नागपञ्चमी

शरीरमाद्यं खलु धर्मसाधनम् --

   पूर्वजन्मनः सुसंस्कारबलात् अस्मिन् जन्मनि मानवशरीरं प्राप्यते, यच्च अत्यन्तं दुर्लभमस्ति । देवाः अपि मानवजीवनम् इच्छेयुः । कारणं विवेकशीलाः मानवाः साधनद्वारा अत्यन्तम् अनुपमेयं रहस्यमयं दिव्यं परमं गूढतत्त्वं चापि अवगन्तुं प्राप्तुञ्च सक्षमाः भवन्ति । एतादृशी योग्यता मानवानाम् अतिरिच्य अन्येषु पशुप्राण्यादिषु न विद्यते ।
    तत्साधनार्थम् आदौ एव शरीरस्य आवश्यकता भवति अर्थात् साधना इदम्प्रथमतया शरीरद्वारा हि सम्भवति । शरीरम् एव मनोबुद्धीन्द्रियाणां निवासक्षेत्रम् । क्षेत्रम् उर्वरायुक्तं चेत् धान्यादिसस्यानां अभिवृद्धिः जायते स्वाभाविकतया । अत्र धान्यादिनाम् उन्नतेः कारणभूतं तु कृषिक्षेत्रमेव । तद्वत् मानवस्य जीवनविकासाय अपि प्रथमतया स्वस्थशरीरस्य आवश्यकता भवति । रुग्णशरीरेण दुःखादतिरिच्य नान्यत् किमपि साधयितुं लब्धुञ्च शक्यम् । अतः स्वस्थशरीरस्य प्राप्त्यर्थं मानवैः यथाशक्यं प्रयतनीयम् । प्रतिदिनम् आहारः, विहारः, स्वप्नः, जागरणम्, कर्मचेष्टा इत्यादिकं सर्वमपि नियमपूर्वकम् उचितमात्रायुक्तम्, सात्त्विकयुक्तञ्च भवेत् । नियमितरूपेण योगः, प्राणायामः, ध्यान-धारणा, आस्तिकता, स्वाध्यायः, देवपूजनम् इत्यादिकर्म विधातव्यम् । एवमेव नम्रता, जीवप्रेम, परोपकारः इत्यादयः सद्गुणाः मनःइन्द्रियाणां तथाच शरीरस्य स्वास्थ्याय कल्पन्ते ।
      शरीरस्वास्थयुक्तं चेत् साधनया इहलौकिकं पारलौकिकञ्च सर्वविधं सुखं  लब्धुं शक्यते । अतः मानवैः सर्वादौ स्वस्थशरीरप्राप्त्यर्थं एतस्य संरक्षणार्थञ्च चेष्टा करणीया । तदा एव धर्मसाधनमपि सुकरं सुलभञ्च भवितुमर्हिस्यति । इत्यतः उच्यते ' शरीरमाद्यं खलु धर्मसाधनम् ' इति ।

        -- #नारदः, २५/०७/२०.
                  #नागपञ्चमी

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...