प्रत्यक्षरूपेण भाषाप्रयोगो हि लाभप्रदः --
संस्कृतसाहित्यं विशालम्, समृद्धा च इत्यत्र न कदापि कस्यापि संशयः । एतस्य न एकमात्रं मुखम् अपितु विविधमुखानि दृश्यन्ते । न केवलम् एकमात्रं व्याकरणशास्त्रं हि वर्तते अस्मिन् विशाले संस्कृतवाङ्मये महासागरे । अत्र छन्दः, साहित्यम्, ज्योतिषः, निरुक्तम्, काव्यम्, इतिहासः, योगः, मन्त्रः, तन्त्रः, ज्ञानम्, विज्ञानम्, अध्यात्मम्, औषधम् इत्यादिविविधविषयकानि नानाविधानि मुखानि संस्कृतवाङ्मये अवलोक्यन्ते । अलङ्कारः, रसः, छन्दः इत्यादिभिः सम्पुष्टमिदं वाङ्मयं न सामान्यम् । अत्र केवलं व्याकरणज्ञानं हि न सर्वम्, केवलं साहित्यार्थं हि व्याकरणस्य सामान्यावश्यकता अत्र । परन्तु असकृत् प्रत्यक्षं च भाषाप्रयोगाभ्यासेन हि शनैः व्याकरणज्ञानमपि आसाद्यते । व्याकरणशिक्षाप्राप्तिः सर्वेषां न सम्भवति जीवने । ये छात्रदशायां विद्यालयेषु अन्यविषयान् स्वीकृत्य अधीतवन्तः, तेषान्तु संस्कृतव्याकरणविषयकं ज्ञानं न सम्भवेदेव । परन्तु ये बाल्यतः संस्कृतविद्यालयेषु अधीतवन्तः, तेषां हि सम्यक्तया तज्ज्ञानं सम्भवितुम् अर्हेत् । अतः केचन विद्वांसः एकपक्षीयाः अर्थात् केवलं व्याकरणपक्षीयाः हि दृश्यन्ते । सामान्यानां तु तत्र काठिन्यम्, निरसता, अरुचिः वा हि भवति प्रायः । परन्तु अद्यत्वे बहुधा दृश्यते यत्र तत्र यत् संस्कृतस्य अपठितवन्तः जनाः हि असकृत् अभ्यासबलेन अतिसुन्दरतया शुद्धतया च भाषमाणाः दृश्यन्ते । परन्तु वैयाकरणानां केवलं शब्दप्रीतिः आधिक्येन दृश्यते चेदपि प्रायशः साहित्यकलायां न्यूनता हि परिलक्ष्यते । एकपक्षीयत्वस्य परिणामोऽयम् । अतः संस्कृतवाङ्मयस्य सर्वाणि अङ्गानि ज्ञातव्यानि चेत् इदंप्रथमतया प्रत्यक्षरूपेण साहित्यसेवा हि पर्याप्ता भवति, तर्हि एव सर्वत्र संस्कृतप्रसारोऽपि सम्भवति इति मे स्वकीयोऽनुभवः इति, अस्तु ।
-- नारदः ।