्कृतिः संस्कारश्चेति एतत्त्रयं परस्परं संश्लिष्टम्।भारतीयसंस्कृतिःएकतस्तु संस्कृतभाषामाध्यमेन सम्यगवबुध्यते,अपरतश्च संस्कारैः सु-अभिव्यज्यते ।यथा संस्कृतं भारतीयसंस्कृतेः वाचिकं रूपं तथैव संस्कारोऽपि भारतीयसंस्कृतेः व्यावहारिकं वैभवम् अभिधीयते।
      मानवसभ्यतायाः सर्वाङ्गीणविकासक्रमे संस्काराणां महती आवश्यकता वर्तते। यथा दूषितजलस्य संस्कारद्वारा सर्वत्र विनियोगः संभवति, तथैव संस्काराणामनुष्टानेन सर्वकर्मषु योग्यता आगच्छति। ★अतः अयुक्तस्य पदार्थस्य योग्यताऽऽपादानं नाम संस्कारः।वैदिककादेव संस्काराणां वर्णनं प्राप्यते एवं वेदस्य कर्मकाण्डभागे संस्काराणामुल्लेखः प्राप्यते। 
       भारतीयसंस्कृतौ स्मृतिकारैः ब्राह्मणक्षत्रियवैश्यशूद्राख्याःचत्वारः वर्णाः परिकल्पिताः सन्ति।एतेषु आद्याः त्रयः वर्णाः 'द्विज'इति पदेन व्यवृह्यते।
 तेषां द्विजत्वं कथमिति प्रश्ने ऋषिभिर्दत्तमित्थमुत्तरम्-यथा "द्वाभ्यां जन्मसंस्काराभ्यां जायन्ते इति द्विजाः"। अत्र संस्कारो नाम किम्?......
           संस्कार शब्दः निष्पद्यते 'सम'उपसर्ग पूर्वकं 'कृञ् करणे'धातोः 'घञ्' प्रत्यये कृते सति अत्र भूषणार्थे सुडागमः भवति। तस्यार्थः भवति संस्करणं,परिष्करणं,शुद्धिकरणं, सुप्तशक्त्युद्बोधनमित्यादिः।
           "आत्मशरीरान्यतरनिष्ठो विहहितक्रियादिजन्योऽतिशयविशेषः संस्कारः"। मीमांसकाः हविष्यान्नं कर्त्तुं यत् प्रोक्षणादिकमाचरन्ति तत् संस्कारपदेनोच्यते तथैवात्रापि व्यक्तित्वं स्वधर्मानुकूलं कर्त्तुं क्रियमाणं योऽनुष्ठानं संस्कारेति पदेनाभिधीयते।
           #गृह्यसूत्रेषु संस्काराणां संख्या द्वादशतः अष्टादश पर्यन्तमेव स्वीकृता।अत्र अन्त्येष्टिसंस्कारस्याशुभत्वात् वर्णनं न प्राप्यते।गौतमधर्मसूत्रे संस्काराणां संख्या चत्वारिंशदिति महर्षिणा प्रतिपादिता।मनुस्मृतौ ग्रन्थकारेण त्रयोदशसंस्काराः विनिर्दिश्यन्ते। याज्ञवल्क्यस्मृतौ अन्त्येष्टिसंस्कारं विहाय मनप्रोक्ताः अन्ये द्वादश संस्काराःप्रतिपादिताः।एवं प्रकारेण संस्काराणां संख्याविषये नास्त्येकं मतम्।किन्तु अधिकाः प्रचलन्ति षोडससंस्काराः...।यतोहि षोडससंख्या संस्काराणां सम्पूर्णतां च द्योतयितुं प्रतिभाति।यथा- गर्भाधानपुंसवन सीमंतोन्नयनजातकर्मनामकरणनिष्क्रमणान्नप्राशनचूड़ाकरणकर्णवेधविद्यारंभोपनयनवेदारंभकेशांतसमावर्तविवाहान्त्येष्टयः।
      १.अत्रोद्दिष्टषोडशसंसकाराणां मध्ये प्रथमः 'गर्भाधानम्' शिशोर्जन्मनः प्राक् तन्निमित्तो यः संस्कारः स एव गर्भाधानमिति नामकः।
      २.द्वितीयः पुंसवनमिति संस्कारः भवति-गर्भलक्षणे दृष्टे सति पुंसवनसंस्कारस्य विधानं वर्तते। येन संस्कारेण गर्भस्थ जीवः पुमान् क्रियते,स पुंसवनसंस्कारेत्युच्यते।
      ३.सीमन्तोन्नयनसंस्कारः गर्भतश्चतुर्थे षष्ठे वा मासे संपादनीयः।संस्कारेस्मिन गर्भवत्याःकेशपाशमलङकुर्वन् पतिः.स्वयमेव सीमन्तमुन्नयति। एते त्रयः संस्काराः जनमनः प्राक्.भवन्ति।
      ४./५.जातकर्मसंस्कारःशिशोर्जन्मनः परं सद्यः संपाद्यते,एवं नामकरणसंस्कारः जन्मतः दशमदिनादारभ्य द्वितीयवर्षस्य प्रथमदिवसं यावत् कर्त्तुं शक्यते।
      ६.निष्क्रमणसंस्कारः-नाम शिशोः जन्मतः परं प्रथमतया गृहाद् बहिरानयनमेव इति। संस्कारोSयं चतुर्थे मासे भवति।
      यथोक्तं वर्तते यमस्मृतौ-"चतुर्थमासि कर्त्तव्यं शिशोर्चन्द्रश्य दर्शनम्"
      ७.षष्ठमासे शिशोः अन्नप्राशनसंस्कारो विहितः।व्यक्तित्वविकासे अनिवार्याssहारशुद्धिरुपनिषद्युक्तम्-                
            आहार शुद्धौ सत्वशुद्धिः।
                           सत्वशुद्धौ ध्रुवास्मृतिः
                                  स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः।
      ८.चूडाकर्म शिशोः प्रथमे,तृतीये,पञ्चमे वाष्टमे क्रियते, अथवा उपनयनसमयेsपि कर्त्तुं शक्यते।चूडा इत्यस्यार्थः शिखेति।
      ९. शैशवावस्थायारन्तिमो संस्कारः 'कर्णवेधः' 'वीरमित्रोदये' जन्मनः दशमे षोडशे वा दिने प्रोक्तः।कारिकेयं प्रतिपादयति कर्णवेधस्य धार्मिकं महत्वम्-
            कर्णरन्ध्रे रवेश्छाया न विशेदग्रजन्मनः।
            ते दृष्ट्वा विलयं यान्ति पुण्यौघाश्च पुरातनाः।।
       १०.विद्यारम्भः दशमः संस्कारः। अस्यापरन्नाम अक्षरारम्भः इति।प्रायशः पञ्चमे वर्षे सूर्योत्तरायणे सुमुहूर्ते सस्कारोsयं विधीयते।
       ११.उपनयनसंस्कारः सर्वप्रमुखरूपेण स्वीक्रियन्ते विद्वद्भिर्संस्कारेषु।उपनयनसंस्कारानन्तरमेव कश्चित् वेदाध्ययनस्याधिकारी भवति।उपनयनसंसकारो$यमधुना यज्ञोपवीतसंस्कार नाम्ना प्रसिद्धम्।
       १२.वेदारम्भः-शुभमुहूर्त्ते गुरुः स्वशिष्यं प्रदीपाग्नेः पश्चिमतः उपवेशयति। हवनादिकञ्च संपाद्य वेदाध्ययनं प्रारभ्यते।
       १३.केशान्तसंस्कारः-अस्यापरन्नाम गोदानसंस्कारेति।
       १४.समावर्तनम्-विद्याध्ययनं परिसमाप्य गुरोराश्रमात् गृहागमनं समावर्त्तम्। विद्याध्ययनान्तरं गुरवे दक्षिणा दातव्या। तद्विषये उक्तं मनुना-
              क्षेत्रं हिरण्यं गामश्वं क्षत्रोपाह्नमन्ततः।
              धान्यं शाकञ्च वासांसि मुखे प्रीतिमाहरन्।।
        १५.भारतीयसंस्कृतौ यज्ञाधिकाराय पितृऋणमुक्तये विवाहसंस्कारविधानं वर्तते।मनुना विवाहस्याष्टौ भेदाः कृतः।ब्राह्मदैवार्षप्राजापत्यासुरीगान्धर्वराक्षसपैशाचाः।
        १६.अन्त्येष्टिसंस्कारः अन्तिमोसंस्कारः वर्तते। अयं निवृत्तिप्रधानः वर्तते।शास्त्रकारैः संस्कारतया न गण्यते,तेषां मते विवाहः एव चरमः संस्कारः।अन्त्येष्टिः-अन्त्या इष्टिः=अन्तिमो यज्ञः। तस्मादयं संस्कारः जीवनस्यान्तिमोयज्ञः एव.........।।

            सांप्रतिके लोके महती आवश्यकता वर्तते जनान् बोधयितुं यदस्माकं भारतीयसनातनसंस्कृतिरुत्कृष्टोत्कृष्टा वर्तते। षोडशसंस्कारैस्संस्कारिताः जनाःजीवत्वं विहाय सच्चिदानन्दरूपं ब्रह्मपदमधिगच्छति।।।।।।।........✍️
                                सतीशभार्गवः
                                शिक्षाशास्त्री
                                राष्ट्रियसंस्कृतसंसथानम्

बालकस्य दिनचर्या

बालकस्य दिनचर्या एकस्मिन् रमणीये ग्रामे सोमः नाम एकः बुद्धिमान् बालकः वसति स्म। तस्य गृहं वृक्षैः परिवृतम् आसीत्। सः प्रतिदिनं ब्राह्ममुहूर्...