का वार्ता?

बात
-----
(१)बात क्या है?
**का वार्ता?

(२)यह तो बुरी बात है।
**एष: तु असमीचीनो विचारोऽस्ति।

(३)यह तो अच्छी बात है।
**एष: तु सम्यक् विचारोऽस्ति।

(४)यह बात मुझे पसंद नहीं है।
**मह्यम् एष: विचारो न रोचते।

(५)यह तो बड़ी बात है।
**एष: तु गम्भीरविचारोऽस्ति।

(६)यह झूठी बात है।
**एतत् असत्यं वचनमस्ति।

(७)यह सच्ची बात है।
**एतत् सत्यं वचनमस्ति।

(८)यह अजीब बात है।
**एतत् विचित्रं वचनमस्ति।

(९)सच्ची बात तो यह है।
**सत्यवचनं तु एतदस्ति।

(१०)यह बात सत्य है।
**एतत् वचनं सत्यमस्ति।

(११)बात यह है।
**विचारोऽयम्।

(१२)एक समय की बात है।
**पूर्वतनी कथा इयम् ।
**कदाचित् प्रवृत्तः विषयोऽयम् ।

(१३)मुझे उससे बातें हुई। 
**तेन सह मम वार्ताऽऽभूत्।

(१४)मैं उससे बातें कर रहा था।
**अहं तेन सह वार्त्तालापं कुर्वन् आसम्।

(१५)मैंने सारी बातें उसके सामने रखी।
**अहं सर्वं वृत्तान्तं/विचारं तस्य समक्षम् उपस्थापितवान्।

(१६)तेरी बात मेरी समझ में नहीं आती।
**तव कथनं  मया नावगम्यते।

(१७)क्या बात करते हो?
**किम् आलापसि/जल्पसि?

(१८)यह बात मुझे नहीं सूझी।
**मम मनसि अयं विचारः न स्फुरितः।

(१९)बात की बात में उसने सब कुछ उगल दिया?
 **वार्तालापसमये सः गुह्यतमं सर्वं प्रकटितवान्।

(२०) छोटी-छोटी बातों की चिंता न करो।
** लघ्व्याः वार्तायाः चिन्तनं मा कार्षीः।

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...