मंगलवार, 20 अक्टूबर 2020

एकेन रुप्यकेन ईश्वरः क्रेतव्यः

!!!---: एकेन रुप्यकेन ईश्वरः क्रेतव्यः :---!!!
============================

एकः अष्टवर्षीयबालकः हस्ते एकं रुप्यकम् आदाय एकम् आपणं गत्वा आपणिकं पृच्छति महोदय! भवतः आपणे ईश्वरः अस्ति वा? इति

आपणिकः बालकस्य वचनं श्रुत्वा तस्य धनमुद्राम् अधः पातितवान् अपिच तं बालकं प्रताडितवान्। 

पुनः सः एकं रुप्यकं नीत्वा पार्श्वस्थम् आपणं गत्वा तूष्णीम् स्थितवान्।

आपणिकः तं दृष्ट्वा पृष्टवान् भो बालक! एकेन रुप्यकेन त्वं किं नेतुम् इच्छसि? इति। 
अहम् ईश्वरम् इच्छामि, अस्ति वा भवतः आपणे इति बालकः पृष्टवान्। 

तस्य बालकस्य वचनं श्रुत्वा सोऽपि आपणिकः तं प्रताडितवान्।

एवमेव सः बालकः रुप्पकमेकं नीत्वा प्रायः चत्वारिंशत् आपणान् गतवान् परन्तु कुत्रापि तेन ईश्वरः न लब्धः, अपि च तं सर्वे अपि आपणिकाः प्रताडितवन्तः।

परन्तु सः बालकः निराशः न अभवत्। अन्ते च सः एकस्य वृद्धस्य आपणं गतवान्। सः तम् आपणिकमपि तथैव पृष्टवान्। 

वृद्धः आपणिकः बालकस्य वचनं श्रुत्वा तं पृष्टवान् हे बालक! त्वं किमर्थम् ईश्वरं क्रेतुम् इच्छसि? ईश्वरं नीत्वा त्वं किं करिष्यसि? इति। 

प्रथमवारं कस्यापि आपणिकस्य मुखात् प्रश्नं श्रुत्वा तस्य बालकस्य मनसि किञ्चिद् आशा उत्पन्ना। मन्ये अस्मिन् आपणे ईश्वरः अस्ति सः बालकः चिन्तितवान्। 

अतः सः उत्साहेन उत्तरितवान् महोदय। अस्मिन् जगति मम मातरम् विहाय अन्यः अन्या वा कोऽपि नास्ति। मम माता कार्यं कृत्वा मह्यं भोजनम् आनयति।

इदानीं सा रुग्णा अस्ति अतः सा चिकित्सालये प्रविष्टा अस्ति।
यदि मम माता म्रियेत तर्हि मां कः का वा भोजनं दद्यात्? 
ईश्वरः एव मम मातुः रक्षां कर्तुं शक्नोति इति वैद्यः उक्तवान्। 
अतः भवतः आपणे ईश्वरः अस्ति वा?  

आपणिकः- आम्, ईश्वरः प्राप्यते, परन्तु तव पार्श्वे कति रुप्यकाणि सन्ति? 

केवलम् एकं रुप्यकम् अस्ति इति बालकेन उक्तम्। 

अस्तु चिन्ता नास्ति। एकेन रुप्यकेन ईश्वरः लभ्यते एव इति आपणिकः उक्तवान्। 

आपणिकः बालकस्य हस्तात् एकं रुप्यकं स्वीकृत्य जलशोधन्याः चषकमेकं जलं स्वीकृत्य तस्मै प्रदाय उक्तवान् एतज्जलं नीत्वा तव मातरं पाययति चेत् सा शीघ्रं स्वस्था भविष्यति इति। 

परेद्युः केचन विशिष्टाः वैद्याः चिकित्सालयं गत्वा तस्य बालकस्य मातुः शल्यचिकित्सां कृतवन्तः, तस्मात् सा महिला स्वस्था अभवत्। 

तदनन्तरं चिकित्सालयात् तया महिलया प्राप्तं मुक्तिपत्रं पठित्वा तस्मिन् पत्रे चिकित्साशुल्क शून्यम् इति दृष्ट्वा सा आश्चर्यचकिता अभवत्। 

तदा वैद्यः तस्यै आश्वासनं प्रदाय उक्तवान् चिन्ता न कार्या, एको वृद्धः सज्जनः भवत्याः सर्वं चिकित्साशुल्कं दत्तवान्। अपिच एकं पत्रमपि सः दत्तवान्। 

सा महिला तदा तत् पत्रं पठितुम् आरब्धवती। तस्मिन् पत्रे लिखितम् आसीत् - मम कृते धन्यवादस्य आवश्यकता नास्ति। भवतीं तु स्वयम् ईश्वरः एव रक्षितवान्। यदि कस्मै अपि धन्यवादं दातुम् इच्छति तर्हि भवत्याः पुत्राय ददातु। 

स अबोधबालकः यः केवलम् एकं रुप्यकं नीत्वा ईश्वरस्य अन्वेषणं कर्तुम् आरब्धवान्। तस्य मनसि दृढविश्वासः आसीत् यत् केवलम् ईश्वरः एव भवतीं रक्षितुं शक्नोति इति। 

यदि मनसि दृढविश्वासः भवेत् चेद् एकेन रुप्यकेन एव ईश्वरं प्राप्तुं शक्यते, कोटिरुप्यकाणां दानस्य आवश्यकता न भवति इति शम्।

कोई टिप्पणी नहीं:

बालकस्य दिनचर्या

बालकस्य दिनचर्या एकस्मिन् रमणीये ग्रामे सोमः नाम एकः बुद्धिमान् बालकः वसति स्म। तस्य गृहं वृक्षैः परिवृतम् आसीत्। सः प्रतिदिनं ब्राह्ममुहूर्...