मंगलवार, 20 अक्टूबर 2020

अद्यारभ्य

अद्यारभ्य राहुलगान्धेः नूतनं नाम राहुललाहोरि इति। 
- सम्बितपात्रामहोदयः वदति।😅
 #RahulLahori

किं भवन्तः जानन्ति?

किं भवन्तः जानन्ति? 
गत-एकचत्वारिंशद्दिनेषु भारतदेशः चतुर्दशक्षेपणास्त्राणां परीक्षणम् अकरोत्। सर्वाण्यपि परीक्षणानि सफलीभूतानि अभवन्।
भारतीयवैज्ञानिकानां जयः भवतु।

हास्यम्

हास्यम्।
कवेः पत्नी निद्राधीना आसीत्। 
तस्याः पादयोः समीपे कश्चन सर्पः उपविशन् आसीत् ।  
कविः तं सर्पं तत्र दृष्ट्वा  दशतु दशतु, शीघ्रं दशतु इत्युक्तवान्।
सर्पः  - गच्छ, मूर्ख ! अहं तस्याः चरणवन्दनां कुर्वन् अस्मि। 
एषा अस्माकं कुलदेवी अस्ति।🙄🤣

कूष्माण्डायै नमः

सुराकलशसम्पूर्णं रुधिराप्लुतमेव च।
दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदाऽस्तु मे।
ॐ कूष्माण्डायै नमः।

शिवनागवृक्षस्य

एतानि शिवनागवृक्षस्य मूलानि सन्ति। यदि एतानि वृक्षात् कर्तयित्वा पृथक् क्रियन्ते तर्हि यावत् पर्यन्तं एतानि मूलानि शुष्काणि न भवन्ति तावत् पर्यन्तं तप्तानि भवन्ति।

नीतिशतकम्

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्
विद्या भोगकरी यश:सुखकरी विद्या गुरूणां गुरु:।।
विद्या वन्धुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूज्यते न तच धनं विद्याविहीन: पशु:।।

 नीतिशतकम्
   भर्तृहरि:
संस्कृतम्

क्रियापदम्

शब्दः बन्धः

🎦 चलच्चित्रग्राहकम् ।
🚰 नलिका ।
🛄 यानपेटिका ।
📶 तरड़्ग सूचकम् ( तरड़्गाः)
+ सड़्कलनम् ।
- व्यवकलनम् ।
× गुणाकारः ।
÷ भागाकारः ।
% प्रतिशतम् ।
@ अत्र (विलासम्)।
⬜ श्वेतः ।
🔵 नीलः ।
🔴 रक्तः ।
⬛ कृष्णः 

जीवज्ञाने शिवसेवाशिवज्ञाने जीवसेवा

तुषेण यदा आवृतं तदा धान्यं भवति।तुषात् मुक्त: भवति चेत् तण्डुल:। आवरणात् भेद: ज्ञानम्।यथा जीवरूप: शिव: अस्ति ,परन्तु साक्षात् न।
जीवज्ञाने शिवसेवा
शिवज्ञाने जीवसेवा

शिवः

जीव: शिव: शिवो जीव: स जीव: केवल: शिव:
तुषेण बद्धो व्रीहि: स्यात् तुषाभावेन तन्डुल:।।

 

बालकस्य दिनचर्या

बालकस्य दिनचर्या एकस्मिन् रमणीये ग्रामे सोमः नाम एकः बुद्धिमान् बालकः वसति स्म। तस्य गृहं वृक्षैः परिवृतम् आसीत्। सः प्रतिदिनं ब्राह्ममुहूर्...