शास्रत्री रेखा सिंह जयशूर लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
शास्रत्री रेखा सिंह जयशूर लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

मंगलवार, 20 अक्तूबर 2020

राज्ञी पिङ्गळा

राज्ञी पिङ्गळा

'चन्द्रावती’ बहुसुन्दरं नगरम् । अत्र परमारवंशस्य अन्तिमः राजा हूणः राज्यशासनं करोति स्म । एतस्य पत्नी एव राज्ञी पिङ्गळा । कदाचित् राजा मृगयार्थं गतवान् आसीत् । तत्र सः किञ्चन अद्भुतं दृश्यं दृष्टवान् । राजगृहं प्रति प्रत्यागमनानुक्षणं सः तद् दृश्यं पत्न्यै विवृतवान् । तस्य ध्वनिः गद्गदितः आसीत् । नेत्रे अश्रूभिः पूर्णे आस्ताम् । व्याधसदृशेषु सामान्यजनेषु अपि तादृश्यः सतीमणयः सन्ति किल इति सः विस्मितः आसीत् । कञ्चित् व्याधं वने कश्चन सर्पः दष्टवान् । परिणामेन सः मृतः । तस्य पत्नी स्वयं चितां निर्माय पत्युः देहं तत्र संस्थाप्य अग्नेः स्पर्शं कृत्वा अनन्तरं स्वयमपि अग्निप्रवेशं कृतवती आसीत् । शरीरं दहत् अस्ति चेदपि तस्याः सतीमण्याः मुखे विषादस्य छाया अपि नासीत् । सा प्रसन्ना आसीत् । तद् दृश्यमेव स्मरतः राज्ञः वचनं श्रुत्वा राज्ञी पिङ्गळा एवं वदति यद् "निश्चयेन सा काचित् वीरमहिला स्यात् । किन्तु तां 'सती’ इति वक्तुं न शक्नुमः । पत्युः मरणानन्तरमपि जीवितवतीं पत्नीं 'सती’ इति कथम् निर्दिशति ? पत्युः मृत्युवार्तायाः श्रवणानुक्षणं पत्नी पत्युः किञ्चित् चिह्नां धृत्वा अविलम्बेन एव स्वस्य शरीरस्य त्यागं करोति” इति । महाराजः पत्न्याः एतादृशानि वचनानि न इष्टवान् । सा कस्याश्चित् साध्व्याः सतीत्वस्य अपहास्यं कुर्वती अस्ति इति चिन्तयित्वा व्यङ्ग्यध्वनिना वदति "एतादृशी सती राज्ञी पिङ्गळा अपि भवितुं शक्नोति किल" ? इति । एतद् श्रुत्वा राज्ञी स्वस्यापि परीक्षा कदाचित् भविष्यति इति सत्यम् अवगतवती । तस्याः स्ववचनैः लज्जा, पश्चात्तापः च अभवताम् । किन्तु किं कर्तुं शक्यते ? तस्याः मुखात् वचनानि निर्गतानि आसन् । इतःपरं किमपि कर्तुं न शक्यते इति चिन्तितवती । कदाचित् धर्मगुरुः दत्तात्रेयस्वामी प्रासादम् आगतवान् आसीत् । समयं दृष्ट्वा राज्ञी तेन मिलित्वा स्वस्य समस्यां वदति "प्रभो ! मम पतिः सर्वदा मृगयासु, युद्धेषु च अधिकं कालं यापयति । यदि सः शत्रुदेशे मरणं प्राप्नोति तर्हि तस्य मरणस्य ज्ञानं मम कष्टं भवति । अतः मम पतिः जीवेन अस्ति वा, न वा इति मया कथां ज्ञातव्यम् ? कृपया परिहारं सूचयतु” इति । तदा सः गुरुः "वत्से ! मम समीपे भवत्याः अन्तरङ्गम् आच्छादयन्ती अस्ति किल ? एतादृशी स्थितिः आगच्छति इति भवती एव स्वयं सज्जतां कृतवती वा इति भासते । एतं विषयं भवती जानाति वा, न वा किन्तु परिणामः तु समानः अस्ति । एतस्मिन् विषये भवत्याः तावती आसक्तिः अस्ति चेत् वदामि, शृणोतु !” इत्युक्त्वा स्वस्य प्रसेवात् किञ्चन बीजं बहिः निष्कास्य पिङ्गळायाः हस्ते यच्छन् वदति "एतद् बीजम् अङ्गणे आरोपयतु । एतेन किञ्चन सस्यम् अङ्कुरितं भवति । भवत्याः महाराजस्य जीवनस्य विषये यदा शङ्का भवति, तदा एतस्य सस्यस्य स्नानं कारयित्वा, पृच्छतु । राजा जीवन् अस्ति चेत् सस्यात् जलबिन्दवः पतन्ति । यदि राजा मृतः तर्हि अनुक्षणं सर्वाणि पर्णानि शुष्काणि भूत्वा सस्यात् पतन्ति” इत्युक्त्वा दत्तात्रेयस्वामिनः प्रस्थितवन्तः । तेन यथा उक्तं तथैव राज्ञी पिङ्गळा बीजम् आरोपितवती । अङ्कुरितबीजेन सस्यम् आगतम् । उत्तमपोषणेन आकर्षकं सस्यं जातम् ।

*महाराजद्वारा पत्न्याः सतीत्वस्य परीक्षा*

राज्ये दस्यूनाम् पीडनम् अधिकम् अभवत् । तेषां निवारणार्थं महाराजेन गन्तव्यम् आपतितम् । पूर्णतया दस्यूनां दमनं कृत्वा प्रत्यागच्छतः राज्ञः मनसि राज्ञ्याः सतीत्वस्य परीक्षायाः विचारः आगच्छति । 'दस्युभिः सह युद्धसमये महाराजः मरणं प्राप्तवान्’ इति सन्देशं, सन्देशवाहकस्य द्वारा प्रेषयितुम् इष्टवान् । एषा वार्ता अनृता इति अन्तिमक्षणे वक्तव्यम् इति तस्मै दूताय सूचनां दत्तवान् आसीत् । एवमेव दूतः राजमुकुटं स्वीकृत्य राजधानीं गत्वा महाद्वारतः एव रुदन् आगतवान् । काचित् अमङ्गलकरी वार्ता स्यात् इति राज्ञी ऊहितवती । दूतद्वारा वार्तां श्रुत्वा राज्ञी क्षणं यावत् दिग्भ्रान्ता जाता । तथापि स्वयं समाधाननं प्राप्य अग्रिमकार्यार्थं सज्जा अभवत् । स्नानं कृत्वा तस्य पवित्र सस्यस्य समीपं गत्वा तस्य स्नानं कारयित्वा, पूजां कृत्वा अनन्तरं स्वस्य शङ्कां पृष्टवती । अनुक्षणमेव सस्यात् जलबिन्दूनां पातः आरबब्धः । एतद् दृष्ट्वा राज्ञी पिङ्गळा राजा जीवति इति निश्चितवती ।

*सतीत्वस्य परीक्षायां पिङ्गळायाः जयः*  -
'महाराजः मम परीक्षार्थम् एतं दूतं प्रेषितवान्’ इति भासते । मया शरीरस्य त्यागः करणीयः इति इच्छा तस्य स्यात् वा ? पत्युः इच्छापूरणे एव स्त्रियाः पतिव्रताधर्मः निगूहितः अस्ति । परलोकं प्रति गमनानन्तरं तु सः मया प्राप्यते एव । यदि एतस्मिन् सन्दर्भे अहं शरीरत्यागं न करोमि तर्हि मम पितुः कुलमपि कलङितं भवति “ राजा सोमचन्द्रस्य पुत्री पत्युः मरणवार्तां श्रुत्वापि जीविता अस्ति किल ? कियान् लज्जास्पदः विषयः एषः इति जनाः परस्परं न वदन्ति वा?” इति चिन्तयित्वा महाराजः जीवति इति ज्ञात्वाऽपि मरणं प्राप्तुं सज्जा अभवत् । राज्ञी पिङ्गळा योगाभ्यासं सम्यक् पठितवती काचित् उत्तमयोगिनी आसीत् । अतः सा पत्युः किरीटं अङ्के स्वीकृत्य आसनस्था अभवत् । अपानेन सह प्राणसंलग्नं कृत्वा, समानम् उदानं च स्वीकुर्वती कण्ठात् भ्रुवोः मध्ये योजितवती । परिस्थितिः अन्तिमघट्टे अस्ति इति ज्ञात्वा दूतः "महाराज्ञि ! मया उक्तं सर्वम् असत्यम् । एवं महाराजः उक्त्वा प्रेषितवान् आसीत् । तद्वत् भवत्यै वदन् अस्मि” इति उक्तवान्। महाराज्ञी एतस्य श्रवणस्य स्थितौ नासीत् । मुखस्य मूलं छेदयित्वा ब्रह्मरन्ध्रेण तस्याः प्राणाः गताः आसन् । सा गतप्राणा अभवत् । दूतः प्रत्यागतवान् । दूतस्य प्रेषणानन्तरं वस्तुतः राज्ञी मरणं प्राप्नुयात् इति शङ्का महाराजस्य भवति । अतः सज्जतां कृत्वा यावत् शीघ्रं तावत् नगरं प्रति प्रस्थितवान् । एवं प्रयाणं कृत्वा नगरसमीपम् आगच्छन् सः समीपस्थं श्मशानं गतवान् । तत्र कस्यांश्चित् चितायां ज्वलाः ज्वलन्त्यः आसन् । तस्मात् चन्दनस्य सुगन्धः बहिः आगच्छति स्म । तत्रत्यां परिस्थितिं दृष्ट्वा राज्ञी प्राणत्यागं कृतवती इति विचारः स्पष्टः अभवत् । तत्र ज्वलन् शवः पत्न्याः एव इति सत्यं सः ज्ञातवान् । अनुक्षणं सः विक्षिप्तः जातः ।

राजा स्वेन धृतानि वस्त्राभूषणानि निष्कास्य क्षिप्तवान् । अनन्तरं पादाभ्यां श्मशानं प्रविष्टवान् । अश्वस्य उपरि आरुह्य वायुवेगेन आगतवान् आसीत् इति कारणेन बहुश्रान्तः, तेन सह कोऽपि नासीत् इत्यनेन सः एकाकी आसीत् । श्मशानेऽपि शवः पूर्णरूपेण दग्धः इत्यनेन सर्वे जनाः प्रस्थितवन्तः आसन् । अतः एषः उन्मत्तः इव रुदन्, श्मशाने सर्वत्र अटन् आसीत् ।

*गोरक्षनाथस्य उपदेशः* -
सिद्धः, परमपुरुषः, योगिश्रेष्ठः च गोरखनाथः तस्मिन् समये एव नगरं प्रति आगच्छन् आसीत् । सः महाराजस्य स्थितिं दृष्टवान् । तस्य महापुरुषस्य हृदये दया उत्पन्ना । अतः सः समीपम् आगत्य रुदन्तं राजानं यदा पृच्छति तदा राजा पत्न्याः मरणस्य वृत्तान्तं विवृतवान् ।

सम्यक् तस्मिन् समये एव गोरखनाथस्य हस्ते विद्यमानं मृत्तिकापात्रं स्खलनेन अधः पतित्वा छिन्नम् अभवत् । सः भग्नखण्डान् एकत्र योजयन् 'हन्त ! हन्त !’ इति चीत्कारम् आरब्धवान् ।

एतद् दृष्ट्वा राजा आश्चर्यचकितः जातः । सः पृच्छति "वराटिकाद्वयस्य एतस्मै घटाय भवत्सदृशाः एवं रुदन्ति वा ? एतस्य अपेक्षया उत्तमानि पात्राणि भवते न लभ्यन्ते वा ? तद् तु मृत्तिकया निर्मितं पात्रमासीत् । अतः पतनानुक्षणं भग्नं जातम्” इति । "मम घटः तु मृत्तिकायाः आसीत् । किन्तु भवतः पत्नी सुवर्णेन निर्मिता आसीत् किम् ? अहम् एतस्य अपेक्षया उत्तमं मृत्तिकापात्रं प्राप्नुयाम् । एवमेव भवतेऽपि अस्मिन् जगति द्वितीया पत्नी लभ्येत । मम घटः वराटिकाद्वयोः मूल्यस्य स्यात् । किन्तु भवतः पत्न्याः मूल्यं तावदपि नास्ति किल ? भवतः क्षणिकसुखाय सा साहायिका आसीत् इत्येतत् विहाय अन्यद् किमपि साहाय्यं नासीत् । मम भिक्षापात्रं सर्वदा मया सह भवति स्म । एतेन एव अहं जलं पिबामि स्म । एतेन एव भिक्षान्नं प्राप्नोमि स्म । एतस्य शिरः अधः कृत्वा, उपधानमिव मम शिरसः अधः संस्थाप्य शयनं करोमि स्म । भवान् बहु बुद्दिमान् जातः किम् ? माम् एव उपदिशति वा ? मम भिक्षापात्रस्य खण्डान् योजयतु अहं भवतः स्त्रीम् अपि जीवयामि !” इति कोपस्य नाटकं करोति गोरखनाथः ।

*पिङ्गळायाः कारणतः जगतः मिथ्यात्वस्य अवगमनम्* -

तस्य वचनानि श्रुत्वा राजा स्तम्भीभूतः जातः । एतावत्पर्यन्तम् अहं कियान् मूर्खः आसम् इति चिन्तयति । स्वस्य मूर्खतायै वेदनाम् अनुभूय क्षमायाचना रीत्या "प्रभो ! भवान् सर्व समर्थः । अहं केवलं यः कश्चित् नीचमानवः । भवतः चरणे शरणं गतवान् अस्मि । तां साध्वीपत्नीं विहाय अहं जीवितुं न शक्नोमि । भवान् तां मम निमित्तं जीवयतु !” इति प्रार्थितवान् । तस्य साधोः चरणयोः पतितवान् च । "उत्तिष्ठ ! उत्तिष्ठ ! एतासु भवतः पिङ्गळा का इति अन्विष्यतु !” इति उक्तवान् गोरखनाथः । एवम् उक्त्वा सः महात्मा किञ्चित् भस्म स्वीकृत्य तत्रत्यचितायाः उपरि स्थापितवान् । तावता तयोः पुरतः स्त्रीणां कश्चित् गणः एव स्थितः आसीत् । ताः सर्वाः सुन्दर्यः आसन् । सकलालङ्कृताः, आकर्षिकाः च आसन् । सौन्दर्ये तु सर्वाः समानाः आसन् । सर्वाः राज्ञी पिङ्गळा इव आसन् । तासु स्वस्य राज्ञी का इति ज्ञातुं राजा असमर्थः जातः । पुनः सः साधुं प्रार्थयति । साधुः अनुक्षणं करताडनं करोति । वास्तविकां पिङ्गळां विहाय अन्याः सर्वाः अनुक्षणम् अदृश्याः अभवन् । एतद् सर्वं दृष्ट्वा महाराजस्य प्रापञ्चिकव्यामोहस्य विषये इच्छा गता । सः उक्तवान् "प्रभो ! इदानीं मम सर्वे मोहाः दूरं गताः । एतावत्पर्यन्तम् अहं पर्याप्तमात्रेण राज्यसुखोपभोगान् अनुभूतवान् अस्मि । इदानीं भवान् मह्यम् भवतः श्रीचरणे स्थानं ददातु !” इति वदन् तस्य पादयोः उपरि पतितवान् । तस्य हृदये परिवर्तनं जातम् आसीत् । तत्र पूर्णं वैराग्यम् आच्छादितम् आसीत् । मोहरहितदृष्ट्या पिङ्गळां दृष्ट्वा अनन्तरं गुरोः मुखं पश्यति । तावदा तस्याः मायापाञ्चालिकायाः राज्ञ्याः पिङ्गळायाः रूपम् अदृश्यम् आसीत् । महाराजः एवं जगतः मिथ्याम् पिङ्गळायाः तथा तस्याः जीवनात् ज्ञात्वा जीवन्मुक्तः भूत्वा, गुरोः दत्तात्रेयस्य पृष्ठतः गच्छन् अरण्यं प्रविश्य, तपसः आचरणे मग्नः जातः । सः तपसा सिद्धिं प्राप्तवान् । राज्ञ्याः पिङ्गळायाः जीवः पुण्यलोकं प्राप्नोति।"

शास्रत्री रेखा सिंह जयशूर

संक्षिप्त समाचारः

१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्. २.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरल...