महाकवि दांडी

महाकवि दांडी
------------------------
दण्डी कविः आलङ्कारिकश्च। दशकुमारचरितं, काव्यादर्शः, अवन्तिसुन्दरीकथा च अस्य प्रसिद्धाः ग्रन्थाः। आहत्य अस्य सप्त रचनाः सन्ति। एषः काञ्जीवासी आसीत्।

दण्डिनः स्थितिकालः सन्दिग्ध एव । अत्र समालोचकाः सुबन्धु-बाण-दण्डिनः, बाणदण्डिसुबन्धवः, सुबन्धु-दण्डि-बाणाश्चेति त्रिविधक्रमसमर्थका दृश्यन्ते । अधिकाः तु प्रथममेव पक्षमाश्रित्य प्रचलिताः दृश्यन्ते। एतावदेव ज्ञायते यत्स दाक्षिणात्यः । बाणभट्टः तं न स्मरतीति तस्य स्थितिकालस्य पूर्वसीमा, अभिनवगुप्तस्तं लोचने स्मरतीति तस्यापरसीमा।

अवन्तिसुन्दरीकथाऽनुसारेण दण्डी दामोदराऽऽख्यस्य प्रपौत्रः आसीत्। दामोदरस्य चतुर्षु सुतेषु कनिष्ठस्य वीरदत्तस्य सुत आसीद् दण्डी । तस्य माता गौरी । कथ्यते दामोदरः भारविरेव किंवा भारवेरन्तरङ्गसुहृदासीत् । सः विष्णुवर्धनाख्यस्य सिंहविष्णोः काञ्चीनरेशस्य सभापण्डित आसीत् । दामोदरस्य पुत्रो वीरेश्वरदत्तोऽपि सिंहविष्णुसुतस्य महेन्द्रवर्मणः सभापण्डित आसीत् । तथैव तत्सुतो दण्डी महेन्द्रवर्मणः सुतस्य नरसिंहवर्मणस्तत्सुतस्य राजवर्मणश्च सभाध्यक्ष आसीत् । नरसिंहवर्मणः स्थितिकालः ७४७-७८२ मितवैक्रमाब्दानभितः । एवमेव अवन्तिसुन्दरीकथायाम् -

भिन्नतीक्ष्णमुखेनाऽपि चित्रं बाणेन निर्व्यथः।

व्याहारेषु जहौ लीलां न मयूरः::::::::::।।

इति बाणो मयूरश्च कवी स्मृतौ दृश्येते । अनेन अवन्तिसुन्दरीकथायां वर्णितायाः कादम्बर्याः वर्णनस्य बाणवर्णितकादम्बरीवर्णनेन सह साजात्येनापि दण्डिनो बाणपरवर्तित्वं मन्यते। बाणः ७१५ मितवैक्रमाब्दे तनुं तत्याजेति मन्यते। तदनन्तरवर्तित्वेन दण्डिनः ७३०-८०० मितवैक्रमाब्दकालः स्थितिकालत्वेन विद्वत्सु सम्मतिः।

दण्डिनः प्रासादिकगुणगुम्फितां सरलां भाषां विलोक्य केचित्तं बाणपूर्ववर्तिनमेव मन्यन्ते । तेषां मते सति तस्य बाणपरवर्तित्वे तस्य भाषयाऽपि बाणप्रवर्तितशैल्या प्रभावितया भाव्यं स्यान्न हि भाषयाऽपि तथा प्रतीयत इति। किन्तु नेदं युक्तियुक्तं प्रमाणं मन्यते यतो हि बाणपश्चाद्वर्तिनः सर्वे बाणमेवानुकुर्वन्तीति नैव राजाज्ञा कुत्रापि । कवेस्तु स्वकीयं वैशिष्ट्यं भवति । कमनीयपदावल्येव दण्डिनो वैशिष्टयम् । कल्पितेऽपि प्रमाणबाहुल्ये दण्डिनो यथार्थतः स्थितिकालस्तु ७००-८५० मितवैक्रमाब्दान्तरालः मन्यते। तेन ७५० मितवैक्रमाब्दपश्चाद्वर्तिना तु न कदापि भाव्यं यतो हि ७५० मितवैक्रमाब्दानभितः स्थितिमती विज्जका तं स्पष्टमेव स्मरति ।

नीलोत्पलदलश्यामां विज्जकां मामजानता।

वृथैव दण्डिना प्रोक्ता सर्वशुक्ला सरस्वती॥ इति ।

विज्जका द्वितीयपुलकेशिनः पुत्रस्य चन्द्रादित्यस्य पट्टराज्ञी विजयभट्टारिकैव नान्या।

दण्डी संस्कृतसाहित्ये मूर्तिमत् कविरेव। कथ्यते हि -

जाते जगति वाल्मीकौ कविरित्यभिधाऽभवत्।

कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि।। इति ।

दण्डिनः कृतित्वेन सन्त्यनेके ग्रथाः प्रसिद्धाः । यथा -

१. दशकुमारचरितं - गद्यकाव्यं कथारूपम् ।

२. काव्यादर्शः - लक्षणग्रन्थः

३. अवन्तिसुन्दरीकथा - गद्यकाव्यम्

४. छन्दोविचितिः

५. कलापरिच्छेदः

६. द्विसन्धानकाव्यम्

७. वातमन्दिरम्

केचिदत्र मृच्छकटिकं गृह्णन्ति किन्तु वातमन्दिरमेव तत् । तेष्वपि त्रयो नितान्तं ख्याताः -दशकुमारचरितं, काव्यादर्शः, अवन्तिसुन्दरीकथा (सम्भवतः)। कलापरिच्छेदः काव्यादर्शस्यैवाग्रिमो भागो न तु स्वतन्त्रग्रन्थः । एवमेव छन्दोविचितिरपि । यथोक्तं काव्यादर्शो -

'इत्थं कलाचतुःषष्ठिविरोधः साधु नीयताम्।

तस्याः कलापरिच्छेदे रूपमाविर्भविष्यति।।[१]

'पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ।

छन्दोविचित्य सकलस्तत्प्रपञ्चो निदर्शितः ।।[२]

दण्डिनो द्विसन्धानकाव्यमित्थं भोजराजेन शृङ्गारप्रकाशे स्मृतम् -

'द्वितीयस्य ( द्विसन्धानप्रकारस्य ) उदाहरणं यथा दण्डिनो धनञ्जयस्य द्विसन्धानप्रबन्धौ'[३]

दशकुमारे यादृशी भौगोलिकी स्थितिवर्णिताऽस्ति तदनुसारेण तु दण्डी प्रभाकरवर्धनसमकालिको दृश्यते । तदनुसारेण तस्य बाणपूर्ववर्तित्वं सिध्यति अपि च गद्यकाव्यस्य प्रथमप्रयोक्तत्वञ्च । किन्तवेतन्न तथा प्रामाणिकं यतो हि कवयः श्रुतं वा कल्पितमप्यर्थं लीलया वर्णयन्ति यथा नैषधीयचरिते दमयन्तीस्वयंवरसभायां सप्तानामेव द्वीपानां राज्ञां विशेषतो जम्बूद्वीपस्य अवन्ति-गौड-मथुरा-काशी-अयोध्या-पाण्ड्य-महेन्द्र-काञ्ची-नेपाल-मलय-मिथिला-कामरूप-उत्कल-कीकटमहीपतीनामुपस्थितिवर्णनम् । अपरञ्च हर्षनिर्वाणानन्तरमपि भारतस्य दशा तथैव सञ्जाताऽऽसीद्या प्रभाकरवर्धनसमये आसीत् । काव्यादर्शे दण्डी कथयति यत् -

'इति साक्षात्कृते देवे राज्ञो यद्राजवर्मणः।

प्रीतिप्रकाशनं तच्च प्रेय इत्यवगम्यताम्॥'[४] इति ।

राजवर्माणं स्वाश्रयदातृत्वेन स्मरति । ऐतिहासिकैः खलु राजवर्मा इति ७४७-७८२ मितवैक्रमाब्दान्तराले काञ्चीं शासत्पल्लवराजो नरसिंहूवर्मा गृह्यते । सति तथा, दण्डिनोऽपि तत्सभाकवित्वेन वा तत्समकालिकत्वेन ७३०-८०० मितवैक्रमाब्दकालः स्थितिकालत्वेन मन्यते ।

दण्डी न केवलं विद्वान्, तस्य कल्पना उदात्ता बदुमुखी च । नास्य प्रबन्धः सुबन्धोरिव प्रत्यक्षरश्लेषमयो नापि च बाणस्येव रुचिरस्वरुवर्णपदानि । अस्य तु पदानि प्रसादमधुराणि ललितललितानि भावगभितानि च । समालोचकाः आमनन्ति यत्, स्पष्टता, भव्यभावसमभिव्यक्तिः कोमलकल्पनाकमनीयता, विचारवेशद्यञ्चास्य कृतिगतं वैशिष्ट्यम् । कविरसौ अनुप्रासमयपदविन्यासे एव रमते । तेनैवोक्तं भवेत् - 'दण्डिनः पदलालित्यम्' इति । अस्य पात्राणां सजीवता रोचिष्णुहास्यविलासः हृदयङ्गमा व्यङ्गभङ्गी च सर्वेषां कृते प्ररोचकाः । यथा हि -

'कुमारा माराभिरामा रामास्तपौरुषा रुषा भस्मीकृतारयो रयोपहसितसमीरणा रणाभियानेनाभ्युदयाशंसं राजानमकार्षः।'

निभाल्यतामस्य कवित्वकमनीयताऽत्र -

सुभग कुसुमसुकुमारं जगदनवद्यं विलोक्य ते रूपम्।

मम मानसमभिलषतित्वं वित्तं कुरु तथा मृदुलम्॥ इति ।

एवमेवास्य वर्णनकौशलस्योदाहरणं यथा -

'तत्र चकोरलोचनावचितपल्लवकुसुमनिकुरस्वं महीरुहसमूहं शरदिन्दमुख्या मन्मथसमाराधनस्थानञ्च नताङ्गीपदपङ्क्तिचिह्नितं शीतलसकततलञ्च सुदतीमुक्तमुक्तं माधवीलतामण्डपान्तरपल्लवतल्पं च विलोकयन् ललनातिलकविलोकनवेलाजनितशेषाणि स्मारं स्मारं मन्दमारुतकम्पितानि नवचतपल्लवानि मदनाग्निशिखा इव चकितो दर्शं दर्शं मनोजकर्णेजपानामिव कोकिलकोरमधुकराणां क्वणितानि श्रावं श्रावं मारविकारेण क्वचिदप्यवस्थातुमसहिष्णुः परिबभ्राम' इत्यादि ।

सत्यमेवोक्तमेकेन समालोचकेन यद्दण्डिनो दशकुमारचरिते नानाविधा, रोमाञ्चकारिघटनाः सन्ति । ग्रन्थस्यास्य मुख्यो रसस्तु वीर एव किन्तु प्राधान्यमद्भूतस्यापि ।

त्रयोऽग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः ।
त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ॥
इति महाकविः राजशेखरः स्वस्य सुभाषितहारावलिग्रन्थे वदति । संस्कृतसाहित्ये गद्यकविषु दण्डी (Dandi) बहु प्रख्यातः अस्ति। गद्यकाव्येषु याद्र्शी कुतूहलता दण्डिना प्रदर्शिता ताद्र्शी कुतूहलता आसक्तिः च केनापि न प्रदर्शिता। दण्डिनः सप्त कृतयः समुपलभ्यते।


दशकुमारचरितम्
----------------------
दशकुमारचरितं दण्डिनः प्रथितं गद्यकाव्यम् । अस्य पूर्वपीठिका, दशकुमारचरितं, उत्तरपीठिका चेति त्रयो भागाः । तत्रापि केचित्तु भाषागतभङ्गीमुद्दिश्य केवलं चरितभागमेव दण्डिप्रणीतं मन्यन्ते । तदनुसारेण यथा चरितभागस्य कमनीयपदा प्रसादगुणगुम्फिता मधुरमधुरा च भाषा न तथा पूर्वोत्तरपीठिकयोरिति । किन्तु कथनमतन्न युक्तियुक्तं सर्वेभ्यः। भाषाभङ्गी विषयानुबन्धिनी कवेस्तात्कालिकमनोवृत्यनुगा च । तेन एक एव कविरपि विविधभाषाभङ्गीमनुतिष्ठतीति नाश्चर्यं विषयाद्यनुसारेण ।

दशानां कुमाराणामतिपौरुषपराक्रमवर्णनमेवाऽस्य ग्रन्थस्य विषयः । मगधेशकुमारस्य राजवाहनस्य तन्मित्राणां नवानां देशविदेशाटनानुभवानां मनोहारि वर्णनमत्र दृश्यते।

दशकुमारचरितस्य सन्त्यनेके टीकाग्रन्थाः । अस्य पूर्वपीठिकायाः पददीपिकाऽभिधा टीका लभ्यते प्राचीना, नवीना च शेषराजशर्मणश्चन्द्रकलाऽऽख्या । मध्यभागस्य पदचन्द्रिका कवीन्द्राचार्यसरस्वतीकृता, शिवरामप्रणीता भूषणाऽऽख्या, लघुदीपिका च भानुचन्द्रकृता टीकाः । उत्तरपीठिकायाः न काऽपि टीका लभ्यते । पूर्वपीठिकायाः मध्यभागस्य च ताराचरणभट्टाचार्यप्रणीता बालविबोधिनी नाम्नी टीकाऽपि दृश्यते।

काव्येस्मिन् शोभनाशोभनयोः द्वयोरपि वर्णनं दृश्यते। दशकुमाराणां चरितम् अस्य काव्यस्य मूलविषय: अस्ति ।

स मेधावी कविर्विद्वान् भारविं प्रभवां गिराम् ।
अनुरुध्याकरोन्मैत्रीं नरेन्द्रे विष्णुर्वधने ॥
अनेन पद्येन कवेः जीवनचरितं प्रकाशितं भवति । दण्डिनः कवेः प्रपितामहस्य श्रीदामोदरस्य मैत्री विष्णुवर्धनेन सहाभवत् । दण्डिनः जन्म काञ्चीवरमिति नाम्नाधुना प्रसिद्धनगरे अभवत् । काञ्च्याः पल्लवनरेशस्य पुत्रस्य शिक्षायै दण्डी ' काव्यादर्शम्' रचितवान् इति प्रसिद्धास्ति किंवदन्ती ।

नवमशतब्द्याः ग्रन्थेषु दण्डिनः नामोल्लेखः प्राप्यते । अतः दण्डिनः समयो नवमशताब्द्याः पूर्वं भवितुमर्हति । "काव्यादर्शः"अस्य मौलिकग्रन्थो प्रतिभाति । प्राचीनमपि पद्यं काव्यादर्शे दृश्यते । "लक्ष्म लक्ष्मीं तनोतीति प्रतीतिसुभगं वचः" इत्यादौ दण्डी, महाकविकालिदासस्य "मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति" इति पद्यांशमुद्धरति । अतः कालिदासस्य पद्यादेवास्यास्तित्वमिति निर्विरोधम् ।

प्रो०आर्०नृहिंसाचार्यः काव्यादर्शे उल्लिखितं राजवर्माणं नृसिंहवर्मणा उपनाम्ना प्रसिद्धं मत्वा दण्डिनः स्थितिकालं सप्तमशताब्द्याः उत्तरार्धे स्वीकरोति । वस्तुतस्तु पल्लवराजस्य नृसिंहवर्मणः समयः ६९० ई आरभ्य ७१५ ई मन्यते । अत अस्यैव सभापण्डितस्य दण्डिनः समयः सप्तमशताब्द्याः अन्ते अष्टम-शताब्द्याश्चादौ वा मन्तव्य इति युक्तिसङ्गतं प्रतिभाति ।

दशकुमारचरितं दण्डिनः गद्यकाव्यं विद्यते । दशकुमाराणां चरितं काव्येऽस्मिन् वर्णितमतो दशकुमारचरितमिति नाम ।

अवन्तिसुन्दरीकथा

अवन्तिसुन्दरीकथा दण्डिनोऽपरा कृतिः। ग्रन्थोऽयमपि हर्षचरितमिव कतिपयैः पद्यैरारभ्यते । अत्रापि वाल्मीकि-व्यास-सुबन्धु-गुणाढ्य-शूद्रक-भास-प्रवरसेन-कालिदास-नारायण-बाण-मयूराख्यानां कवीनां नामग्रहणं कृतमस्ति । तत्र कतिपयपद्यानां मध्यभागः खण्डितोऽपि दृश्यते । ततश्च गद्येन ग्रन्थारम्भः कृतोऽस्ति । अत्र बाणस्य कादम्बरी पुनरुक्तेव दृश्यते भाषाभाववर्ण्यविषयादिदृष्ट्या। दण्डिना 'ओजःसमासभ्यस्त्वं गद्यस्य जीवितमिति' यदुक्तं तदवन्तिसुन्दरीकथायामेव चरितार्थं भवति न तु दशकुमारचरिते ।
शास्त्री रेखा सिंह जयशूर

0 टिप्पणियाँ

मम जीवनस्य निर्माणकत्र्यः महिलाः: आत्मचिन्तनम्

  मम जीवनस्य निर्माणकत्र्यः महिलाः: आत्मचिन्तनम् म म जीवनपथे अहं बहूनां विशिष्टानां महिलानां संपर्के आगतोऽस्मि, याः मम व्यक्तित्वस्य निर्माणे महत्त्वपूर्णां भूमिकां निरूढवत्यः। एकस्याः प्रेरणास्रोतसः अपेक्षया, बहव्यः महिलाः स्वस्य अविचलितसमर्थनेन अपारत्यागेन च मम जीवनं पोषितवत्यः परिवर्तितवत्यश्च। मम माता अस्य समर्थनपद्धतेः आधारशिलारूपेण तिष्ठति। सा स्वीयकल्याणार्थं स्वार्थत्यागं कृत्वा मम हिताय समर्पिता आसीत्। समाजस्य सम्मानितसदस्यरूपेण मम निर्माणे सहायकानां मूल्यानां संस्थापनं कृतवती। सद्यशसः अनुरक्षणस्य महत्त्वं प्रतिपादयन्त्याः तस्याः निरन्तरप्रयासाः मम व्यक्तिगतव्यावसायिकजीवनयोः गम्भीरप्रभावं पारितवन्तः। मम भगिन्यः अपि मम यात्रायां महत्त्वपूर्णां भूमिकां निर्वाहितवत्यः। तासां जीवने रक्षात्मकं पितृसदृशं स्थानं स्वीकृतवान् अहम्, विवाहानन्तरमपि ताः मम परामर्शं याचन्ते, यत् मम गौरवस्य विषयोऽस्ति। मम पत्न्याः आगमनेन मम दृष्टिकोणे नवीनपरिप्रेक्ष्यं सकारात्मकपरिवर्तनं च आगतम्। तस्याः सहचारिता शक्तेः प्रेरणायाश्च स्रोतः भूत्वा श्रेष्ठतरा...