अस्ति कश्चित् धनिक-कुले जातः सुरेशनामा युवकः। स सर्वदा भोगविलासेषु मग्नः अभवत्। तस्य पिता सदैव पुत्रम् उपदिशति स्म - "हे पुत्र! जीवनस्य प्रथमे भागे विद्यां प्राप्नुहि, द्वितीये धनम् अर्जय, तृतीये च पुण्यकर्माणि कुरु।"
परन्तु सुरेशः पितुः उपदेशं न श्रुतवान्। स विद्यालयं गच्छति स्म परन्तु अध्ययने मनः न अयच्छत्। तस्य मित्राणि पुस्तकेषु निरताः अभवन्, परन्तु सः क्रीडायां, विनोदे च समयं व्यतीतयति स्म। परीक्षासु स कथमपि उत्तीर्णः अभवत्।
यदा सः द्वाविंशति-वर्षीयः अभवत्, तदा तस्य पिता अकथयत् - "वत्स! इदानीं तव जीवनस्य द्वितीयः भागः प्रारभ्यते। धनार्जनस्य कालः अयम्। व्यापारं कुरु, धनम् अर्जय।"
सुरेशः पितुः धनेन व्यापारम् आरब्धवान्, परन्तु उद्यमं विना केवलं विलासे एव धनं व्ययितवान्। सः मित्रैः सह देशान्तरं गतवान्, विलासिनीभिः सह समयं यापितवान्, मद्यपानम् अकरोत्, द्यूतक्रीडायां च अनेकवारं पराजितः अभवत्। कालेन सर्वं धनं क्षीणम् अभवत्।
यदा सः पञ्चाशद्-वर्षीयः अभवत्, तदा तस्य पिता वृद्धः अभवत्। सः पुत्रम् अवदत् - "पुत्र! इदानीं तव जीवनस्य तृतीयः भागः प्रारभ्यते। अधुना पुण्यकर्माणि कुरु, धर्मार्थं जीव, परोपकारे निरतः भव।"
परन्तु दुर्भाग्यवशात् सुरेशः पितुः वचनं पुनः अपि न श्रुतवान्। सः स्वस्य दुःखं विस्मर्तुं मद्यपाने द्यूतक्रीडायां च अधिकतरं निमग्नः अभवत्। पुण्यकर्माणि करणीयानि इति विचारः अपि न आगतः।
एकदा सः अतीव रुग्णः अभवत्। वैद्याः अकथयन् यत् अस्य आयुः अल्पः एव अवशिष्टः अस्ति। तदानीं सः स्वस्य जीवनविषये चिन्तितवान्। स दीर्घं निःश्वस्य अचिन्तयत् - "हा! मम जीवनं व्यर्थम् अगच्छत्। प्रथमे भागे विद्या न अर्जिता, द्वितीये धनं न संचितम्, तृतीये पुण्यं न कृतम्। इदानीं चतुर्थे भागे किं करिष्यामि?"
अनन्तरं सः शय्यायां निपतितः पश्चात्तापेन दग्धः अभवत्। तस्य नेत्राभ्यां अश्रूणि अगलन्। ते एव सुकृतबिन्दवः आसन्। सः एकः शिष्यः आगत्य सुरेशस्य समीपे उपविश्य अपृच्छत् - "भोः वृद्ध! किं चिन्तयसि?"
सुरेशः अवदत् - "हे वत्स! अहं स्वजीवनस्य व्यर्थतां चिन्तयामि।"
शिष्यः अपृच्छत् - "किं तव जीवनं व्यर्थम् अभवत्?"
सुरेशः उत्तरम् अयच्छत् -
"प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम् ।
तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यसि ॥"
"यदि जीवनस्य प्रथमे भागे विद्या, द्वितीये धनं, तृतीये च पुण्यं न अर्जितम्, तर्हि चतुर्थे भागे किं करिष्यामि?"
शिष्यः करुणया पूर्णहृदयः अभवत्। सः सुरेशम् अवदत् - "भोः! अद्यापि समयः अस्ति। भवान् अनेकान् जनान् उपदिशतु यथा ते भवतः इव जीवनं व्यर्थं न कुर्युः। एवं भवतः जीवनम् अपि सार्थकं भविष्यति।"
सुरेशः शिष्यस्य वचनैः प्रभावितः अभवत्। सः अवशिष्टे आयुषि नगरे विद्यालयं स्थापितवान्, यत्र धनहीनाः बालकाः निःशुल्कं पठितुं शक्नुवन्ति स्म। तेषां विद्यार्थिनां मध्ये सः स्वानुभवं वर्णयति स्म, यथा ते तस्य दुष्प्रभावात् दूरं तिष्ठेयुः।
एवं सुरेशः अन्ते अपि स्वजीवनस्य सार्थकतां प्राप्तवान्। स विद्यार्थिनः उपदिशति स्म -
"प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम् ।
तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यसि ॥"
"अतः हे बालकाः! युष्माकं जीवनस्य प्रत्येकं क्षणं सदुपयोगं कुरुत। यतः जीवनं अतिमूल्यवत् अस्ति, परन्तु स्वल्पकालीनम् अपि अस्ति।"
प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम् ।
तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यसि ॥
-आचार्य प्रताप
#आचार्य_प्रताप #acharypratap #achary_pratap #आचार्यप्रताप #कथामञ्जरी #acharyapratap #संस्कृतकथा #acharya_pratap
#earn #knowledge #first #part #life #wealth #second #virtue #third #fourth #Sanskrit #Sanskritkauday #education
#sanskritlearning #sanskritlanguage #संस्कृतकाउदय #संस्कृत
0 टिप्पणियाँ