वाक्येषु ज्ञा-धातुतः (अवबोधने) निष्पन्नानां पदानां व्यवहारः --
१) मित्राणि संस्कृतं सुष्ठु जानन्ति ।
२) अहमपि संस्कृतस्य कश्चन सामान्यः ज्ञायकः एव ।
३) एवमेव मम भगिनी अपि संस्कृतभाषायाः ज्ञायिका अस्ति ।
४) परन्तु मम भ्राता संस्कृतस्य ज्ञाता नाभवत् जीवने ।
५) तेन किम्, तत्पत्नी संस्कृतस्य ज्ञात्री अस्ति एव ननु ?
६) कश्चन तु संस्कृतं जानन् अपि कदापि न भाषते ।
७) सा शिक्षिका संस्कृतं जानती अपि आङ्ग्लया एव कथयति ।
८) आगामिनि वर्षे गुरुः नानातत्त्व-विषयान् अस्मत्कृते ज्ञास्यन् भवेत् ।
९) एवमेव गुरुमातापि आचरणशिक्षां ज्ञास्यन्ती/ती दृश्येत अवश्यं तदा ।
१०) तर्हि अस्माभिः ज्ञास्यमानः विषयः कः भवेत् तदा ?
११) सः नेता अस्मभ्यं वारं वारम् एनामेव सूचनां ज्ञापयन्/ज्ञपयन् इतः निर्गच्छति, किमर्थम् ?
१२) सा महिलापि ह्यः तत्र युष्मभ्यं तमेव विषयं ज्ञापयन्ती आसीत् ।
१३) परन्तु अयं विषयः ज्ञापयमानः/ज्ञपयमानः नैव सर्वत्र ।
१४) जनैः ज्ञायमानाः विषयाः तु अनेके सन्ति एव ।
१५) परन्तु सः विषयः तु मया पूर्वमेव ज्ञातः आसीत् ।
१६) किं भवान् अपि तत् ज्ञातवान् ? परन्तु भवती तत् न ज्ञातवती ।
१७) वस्तुतः जनैः तत् न ज्ञातव्यं चेत् वरम् । अस्माभिः तत् न ज्ञानीयम् अपि ।
१८) ज्ञेयं तु ईश्वरतत्त्वमेव सर्वेषाम् ।
१९) ज्ञायः विषयः अत्र न विद्यते ।
२०) तस्य तु ज्ञातिः एव नैवास्ति कुत्रापि ।
२१) सत्पुरुषाणाम् आज्ञा पालनीया सततम् ।
२२) आध्यात्मिकविषये भवतः कापि जिज्ञासा अस्ति वा ?
२३) ज्ञानम् एव जीवनस्य मूलम् ।
२४) तत् ज्ञातुं तव इच्छा भवेत् ।
२५) धर्मस्य सारं ज्ञात्वा/विज्ञाय भवान् जनसेवां करोतु ।
एवं प्रकारेण एकस्मादपि धातुतः निष्पन्नानि नैकानि पदानि भवन्ति संस्कृतवाङ्मये । अत्र ज्ञा-धातुतः सुबन्तानि, तिङन्तानि तथैव अन्यरूपाणि अपि प्राप्यन्ते, विस्तरभयात् तानि न उल्लिखितानि अत्रेति ।
शुभसन्ध्या ! जयतु देववाणी ।