महाकवि दांडी
------------------------
दण्डी कविः आलङ्कारिकश्च। दशकुमारचरितं, काव्यादर्शः, अवन्तिसुन्दरीकथा च अस्य प्रसिद्धाः ग्रन्थाः। आहत्य अस्य सप्त रचनाः सन्ति। एषः काञ्जीवासी आसीत्।
दण्डिनः स्थितिकालः सन्दिग्ध एव । अत्र समालोचकाः सुबन्धु-बाण-दण्डिनः, बाणदण्डिसुबन्धवः, सुबन्धु-दण्डि-बाणाश्चेति त्रिविधक्रमसमर्थका दृश्यन्ते । अधिकाः तु प्रथममेव पक्षमाश्रित्य प्रचलिताः दृश्यन्ते। एतावदेव ज्ञायते यत्स दाक्षिणात्यः । बाणभट्टः तं न स्मरतीति तस्य स्थितिकालस्य पूर्वसीमा, अभिनवगुप्तस्तं लोचने स्मरतीति तस्यापरसीमा।
अवन्तिसुन्दरीकथाऽनुसारेण दण्डी दामोदराऽऽख्यस्य प्रपौत्रः आसीत्। दामोदरस्य चतुर्षु सुतेषु कनिष्ठस्य वीरदत्तस्य सुत आसीद् दण्डी । तस्य माता गौरी । कथ्यते दामोदरः भारविरेव किंवा भारवेरन्तरङ्गसुहृदासीत् । सः विष्णुवर्धनाख्यस्य सिंहविष्णोः काञ्चीनरेशस्य सभापण्डित आसीत् । दामोदरस्य पुत्रो वीरेश्वरदत्तोऽपि सिंहविष्णुसुतस्य महेन्द्रवर्मणः सभापण्डित आसीत् । तथैव तत्सुतो दण्डी महेन्द्रवर्मणः सुतस्य नरसिंहवर्मणस्तत्सुतस्य राजवर्मणश्च सभाध्यक्ष आसीत् । नरसिंहवर्मणः स्थितिकालः ७४७-७८२ मितवैक्रमाब्दानभितः । एवमेव अवन्तिसुन्दरीकथायाम् -
भिन्नतीक्ष्णमुखेनाऽपि चित्रं बाणेन निर्व्यथः।
व्याहारेषु जहौ लीलां न मयूरः::::::::::।।
इति बाणो मयूरश्च कवी स्मृतौ दृश्येते । अनेन अवन्तिसुन्दरीकथायां वर्णितायाः कादम्बर्याः वर्णनस्य बाणवर्णितकादम्बरीवर्णनेन सह साजात्येनापि दण्डिनो बाणपरवर्तित्वं मन्यते। बाणः ७१५ मितवैक्रमाब्दे तनुं तत्याजेति मन्यते। तदनन्तरवर्तित्वेन दण्डिनः ७३०-८०० मितवैक्रमाब्दकालः स्थितिकालत्वेन विद्वत्सु सम्मतिः।
दण्डिनः प्रासादिकगुणगुम्फितां सरलां भाषां विलोक्य केचित्तं बाणपूर्ववर्तिनमेव मन्यन्ते । तेषां मते सति तस्य बाणपरवर्तित्वे तस्य भाषयाऽपि बाणप्रवर्तितशैल्या प्रभावितया भाव्यं स्यान्न हि भाषयाऽपि तथा प्रतीयत इति। किन्तु नेदं युक्तियुक्तं प्रमाणं मन्यते यतो हि बाणपश्चाद्वर्तिनः सर्वे बाणमेवानुकुर्वन्तीति नैव राजाज्ञा कुत्रापि । कवेस्तु स्वकीयं वैशिष्ट्यं भवति । कमनीयपदावल्येव दण्डिनो वैशिष्टयम् । कल्पितेऽपि प्रमाणबाहुल्ये दण्डिनो यथार्थतः स्थितिकालस्तु ७००-८५० मितवैक्रमाब्दान्तरालः मन्यते। तेन ७५० मितवैक्रमाब्दपश्चाद्वर्तिना तु न कदापि भाव्यं यतो हि ७५० मितवैक्रमाब्दानभितः स्थितिमती विज्जका तं स्पष्टमेव स्मरति ।
नीलोत्पलदलश्यामां विज्जकां मामजानता।
वृथैव दण्डिना प्रोक्ता सर्वशुक्ला सरस्वती॥ इति ।
विज्जका द्वितीयपुलकेशिनः पुत्रस्य चन्द्रादित्यस्य पट्टराज्ञी विजयभट्टारिकैव नान्या।
दण्डी संस्कृतसाहित्ये मूर्तिमत् कविरेव। कथ्यते हि -
जाते जगति वाल्मीकौ कविरित्यभिधाऽभवत्।
कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि।। इति ।
दण्डिनः कृतित्वेन सन्त्यनेके ग्रथाः प्रसिद्धाः । यथा -
१. दशकुमारचरितं - गद्यकाव्यं कथारूपम् ।
२. काव्यादर्शः - लक्षणग्रन्थः
३. अवन्तिसुन्दरीकथा - गद्यकाव्यम्
४. छन्दोविचितिः
५. कलापरिच्छेदः
६. द्विसन्धानकाव्यम्
७. वातमन्दिरम्
केचिदत्र मृच्छकटिकं गृह्णन्ति किन्तु वातमन्दिरमेव तत् । तेष्वपि त्रयो नितान्तं ख्याताः -दशकुमारचरितं, काव्यादर्शः, अवन्तिसुन्दरीकथा (सम्भवतः)। कलापरिच्छेदः काव्यादर्शस्यैवाग्रिमो भागो न तु स्वतन्त्रग्रन्थः । एवमेव छन्दोविचितिरपि । यथोक्तं काव्यादर्शो -
'इत्थं कलाचतुःषष्ठिविरोधः साधु नीयताम्।
तस्याः कलापरिच्छेदे रूपमाविर्भविष्यति।।[१]
'पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ।
छन्दोविचित्य सकलस्तत्प्रपञ्चो निदर्शितः ।।[२]
दण्डिनो द्विसन्धानकाव्यमित्थं भोजराजेन शृङ्गारप्रकाशे स्मृतम् -
'द्वितीयस्य ( द्विसन्धानप्रकारस्य ) उदाहरणं यथा दण्डिनो धनञ्जयस्य द्विसन्धानप्रबन्धौ'[३]
दशकुमारे यादृशी भौगोलिकी स्थितिवर्णिताऽस्ति तदनुसारेण तु दण्डी प्रभाकरवर्धनसमकालिको दृश्यते । तदनुसारेण तस्य बाणपूर्ववर्तित्वं सिध्यति अपि च गद्यकाव्यस्य प्रथमप्रयोक्तत्वञ्च । किन्तवेतन्न तथा प्रामाणिकं यतो हि कवयः श्रुतं वा कल्पितमप्यर्थं लीलया वर्णयन्ति यथा नैषधीयचरिते दमयन्तीस्वयंवरसभायां सप्तानामेव द्वीपानां राज्ञां विशेषतो जम्बूद्वीपस्य अवन्ति-गौड-मथुरा-काशी-अयोध्या-पाण्ड्य-महेन्द्र-काञ्ची-नेपाल-मलय-मिथिला-कामरूप-उत्कल-कीकटमहीपतीनामुपस्थितिवर्णनम् । अपरञ्च हर्षनिर्वाणानन्तरमपि भारतस्य दशा तथैव सञ्जाताऽऽसीद्या प्रभाकरवर्धनसमये आसीत् । काव्यादर्शे दण्डी कथयति यत् -
'इति साक्षात्कृते देवे राज्ञो यद्राजवर्मणः।
प्रीतिप्रकाशनं तच्च प्रेय इत्यवगम्यताम्॥'[४] इति ।
राजवर्माणं स्वाश्रयदातृत्वेन स्मरति । ऐतिहासिकैः खलु राजवर्मा इति ७४७-७८२ मितवैक्रमाब्दान्तराले काञ्चीं शासत्पल्लवराजो नरसिंहूवर्मा गृह्यते । सति तथा, दण्डिनोऽपि तत्सभाकवित्वेन वा तत्समकालिकत्वेन ७३०-८०० मितवैक्रमाब्दकालः स्थितिकालत्वेन मन्यते ।
दण्डी न केवलं विद्वान्, तस्य कल्पना उदात्ता बदुमुखी च । नास्य प्रबन्धः सुबन्धोरिव प्रत्यक्षरश्लेषमयो नापि च बाणस्येव रुचिरस्वरुवर्णपदानि । अस्य तु पदानि प्रसादमधुराणि ललितललितानि भावगभितानि च । समालोचकाः आमनन्ति यत्, स्पष्टता, भव्यभावसमभिव्यक्तिः कोमलकल्पनाकमनीयता, विचारवेशद्यञ्चास्य कृतिगतं वैशिष्ट्यम् । कविरसौ अनुप्रासमयपदविन्यासे एव रमते । तेनैवोक्तं भवेत् - 'दण्डिनः पदलालित्यम्' इति । अस्य पात्राणां सजीवता रोचिष्णुहास्यविलासः हृदयङ्गमा व्यङ्गभङ्गी च सर्वेषां कृते प्ररोचकाः । यथा हि -
'कुमारा माराभिरामा रामास्तपौरुषा रुषा भस्मीकृतारयो रयोपहसितसमीरणा रणाभियानेनाभ्युदयाशंसं राजानमकार्षः।'
निभाल्यतामस्य कवित्वकमनीयताऽत्र -
सुभग कुसुमसुकुमारं जगदनवद्यं विलोक्य ते रूपम्।
मम मानसमभिलषतित्वं वित्तं कुरु तथा मृदुलम्॥ इति ।
एवमेवास्य वर्णनकौशलस्योदाहरणं यथा -
'तत्र चकोरलोचनावचितपल्लवकुसुमनिकुरस्वं महीरुहसमूहं शरदिन्दमुख्या मन्मथसमाराधनस्थानञ्च नताङ्गीपदपङ्क्तिचिह्नितं शीतलसकततलञ्च सुदतीमुक्तमुक्तं माधवीलतामण्डपान्तरपल्लवतल्पं च विलोकयन् ललनातिलकविलोकनवेलाजनितशेषाणि स्मारं स्मारं मन्दमारुतकम्पितानि नवचतपल्लवानि मदनाग्निशिखा इव चकितो दर्शं दर्शं मनोजकर्णेजपानामिव कोकिलकोरमधुकराणां क्वणितानि श्रावं श्रावं मारविकारेण क्वचिदप्यवस्थातुमसहिष्णुः परिबभ्राम' इत्यादि ।
सत्यमेवोक्तमेकेन समालोचकेन यद्दण्डिनो दशकुमारचरिते नानाविधा, रोमाञ्चकारिघटनाः सन्ति । ग्रन्थस्यास्य मुख्यो रसस्तु वीर एव किन्तु प्राधान्यमद्भूतस्यापि ।
त्रयोऽग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः ।
त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ॥
इति महाकविः राजशेखरः स्वस्य सुभाषितहारावलिग्रन्थे वदति । संस्कृतसाहित्ये गद्यकविषु दण्डी (Dandi) बहु प्रख्यातः अस्ति। गद्यकाव्येषु याद्र्शी कुतूहलता दण्डिना प्रदर्शिता ताद्र्शी कुतूहलता आसक्तिः च केनापि न प्रदर्शिता। दण्डिनः सप्त कृतयः समुपलभ्यते।
दशकुमारचरितम्
----------------------
दशकुमारचरितं दण्डिनः प्रथितं गद्यकाव्यम् । अस्य पूर्वपीठिका, दशकुमारचरितं, उत्तरपीठिका चेति त्रयो भागाः । तत्रापि केचित्तु भाषागतभङ्गीमुद्दिश्य केवलं चरितभागमेव दण्डिप्रणीतं मन्यन्ते । तदनुसारेण यथा चरितभागस्य कमनीयपदा प्रसादगुणगुम्फिता मधुरमधुरा च भाषा न तथा पूर्वोत्तरपीठिकयोरिति । किन्तु कथनमतन्न युक्तियुक्तं सर्वेभ्यः। भाषाभङ्गी विषयानुबन्धिनी कवेस्तात्कालिकमनोवृत्यनुगा च । तेन एक एव कविरपि विविधभाषाभङ्गीमनुतिष्ठतीति नाश्चर्यं विषयाद्यनुसारेण ।
दशानां कुमाराणामतिपौरुषपराक्रमवर्णनमेवाऽस्य ग्रन्थस्य विषयः । मगधेशकुमारस्य राजवाहनस्य तन्मित्राणां नवानां देशविदेशाटनानुभवानां मनोहारि वर्णनमत्र दृश्यते।
दशकुमारचरितस्य सन्त्यनेके टीकाग्रन्थाः । अस्य पूर्वपीठिकायाः पददीपिकाऽभिधा टीका लभ्यते प्राचीना, नवीना च शेषराजशर्मणश्चन्द्रकलाऽऽख्या । मध्यभागस्य पदचन्द्रिका कवीन्द्राचार्यसरस्वतीकृता, शिवरामप्रणीता भूषणाऽऽख्या, लघुदीपिका च भानुचन्द्रकृता टीकाः । उत्तरपीठिकायाः न काऽपि टीका लभ्यते । पूर्वपीठिकायाः मध्यभागस्य च ताराचरणभट्टाचार्यप्रणीता बालविबोधिनी नाम्नी टीकाऽपि दृश्यते।
काव्येस्मिन् शोभनाशोभनयोः द्वयोरपि वर्णनं दृश्यते। दशकुमाराणां चरितम् अस्य काव्यस्य मूलविषय: अस्ति ।
स मेधावी कविर्विद्वान् भारविं प्रभवां गिराम् ।
अनुरुध्याकरोन्मैत्रीं नरेन्द्रे विष्णुर्वधने ॥
अनेन पद्येन कवेः जीवनचरितं प्रकाशितं भवति । दण्डिनः कवेः प्रपितामहस्य श्रीदामोदरस्य मैत्री विष्णुवर्धनेन सहाभवत् । दण्डिनः जन्म काञ्चीवरमिति नाम्नाधुना प्रसिद्धनगरे अभवत् । काञ्च्याः पल्लवनरेशस्य पुत्रस्य शिक्षायै दण्डी ' काव्यादर्शम्' रचितवान् इति प्रसिद्धास्ति किंवदन्ती ।
नवमशतब्द्याः ग्रन्थेषु दण्डिनः नामोल्लेखः प्राप्यते । अतः दण्डिनः समयो नवमशताब्द्याः पूर्वं भवितुमर्हति । "काव्यादर्शः"अस्य मौलिकग्रन्थो प्रतिभाति । प्राचीनमपि पद्यं काव्यादर्शे दृश्यते । "लक्ष्म लक्ष्मीं तनोतीति प्रतीतिसुभगं वचः" इत्यादौ दण्डी, महाकविकालिदासस्य "मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति" इति पद्यांशमुद्धरति । अतः कालिदासस्य पद्यादेवास्यास्तित्वमिति निर्विरोधम् ।
प्रो०आर्०नृहिंसाचार्यः काव्यादर्शे उल्लिखितं राजवर्माणं नृसिंहवर्मणा उपनाम्ना प्रसिद्धं मत्वा दण्डिनः स्थितिकालं सप्तमशताब्द्याः उत्तरार्धे स्वीकरोति । वस्तुतस्तु पल्लवराजस्य नृसिंहवर्मणः समयः ६९० ई आरभ्य ७१५ ई मन्यते । अत अस्यैव सभापण्डितस्य दण्डिनः समयः सप्तमशताब्द्याः अन्ते अष्टम-शताब्द्याश्चादौ वा मन्तव्य इति युक्तिसङ्गतं प्रतिभाति ।
दशकुमारचरितं दण्डिनः गद्यकाव्यं विद्यते । दशकुमाराणां चरितं काव्येऽस्मिन् वर्णितमतो दशकुमारचरितमिति नाम ।
अवन्तिसुन्दरीकथा
अवन्तिसुन्दरीकथा दण्डिनोऽपरा कृतिः। ग्रन्थोऽयमपि हर्षचरितमिव कतिपयैः पद्यैरारभ्यते । अत्रापि वाल्मीकि-व्यास-सुबन्धु-गुणाढ्य-शूद्रक-भास-प्रवरसेन-कालिदास-नारायण-बाण-मयूराख्यानां कवीनां नामग्रहणं कृतमस्ति । तत्र कतिपयपद्यानां मध्यभागः खण्डितोऽपि दृश्यते । ततश्च गद्येन ग्रन्थारम्भः कृतोऽस्ति । अत्र बाणस्य कादम्बरी पुनरुक्तेव दृश्यते भाषाभाववर्ण्यविषयादिदृष्ट्या। दण्डिना 'ओजःसमासभ्यस्त्वं गद्यस्य जीवितमिति' यदुक्तं तदवन्तिसुन्दरीकथायामेव चरितार्थं भवति न तु दशकुमारचरिते ।
शास्त्री रेखा सिंह जयशूर