कोटर नामके ग्रामे प्रतापः ऋषभश्च द्वौ भ्रातरौ स्वभगिनीभ्यां रश्मि-रेखाभ्यां सह निवसन्ति स्म। चतुर्णाम् अपि भ्रातृ-भगिन्योः मध्ये अतीव स्नेहः आसीत्। ज्येष्ठः प्रतापः कनिष्ठम् ऋषभं भगिनीश्च पुत्र-पुत्रीवत् पालयति स्म।
एकदा प्रतापस्य विवाहः शीतला नाम्न्या कन्यया सह सम्पन्नः। विवाहानन्तरं शीतला अपि तस्मिन् गृहे निवासम् आरभत। प्रारम्भे सर्वं सुखमयम् आसीत्। शीतला गृहकार्याणि सम्यक् करोति स्म। कोटरग्रामस्य जनाः अपि प्रतापस्य कुटुम्बस्य सौहार्दं प्रशंसन्ति स्म।
परन्तु कालक्रमेण रश्मि-रेखयोः मनसि ईर्ष्या समुत्पन्ना। ताभ्यां चिन्तितम् यत् भ्रातृभार्यायाः आगमनेन तयोः स्थानं न्यूनं जातम्। विशेषतः ऋषभस्य प्रति शीतलायाः व्यवहारः ताभ्यां न रोचते स्म।
एकदा रश्मिः प्रतापम् उवाच -
"भ्रातः! पश्य, तव पत्नी ऋषभं कथं लालयति। अस्माकं स्थानम् अपि तया अपहृतम्।"
रेखा अपि तस्याः वचनं समर्थयन्ती अवदत् -
"आम् भ्रातः! त्वं कियत् परिश्रमं करोषि, ऋषभस्तु केवलं विश्रामं करोति, तथापि शीतला तं विशेषतया पश्यति।"
क्रमेण एताः वार्ताः प्रतापस्य मनसि संशयं जनयामासुः। स ऋषभेन सह विवादम् आरभत। ऋषभः बहुधा स्पष्टीकर्तुम् अयतत यत् एतत् सर्वं भ्रान्तिमात्रम् अस्ति, परन्तु भगिन्योः वचनैः प्रतापस्य मनः कलुषितम् अभवत्।
एकस्मिन् दिने रश्मिः पुनः प्रतापम् उवाच -
"भ्रातः! ऋषभस्य विवाहं कुरु। ततः स स्वगृहं गमिष्यति।"
रेखा अपि तस्याः विचारं समर्थितवती।
कोटरग्रामस्य वृद्धजनाः अपि चिन्तिताः अभवन्। उभे भगिन्यौ निरन्तरं भ्रात्रोः मध्ये कलहं वर्धयितुं प्रायतेताम्। शीतला बहुधा शान्तिं स्थापयितुं प्रयतते स्म, परन्तु भगिन्योः कुटिलतायाः समक्षं सा असफला अभवत्।
अन्ततः एकदा ऋषभः गृहं त्यक्तुं निश्चितवान्। स कोटरग्रामात् गन्तुम् उद्यतः अभवत्। गमनकाले स अवदत् -
"भ्रातः प्रताप! भवान् मम कृते पितृसमानः अस्ति। परन्तु इदानीं न अहं भवतः समक्षं भारः भविष्यामि। भगिन्यौ अपि सुखिन्यौ भविष्यतः।"
प्रतापस्य नेत्रे अश्रुपूर्णे अभवताम्। स ज्ञातवान् यत् स्वभगिन्यौ एव तयोः मध्ये भेदं कृतवत्यौ। स ऋषभं निवारितवान् उक्तवान् च -
"भ्रातः! आवयोः ऐक्यं स्वभगिन्योः ईर्ष्यया नष्टं जातम्। अद्य प्रभृति वयं कोटरग्रामे पूर्ववत् एकत्र निवत्स्यामः। भगिन्यौ अपि ज्ञास्यतः यत् भ्रातृस्नेहः सर्वोपरि वर्तते।"
उभौ भ्रातरौ आलिङ्गनं कृतवन्तौ। रश्मिः रेखा च लज्जिते अभवताम्। ते ज्ञातवत्यौ यत् तयोः ईर्ष्या अनुचिता आसीत्। प्रतापः भगिनीः उक्तवान् -
"भगिन्यौ! युवयोः स्थानं अस्माकं हृदये सदैव अस्ति। शीतलायाः आगमनेन तत् स्थानं न्यूनं न जातम्। युवाभ्यां भ्रातृस्नेहे संशयः कृतः, परन्तु स तु अमृतेन अपि अधिकः।"
अस्याः घटनायाः अनन्तरं प्रतापः गम्भीरं चिन्तनम् आरभत। स जानाति स्म यत् तात्कालिकः समाधानः स्थायी न भविष्यति। अतः स एकं कठोरं निर्णयं स्वीकृतवान्।
स शीतलां सीधी जनपदे नौकर्यर्थं प्रेषितवान्, स्वयं च हरियाणा-प्रदेशस्य गुरुग्राम-नगरं प्रति गतवान्। उभयोः मध्ये दूरत्वं स्थापयित्वा स कुटुम्बस्य शान्तिं रक्षितुं प्रयासं कृतवान्।
परन्तु एतत् समाधानम् अपि पूर्णं न अभवत्। माता प्रतिमादेवी पिता नरेन्द्रश्च गम्भीरायां चिन्तायां मग्नौ जातौ। तौ न जानीतः स्म यत् स्वपुत्राणां कलहस्य विषये कं वा किं वदेयुः। तयोः हृदये पुत्र-पुत्रीणां स्नेहः, परन्तु परिस्थितीनां विषमतायाः कारणेन तौ अतीव व्यथितौ।
अद्यापि कोटरग्रामे एषा कथा चलति। भ्रातृ-भगिनी-सम्बन्धानां मधुरता कथं विषमतां प्राप्नोति, कथं च एकस्य सरलस्य कुटुम्बस्य जीवनं जटिलं भवति - एतत् सर्वं दर्शयति।
भ्रातृस्नेहो महाशक्तिर्बन्धनं कुलरक्षकम्।
कलहस्तु विनाशाय तस्मात् स्नेहं विवर्धयेत्॥०१।।
ईर्ष्यामूलं विनाशाय कलहस्य प्रवर्तकम्।
भगिनीनां वचः श्रुत्वा न त्यजेद्भ्रातृसौहृदम्॥०२।।
विश्वासो बन्धुमध्ये तु स्वर्गसौख्यप्रदायकः।
अविश्वासः कुले जातः सर्वनाशकरो भवेत्॥०३।।
क्षमया शान्तिरायाति वैरं नश्यति सर्वदा।
तस्मात् क्षमापरो नित्यं भवेत् सौख्यं समीहते॥०४।।
इति कोटरग्रामस्य विषादपूर्णा कथा समाप्ता।
आचार्य प्रताप
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें