यमराजः दस्युः साधुः च!

यमराजः दस्युः साधुः च!

एकदा कश्चन साधुः यमलोकं गतवान्। तदा एव अन्यः कश्चन दस्युः‌ अपि यमलोकं गतवान्। 

तत्र गत्वा दस्युः‌ यमराजं दण्डम् अयाचत। साधुः च स्वर्गसुखम् अयाचत। 

यमराजः तदा दस्यवे दण्डरूपेण त्वं साधोः सेवां कुरु इति आदेशं दत्तवान्।

 साधुः तन्न अङ्ग्यकरोत्।

यमराजः तदा साधुम् उक्तवान् भोः! भवतः तपः इदानीमपि असम्पूर्णम् अस्ति। 

मृत्योः अनन्तरं साधुः दस्युः च द्वौ अपि यमलोकम् अगच्छताम्।

यमराजः तयोः जीवनवृत्तान्तं  दृष्ट्वा तौ आदिशत् इदानीं भवन्तौ स्व स्व विषये वदताम् इति। 

तदा दस्युः अत्यन्तं विनयेन अवदत् हे महाराज! अहं मम जीवने सर्वदा पापकार्यम् अकरवम्। अहम् अपराधी अस्मि। अतः मत्कृते भवान् यं दण्डं दातुम् इच्छति ददातु, अहम् अङ्गीकरोमि।

अनन्तरं साधुः अवदत् महाराज! अहं मम जीवने सर्वदा तपः आचरितवान्, भगवते च महती भक्तिः आसीत्। जीवने अहं कदापि असत्यस्य मार्गं न अगच्छम्। सर्वदा सत्कर्म एव अकरवम्। अतः हे महाराज! मम कृते स्वर्गसुखस्य प्रबन्धः क्रियताम्। 

तयोः उभयोः वचनं श्रुत्वा यमराजः दस्युम् आदिशत्। अद्यारभ्य त्वं साधोः सेवां कुरु। तव कृते अयमेव महान् दण्डः इति। 
दस्युः यमराजस्य आदेशं शिरसा अङ्ग्यकरोत्। 

परन्तु यमराजस्य एवम् आदेशं श्रुत्वा साधुः तस्य निषेधं कुर्वन् अवदत् हे महाराज! एतस्य पापिनः स्पर्शेन अहं अपवित्रः भविष्यामि। मया जीवने यत् तपः आचरितम्, तत् सर्वं विफलतां गच्छेत्। 

साधोः एतद् वचनं श्रुत्वा यमराजः कुपितः अभवत् अकथयत् च  "यः जीवने सर्वदा पापम् अकरोत्, लुण्ठनम् अकरोत्, जनान् अहन्, सः इदानीं नम्रः अभवत्। परन्तु भवान् तु अहङ्कारी इव वार्तालापं कुर्वन् अस्ति। भवान् न जानाति यत् सर्वेषां जीवानाम् आत्मा समानः एव भवति। भवतः तपस्या सम्पूर्णा न अभवत्। 

अतः अद्यारभ्य भवान् दस्योः सेवां कुर्यात्।
*-प्रदीपः।*

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...