एवीपीन्यूज इत्यस्य परिचर्चायाः संक्षिप्तविवरणम्।

एवीपीन्यूज इत्यस्य परिचर्चायाः संक्षिप्तविवरणम्

रूबिका लियाकतः- राजीवः त्यागी महोदय! प्रधानमन्त्री नरेन्द्रमोदी अद्य सैनिकानाम् उत्साहवर्धनाय लेहं संप्राप्तवान्। समस्तदेशः सैनिकानां पराक्रमे गौरवम् अनुभवति। एवं स्थितौ राहुलगान्धी, कांग्रेसदलस्य प्रवक्ता च किमर्थं प्रश्नम् उत्थापयतः?

किं प्रधानमन्त्रिणि मोदिनि सैनिकेषु च तयोः विश्वासः नास्ति? 

राजीवः त्यागी- रूबिकामहोदये! वयं वारं वारं वदन्तः स्मः यत् सैनिकेषु अस्माकं विश्वासः अस्ति। परन्तु प्रधानमन्त्री वदति यत् चीनदेशीयसैनिकाः अस्माकं देशस्य सीमायाः अन्तः न आगतवन्तः। अस्माकं भूमेः निग्रहणं न कृतवन्तः। 

इदानीं प्रधानमन्त्री लेहं गत्वा विस्तारवादि-शक्त्यै प्रत्युत्तरं दास्यामि इति उद्घोषितवान्।

पुनः अस्माकं विंशतिः सैनिकाः किमर्थं मृताः अभवन्? 
अपिच प्रधानमन्त्री-मोदी *मन कि बात* इति कार्यक्रमे चीनदेशस्य नाम किमर्थं न उद्घोषयति? 

रूबिका लियाकतः- अस्तु, वयम् एतस्य प्रश्नस्य उत्तरं सम्बितपात्रामहोदयात् स्वीकुर्मः। पात्रामहोदय! भवान् इत्यस्य उत्तरं दद्यात्। 

सम्बितपात्रा- पश्यतु रूबिकामहोदये! महान् लज्जायाः विषयोऽस्ति यद् प्रधानमन्त्री स्वयं कथयति अपिच सैनिकाः अपि कथयन्ति यत् चीनदेशस्य सैनिकान् वयम् अपसारितवन्तः परन्तु कांग्रेसदलस्य विश्वासः एव न भवति। 
ते वदन्ति यत् चीनदेशस्य सैनिकाः अस्मद्देशं प्रविष्टवन्तः परन्तु अस्माकं सैनिकाः किमपि कर्तुं न शक्तवन्तः। 
ते अस्माकं सैनिकानां पराक्रमस्य अस्वीकारं कुर्वन्ति। 

सुरजेवाला, राहुलः च अजस्रं चीनदेशस्य स्वपक्षे ट्विटरमध्ये सन्देशान् कुर्वन्तौ स्तः। 

इदानीं द्वितीयः प्रश्नः अस्ति प्रधानमन्त्री किमर्थं नाम न वदति! अस्मिन् विषये अहं वक्तुमिच्छामि यदद्य प्रधानमन्त्री नरेन्द्रमोदी विस्तारवादिशक्तिः इत्यस्य शब्दस्य प्रयोगं कृत्वा गर्जनेन सम्बोधितवान्।
सम्बोधनमिदं कस्य कृते वर्तते? 
अमेरिकादेशस्य कृते वा, रुसदेशस्य कृते वा? 

कस्यापि नाम्नः आवश्यकता न भवति। अवगन्तारः अवगच्छन्ति एव।

उदाहरणार्थं वदामि- पञ्चाशद्वर्षीयः अबोधबालकः! अहं नाम न उक्तवान् परन्तु सर्वे अवगतवन्तः इति मन्ये। 
अहं वदामि यद् देशे कश्चन लुण्ठकः कुटुम्बः अस्ति। 
सप्तदशवर्षात् देशस्य लुण्ठनं कुर्वन् आसीत्। 
अहं नाम न उक्तवान्। परन्तु सर्वे अवगतवन्तः।

अपिच देशे एका महिला अस्ति यस्याः जामाता क्षेत्रचोरः अस्ति। 
सा एव महिला सर्वोच्चन्यायालयस्य दयया कारागारात् बहिः अस्ति। 
-प्रदीपः!

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...