बुधवार, 30 सितंबर 2020

हसाम किञ्चित्

😄 हसाम किञ्चित् 😆 

गणिते पटुच्छात्रः - गणितपुस्तकं किमर्थं सर्वदा दुःखि एव दृश्यते ; एतत्पार्श्वे उपचाराय दर्शनाय वा विद्यार्थिनः अपि प्रायो केऽपि न आगच्छेयुः कस्मात् कारणाद्वा ?

   गणिते मन्दविवेकी छात्रः -  कारणम् अत्र  तीक्ष्णकण्टकवत् बह्व्यः समस्याः सन्ति । ते कण्टकाः यथा स्वशरीरे बिद्धाः न भवेयुः तथा ते तत्र अपश्यन्तः अन्यत्रैव पश्यन्तः च, सर्वदा सुदूरे एव तिष्ठेयुः, यथा अहम् इति । 😄😂

                     -- नारदः

रविवार, 27 सितंबर 2020

भर्तृहरि वैराग्यशतकम्

ओ३म्

वयमिह परितुष्टा वल्कलैस्त्वं दुकूलै:
सम इह परितोषो निर्विशेषो विशेषः।
स च भवति दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोsर्थवान् को दरिद्रः।।
                        श्लोक- भर्तृहरि वैराग्यशतकम्


हे राजन्! हम वृक्ष की छाल के वस्त्र धारण करने सन्तुष्ट हैं, तुम बहुमूल्य रेशमी वस्त्र धारण करके सन्तुष्ट हो। सन्तोष तो हम दोनों को बराबर का है, इसमें विशेष क्या है? दोनों के सन्तोष में कोई अन्तर नहीं है। दरिद्र तो वह है जिसकी इच्छाएं बड़ी बड़ी हैं, किन्तु मन यदि तृप्त हो तो कौन धनी और कौन दरिद्र ?

   The person who has more desires is in fact the poorer one, The poet is satisfied wearing the tree-skins but the king needs valuable silks, The level of satisfaction is same for both, The basic parameter on which anyone's richness or poverty is decided (which is Money of course), is changed by the subhashitkar (poet)! If one's mind is satisfied then will there be any distinction between the rich and the poor? 

शनिवार, 26 सितंबर 2020

ऋग्वेदभाष्यभूमिका

 ऋग्वेदभाष्यभूमिका


वागीशाद्या: सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्या:स्युस्तं नमामि गजाननम्।।१।।

अन्वयः-
आद्या सर्वार्थानाम् उपक्रमे यं सुमनसः वागीशः नत्वा कृतकृत्याः स्युः तं गजाननं नमामि।

संस्कृतव्याख्या:-
सर्वार्थानामुपक्रमे वागीशाद्याः सुमनसः यं नत्वा कृतकृत्याः स्युः, तं गजाननं नमामि।सर्वेषां कार्याणामुपक्रमे= आरम्भसमये प्रसंगे वा वागीशाद्याः वृहस्पत्याद्याः सुमनस्काः यं नमस्कृत्य कृतकार्याः भवन्ति, तं गजाननं गणपति प्रणमामि सुमनसो देवाः।

यस्य निः श्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं      वन्दे       विद्यातीर्थमहेश्वरम्।।२।।
यत्कटाक्षेण तद्रूपं दधद् बुक्कमहीपति:।
आदिशन् माधवाचार्यं वेदार्थस्य प्रकाशने।।३।।
ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात्।
कृपालुर्माधवाचार्यो वेदार्थं वक्तुमुद्यत:।।४।।
आध्वर्यवस्य यज्ञेषु प्राधान्याद् व्याकृत:पुरा।
यजुर्वेदोऽथ हौत्रार्थमॄग्वेदो व्याकरिष्यते।।४।।
एतस्मिन् प्रथमोध्यायः श्रोतव्यः संप्रदायत:।
व्युत्पन्नस्तावता सर्वं बोद्धं शक्नोति बुद्धिमान्।।६।।

संदर्भ:- 
ऋग्वेदभाष्यभूमिका

ज्ञातव्यो विषयः

ज्ञातव्यो विषयः

भारते आहत्य १६५२ भाषाः प्रचलिताः सन्ति। वर्तमाने भारते संविधानस्वीकृतिप्राप्ताभाषाः द्वाविंशतिः सन्ति। वर्तमाने प्रचलितानां भाषाणां मध्ये आर्यभाषागोष्ठ्याः प्रभावः आधिक्येन दृश्यते। 

अर्थात् एताः सर्वाः अपि भाषाः संस्कृतात् उद्भूताः वर्तन्ते। 
एतस्मात् संस्कृतात् एव सर्वाः अपि क्षेत्रीयभाषाः विकासं प्राप्नुवन्। 

भारते जीवितभाषाणां मध्ये  संस्कृतभाषा तमिलभाषा च द्वे अपि सर्वाधिके पुरातने भाषे स्तः।

स्मरणीयं यद् आर्यगोष्ठ्याः उद्भूताः भाषाः सन्ति बाङ्ला, असमीया, पञ्जावी, सिन्धि, हिन्दी, मैथिली, राजस्थानी, गुजराती, मराठी, ओड़िया, पाहाडी, काश्मिरी च इत्यादयः। 

द्राविडगोष्ठ्याः प्रधानभाषाः सन्ति तेलुगु, तमिल, मलयालम्, कन्नड च इत्यादयः। 

अक्षरवाणी संस्कृत साप्ताहिक समाचार पत्र

शुक्रवार, 25 सितंबर 2020

हास्यकणाः

लङ्केश्वरः रावणः सम्राजः अशोकात् अत्यन्तं प्रभावितः अभवत्। तदर्थं तस्य वाटिकायाः नाम अशोकवाटिका इति अकारयत्। 

गुरुवार, 24 सितंबर 2020

वाक्याभ्यासः

नमः सुरभारत्यै। वन्दे मातरम्

यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम् ।
तथा पुरुषकारेण विना दैवं न सिध्यति ।।
🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾

          भावार्थः 👇
क्षेत्रे बीजानां वपनं क्रियते तदा क्षेत्रं सस्यपूर्णं भवति। यदि क्षेत्रे बीजवपनं न कुर्यात् तर्हि बीजं फलति एव न।
तथैव अस्माकं भाग्यं पुरुषार्थेन हि सिध्यति। भाग्ये हि सर्वथा आश्रितः न भवेत्। परिश्रमः सततं करणीयः।
💐💐💐💐💐💐💐💐💐💐💐💐💐
         💐 संस्कृतम् 💐
यथा बीजं क्षेत्रम् उप्तं विना निष्फलं भवति । 
तथैव पुरुषार्थं विना भाग्यम् अपि न सिद्ध्यति।

            💐 हिन्दी 💐
जैसे बीज खेत में बोए बिना निष्फल रहता है, उसी प्रकार पुरुषार्थ के बिना भाग्य भी सिद्ध नहीं होता।

          

   वाक्याभ्यासः
१-यथा बीजं भवति तथैव फलं भवति।
२-विना-योगे द्वितीया तृतीया पञ्चमी च भवन्ति।
३-क्षेत्रम् अतीव हरितं दृश्यते इदानीम्।
४-उप्तं सर्वं बीजं वर्षर्तौ अङ्कुरितं भवति।
५-भवति एवमेव मम संस्कृताभ्यासः।
६-निष्फलम् अवाप्य अपि सः पुनः श्रमं करोति।
७-तथा हि अहमपि करिष्यामि।
८-पुरुषकारेण जीवनं सफलीकर्तुं यतताम्।
९-विना भगवत्कृपया पुरुषार्थः अपि न सम्भवति।
१०-दैवं ज्ञात्वा अपि कोऽपि न परिवर्तयितुं शक्नोति।
११-न! तुभ्यं केवलं पुस्तकानि सः आनयत्।
१३-सिध्यति सर्वं परमात्मना एव।


जयतु संस्कृतम्। जयतु भारतम्।।

संस्कृत में वाक्याभ्यास

संस्कृत में वाक्याभ्यास
----------------------------

(१)चलती रेलगाड़ी/चलती हुई रेलगाड़ी=चलद् रेलयानम् 
(२)गरजते बादल/गरजते हुए बादल=गर्जन् मेघ:।
_____________________
(१)टूटी हुई कुर्सी=त्रुटितासनम्।
(२)मुर्झाए हुए फूल=म्लायितपुष्पम्।
(३)थका हुआ आदमी=श्रान्तपुरुषः।
(४)हारी हुई सेना=पराजितसेना।
______________________
(१)हल्का-हल्का बुखार=अल्पज्वरः।
(२)लाल-लाल कमीज=रक्तवर्णमययुतकम्।
(३)मीठा-मीठा सुगन्ध=मधुर-मधुर-सुगन्धिः|
(४)मन्द-मन्द मुस्कान=मन्द-मन्द हसनम्।
------------------------------------
(१)वह लम्बी है=सा उन्नता अस्ति।(यहां पर लम्बाई को पसंद किया जाता है)
(२)वह ज्यादी लम्बी है=सा अति उन्नता अस्ति।(यहां पर लम्बाई को नहीं पसंद किया जाता है)
-----------------------------------
गरम-गरम एक ऐसा गुण है जिसे लोग पसन्द करते हैं।बहुत गरम ऐसा गुण है जिसे हमलोग नहीं पसंद करते हैं।

(१)मैं गरम-गरम चाय पसंद करता हूं=मह्यं उष्णं चायं रोचते।
 (२)चाय बहुत गरम है=चायम् अत्युष्णमस्ति ।
---------------------------------
(१)एक जोड़ा जूता=पादुकायुगलम्।
(२)एक लाख लोग=एकलक्षजना:/एकलक्षमिता जना:।
(३)दर्जनों कलमें=द्वादशा: लेखन्य:।
(४)एक दर्जन कलमें=लेखनीद्वादशैकम्।
(५)दो दर्जन कलमें=द्वे द्वादशौ लेखन्यः
----------------------------------
 (१)उसे दो सौ रूपए हैं=तस्य द्विशतकं रूप्यकाणि सन्ति।
(२) यहां पांच हजार लोग हैं=अत्र पञ्चसहस्रं जना: सन्ति।
(३)यहां सैकड़ों लोग हैं=अत्र शतकानि जना: सन्ति।
(४)यहां हजारों लोग हैं=अत्र सहस्राणि जना: सन्ति।

अनुवादाः प्रकाश्यन्ते

मैंने बहुत से अनुवाद की रचना शब्दानुसार न करके भावानुसार करने का प्रयास किया है।
----------------------------------

लगना/लगाना
-----------------
(१)यह बिछावन कड़ा लगता है=एषा शय्या रूक्षा अस्ति ।

(२)यह बिछावन मुलायम लगता है=एषा शय्या मृदु अस्ति ।
एषा शय्या मृद्वस्ति ।

(२)उसे भूख-प्यास नहीं लगती है=तस्य क्षुधा पिपासा च न भवत:।

(३)तेरे हाथ ठंढे लगते हैं=तव हस्तौ शीतलो इत्यनुभूयेते।

(४)उसे गर्मी नहीं लगती है=
(क)तेन आतप: न अनुभूयते।
(ख)स आतपं नानुभवति।

(५)उसे गर्मी लग रहा है=तेन आतप: अनुभूयते।

(६)उसे जाड़ा लग रहा है=तेन शीतम् अनुभूयते

(७)उसे ठंढी लग गई है=सः शैत्येन पीडितः ।

(८)तुझे आज कैसा लग रहा है=अद्य त्वया कथम् अनुभूयते?

(९)यह पोशाक तुझे अच्छा लगता है=तुभ्यम् एतत् परिधानं रोचते।

(१०)यह आम मीठा लगता है=इदम् आम्रं मधुरम्  अस्ति।

(११)यह अमरूद खट्टा लगता है=एतत् दृढबीजम् अम्लीयम् अस्ति।

(१२)मेरी गाय खूब लगती है=
(क)मे गौ: सम्यग् दुह्यति।
(ख)मम धेनु: दुग्धं सम्यक्तया ददाति।
(ग)मम गौ: अतीव दुग्धं ददाति।

श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥

#मूलश्लोक:

स्वामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ।
मामुद्धरात्मीयकटाक्षदृष्ट्या ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या ॥३७॥

#पदविभाग:

स्वामिन् नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ
माम् उद्धर आत्मीयकटाक्षदृष्ट्या ऋज्व्या अतिकारुण्यसुधाभिवृष्ट्या ॥

#पदार्थ:

स्वामिन् - हे भगवन्
नमस्ते - ते नमस्कार:
नतलोकबन्धो - नतानां जनानां वन्धु:
कारुण्यसिन्धो - हे अहेरुक दयासिन्धो
पतितं - पतितम्
भवाब्धौ - भवसागरे
माम् - माम् 
उद्धर - जन्मादि बन्धनिर्मुक्तं कुर्वित
आत्मीयकटाक्षदृष्ट्या - तव कटाक्षदृष्ट्या
ऋज्व्या - स्वभावसरलया
अतिकारुण्यसुधाभिवृष्ट्या - अतिकारुण्यसुधाभिवृष्ट्या

#अन्वय:

हे स्वामिन् ! हे  नतलोकबन्धो ! हे कारुण्यसिन्धो ! ते (तुभ्यम्) नम: (अस्तु) ।  भवाब्धौ पतितं माम् ऋज्व्या अतिकारुण्यसुधाभिवृष्ट्या आत्मीयकटाक्षदृष्ट्या  उद्धर ।

#तात्पर्यम्

अस्मिन् श्लोके भगवान् श्री आदिशंकराचार्य: अचार्य: कथं प्रार्थनीय: इति वदति । शिष्य: गरो: समीपं गत्वा हे स्वामिन् ! हे  नतलोकबन्धो ! हे कारुण्यसिन्धो ! तुभ्यं मम नमस्कार:  अस्तु ।  सम्सारसागरे पतितं माम्  अतिकारुण्यसुधाभिवृष्ट्या सरलतया तव कटाक्षदृष्ट्या  उद्धर ।

#व्याकरणम्
#सन्धि:

 स्वामिन् + नमस्ते - अनुनासिकासन्धि:

 उद्धर + आत्मीयकटाक्षदृष्ट्या - सवर्णदीर्घसन्धि:

 ऋज्व्या + अतिकारुण्यसुधाभिवृष्ट्या - सवर्णदीर्घसन्धि:  

नमो नम: श्रीगुरुपादुकाभ्याम् ।

#श्रवण:

हास्यकणाः

राहुलः तस्य श्वशुरगृहं पत्नीम् आनेतुं गच्छन् आसीत्। 
मार्गे सः चायापणं गत्वा चायं पीतवान्। 
तदा चायविक्रेता तं पृष्टवान् भोः! भवान् कुत्र गच्छन् अस्ति? 

पत्नीम् आनेतुं श्वशुरगृहं गच्छन् अस्मि इति राहुलः अवदत्। 

चायविक्रेता तदा उक्तवान् सा तु विधवा अभूत्। इदानीं किमर्थं ताम् आनेतुं गच्छति भवान्? 

एतच्छ्रुत्वा सः अत्यन्तं निराशः अभवत्। ततः स्वगृहं प्रत्यागच्छत्। 
यदा सः गृहं प्राप्तवान् तदा तस्य माता तं दृष्ट्वा पृष्टवती किम् अभवत् पुत्र? एकाकी एव त्वं किमर्थं प्रत्यागतवान्? वधूः कुत्र? 

अम्ब! सा विधवा अभूत् इति चायविक्रेता अवदत्। अतः अहं ततः प्रत्यागतवान् इति राहुलः अवदत्। 

अरे मूढ! त्वयि जीविते सति सा कथं विधवा भवितुम् अर्हति? 😅😅

लट् वर्तमाने काले

लट्(present tense)

१.वयं दुग्धं पिबामः.

२.ग्रामीणाः ग्रामेषु वसन्ति.

३.जलचराः जले चरन्ति.

४.कमलानि तडागेषु विकसन्ति.

५.अावां वार्तां कुर्वः.

६.युवां वृक्षान् पश्यथः.

७.पितरौ पुत्रं पालयतः.

८.वृद्धः ग्रामं गच्छति.

९.बालः चित्रं पश्यति.

१०.अहं पत्रं लिखामि.

११.अहं फलानि भक्षयामि.

१२.त्वं शीतलं जलं पिबसि.

१३.बालाः पाठं पठन्ति.

१४.यूयं क्षेत्रे क्रीडथ.

१५.वयं नगरे वसामः.

१६.त्वम् उच्चैः हससि.

लोट्(imperative mood)

लोट्(imperative mood)

१.सः वृक्षं पश्यतु.

२.ते अाम्रकानि भक्षयन्तु.

३.सेवकः कार्यं करोतु.

४.वृक्षस्य अधः धेनवः तिष्ठन्तु.

५.यूयं जलं पिबत.

६.त्वं मया सह अागच्छ .

७.देवस्य प्रशंसा करोतु.

८.त्वं कोलाहलं मां कुरु.

९.ते सत्यं वदन्तु.

लङ्(past tense)

१.त्वं जलं अपिबः.

२.वयम् सत्यम् अवदाम.

३.युवां फलम् अखादतम्.

४.ते देशम् अरक्षन्.

५.छात्राः पाठान्  अपठन्.

६.माता गृहे अवसत्.

७.कन्या देवम् अपूजयत्.

८.पिता कार्यालयम् अगच्छत्.

९.मालाकारः मालाम् अरचयत्.

१०.ते गृहे अासन्.

११.यूयं विद्यालयम् अगच्छत.

१२.सः विद्यालयात् अागच्छत्.

१३.सः पुष्पम् अपश्यत्.

१४.मुनयः वने अवसन्.

१५.नार्यः गृहे अतिष्ठन्.

लृट्(future tense)

१.ते विद्यालयं गमिष्यन्ति.

२.वयं सूर्योदयं द्रक्ष्यामि.

३.यूयं देवान् पूजयिष्यथ.

४.तौ पत्रं लेखयिष्यतः.

५.अावां गृहात् अागमिष्यावः.

६.मित्राणि भोजनं करिष्यन्ति.

७.लता पितरं पत्रं लेखयिष्यति.

८.शिशुः दुग्धं पास्यति.

९.श्यामा जलं अानेष्यति

१०.देवः पाठं पठिष्यति.

११.मोहनः वृक्षं द्रक्ष्यति.

१२.श्यामः कार्यं करिष्यति.

वाक्यं

१.इदम् चित्रं मनोहरं वर्तते.

२.तौ बालकौ फलानि खादतः.

३.अनेन मित्रेण सह वार्तां कुरु.

४.तव जनकः अत्र अागच्छति.

५.भवान् कुतः अायाति.

६.कोपलः मया सह पठति.

७.वैभवः मम भ्राता सस्ति.

८.तुभ्यं मोदकम् रोचते.

९.तव माता प्रिया अस्ति.

१०.गङ्गा हिमालयात् प्रभवति.

काव्यम्

किमस्ति सत्यं जनभाषणाद्बहिः
केन प्रकारेण बहिष्कृतं भवेत् ।
तस्माद्धि काव्यं जगतीह पूजितं
निर्मीयते तत्त्वमतः कवेर्गिरा ॥

kim asti satyaṃ janabhāṣaṇād bahiḥ
kena prakāreṇa bahiṣkṛtaṃ bhavet /
tasmād dhi kāvyaṃ jagatīha pūjitaṃ
nirmīyate tattvam ataḥ kaver girā //

*************************************

Is there any Truth outside people’s language?
In what (other) way could it be manifested? 
That’s why poetry is so highly praised in this 
world, because the true nature of things is 
expressed in the words of a poet!

*************************************

संस्कृतस्य वाक्यम्

ॐ श्रीसरस्वत्यै नमः॥ वन्दे मातरम्

वयं सर्वे लाहौर-नगरस्य नाम श्रुतवन्तः।
= हम सबने लाहौर नगर का नाम सुना है। 

लवकुशाभ्यां तस्य निर्माणं कृतम्।
= लवकुश द्वारा उसका निर्माण किया गया। 

आधुनिकस्य लाहौरस्य निर्माणं केन कृतं तद् वयं न जानीमः।
= आधुनिक लाहौर का निर्माण किसने किया वह हम नहीं जानते। 

सर गंगाराम नाम्नः एकः अभियन्ता आसीत्। 
= सर गंगाराम नाम के एक इंजीनियर थे। 

तस्य जन्म 1851 तमे वर्षे अभवत्। 
= उनका जन्म 1851 के वर्ष में हुआ था। 
( एक सहस्र अष्ट शतं एक पञ्चाशत् ) 

सः मरुभूमौ कृषिकार्यम् आरब्धवान्। 
= उन्होंने मरुभूमि पर खेती शुरू की। 

सः यत्किमपि धनम् अर्जयति स्म तस्य सदुपयोगं लाहौरस्य विकासाय एव करोति स्म। 
= वह जो कुछ भी धन कमाते थे उसका सदुपयोग लाहौर के विकास के लिये ही करते थे। 

लाहौर नगरे मुख्य पत्रालयः, लाहौर संग्रहालयः , मेयो महाविद्यालयः , गंगाराम चिकित्सालयः इत्यादीनां भवनानां निर्माणं  तेनैव कृतम्।
= लाहौर नगर में मुख्य डाकघर , लाहौर संग्रहालय, मेयो कॉलेज गंगाराम चिकित्सालय, आदि भवनों का निर्माण उन्होंने ही किया। 

विद्युत्उत्पादन केन्द्रस्य निर्माणम् अपि तेनैव कृतम्। 
= बिजली उत्पन्न करने के केंद्र का भी निर्माण उन्होंने किया। 

पठानकोटतः अमृतसर पर्यन्तं रेलमार्गस्य निर्माणम् अपि सः एव कृतवान् आसीत्।
= पठानकोट से अमृतसर तक रेलमार्ग का निर्माण भी उन्होंने ही किया था। 

दिल्ही-नगरे अपि सर गंगाराम चिकित्सालयः वर्तते।
= दिल्ली में भी सर गंगाराम अस्पताल है। 

लाहौर नगरे अधुना अपि सर गंगारामस्य समाधिः विद्यते।
= लाहौर में आज भी सर गंगाराम की समाधि है।

वयं सर गंगारामं वन्दामहे।
= हम सर गंगाराम को वन्दन करते हैं। 

दुःखस्य विषयः लाहौर अधुना पाकिस्थाने अस्ति। 
= दुख का विषय है लाहौर अब पाकिस्तान में है।

जयतु संस्कृतम्॥ जयतु भारतम्॥

सामान्य वार्तालाप का आरंभ और समाप्ति

सुप्रभातम् Good Morning 
सुदिनमस्तु Have a good day 
कथमस्ति भवान् ? (पुरुष) How are you (masculine)? 
अत्युत्तमम् Very Good
कथमस्ति भवती ? (स्त्री) How are you (feminine) ? 
अत्युत्तमम् Very Good
त्वद्विरहविह्वला अस्मि (स्त्री) I Miss You
त्वद्विरहविह्वलः अस्मि (पुरुष) I Miss You
शुभ: सायंकालः Good evening 
 शुभरात्रिः Good night 
 शुभम् Good bye!! or Bye ! Bye !! 
शीघ्रम् मिलामः See you soon
हार्दिकाः शुभेच्छाः Hearty wishes 
शुभं भूयात् All The Best
शुभमस्तु May everything be fine
सस्नेहम् Cordially or Affectionately
धन्यवादाः Thank you
अभीष्टम् सिद्धिरस्तु All The Best
कुशली भवान् ? Are you (masculine) fine ? 
 कुशलिनी भवती ? Are you (feminine) fine ? 
कुशलम् सर्वम् ? Is everything fine ? 
आम् Yes
अहं क्षन्तव्यः (पुरुष) I am Sorry
अहं क्षन्तव्या (स्त्री) I am Sorry
तुष्णीमाकलय Shut up
हा दैव Oh God
न कदापि Never
आगच्छ Come 
महोदय: Sir 
महोदया Madam 
अहं स्वस्था I am Fine
अहं स्वस्थः I am Fine

बुधवार, 23 सितंबर 2020

संगणक-विषयक-शब्दावली

संगणक-विषयक-शब्दावली

(1)ID— परिचयपत्रम्
(2)Data – टंकितांश:
(3) Edit – सम्पादनम्
(4)Keyboard – कुंचिपटलम्
(5) Timeline – समयरेखा 
(6) Login – प्रवेश:
(7)Share - वितरणम्, प्रसारणम्
(8) Laptop – अंकसंगणकम्
(9) Search - अन्वेषणम्
(10)Default - पूर्वनिविष्ठम्
(11)Input – निवेश:
(12)Output - फलितम् 
(13)Block – अवरोध:
(14)Display – प्रदर्शनम् / विन्यास:
(15)Wallpaper - भीत्तिचित्रम्
(16)Theme – विषयवस्तु:
(17)User – उपभोक्ता
(18) Smart phone - कुशलदूरवाणी
(19)Tag - चिह्नम्
(20)Setup – प्रतिष्ठितम्
(21)Install - प्रस्थापना / प्रतिस्थापनम्
(22)Privacy - गोपनीयता 
(23)Manual – हस्तक्रिया 
(24)Accessibility - अभिगम्यता
(25)Error – त्रुटि: 
(26)Pass word – गूढशब्द:
(27) Code no. - कूटसंख्या
(28) Pen drive - स्मृतिशलाका

संस्कृत ही विश्व की सर्वश्रेष्ठ भाषा है।

प्रतिदिन स्मरण योग्य शुभ सुंदर मंत्र
संग्रह

  🔹 प्रात: कर-दर्शनम्🔹

कराग्रे वसते लक्ष्मी करमध्ये सरस्वती।
करमूले तू गोविन्दः प्रभाते करदर्शनम्॥

   🔸पृथ्वी क्षमा प्रार्थना🔸

समुद्र वसने देवी पर्वत स्तन मंडिते।
विष्णु पत्नी नमस्तुभ्यं पाद स्पर्शं क्षमश्वमेव॥

🔺त्रिदेवों के साथ नवग्रह स्मरण🔺

ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानु: शशी भूमिसुतो बुधश्च।
गुरुश्च शुक्र: शनिराहुकेतव: कुर्वन्तु सर्वे मम सुप्रभातम्॥

              ♥️ स्नान मन्त्र ♥️

गंगे च यमुने चैव गोदावरी सरस्वती।
नर्मदे सिन्धु कावेरी जले अस्मिन् सन्निधिम् कुरु॥

           🌞 सूर्यनमस्कार🌞

ॐ सूर्य आत्मा जगतस्तस्युषश्च
आदित्यस्य नमस्कारं ये कुर्वन्ति दिने दिने।
दीर्घमायुर्बलं वीर्यं व्याधि शोक विनाशनम् 
सूर्य पादोदकं तीर्थ जठरे धारयाम्यहम्॥

ॐ मित्राय नम:
ॐ रवये नम:
ॐ सूर्याय नम:
ॐ भानवे नम:
ॐ खगाय नम:
ॐ पूष्णे नम:
ॐ हिरण्यगर्भाय नम:
ॐ मरीचये नम:
ॐ आदित्याय नम:
ॐ सवित्रे नम:
ॐ अर्काय नम:
ॐ भास्कराय नम:
ॐ श्री सवितृ सूर्यनारायणाय नम:

आदिदेव नमस्तुभ्यं प्रसीदमम् भास्कर।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते॥

                🔥दीप दर्शन🔥

शुभं करोति कल्याणम् आरोग्यम् धनसंपदा।
शत्रुबुद्धिविनाशाय दीपकाय नमोऽस्तु ते॥

दीपो ज्योति परं ब्रह्म दीपो ज्योतिर्जनार्दनः।
दीपो हरतु मे पापं संध्यादीप नमोऽस्तु ते॥

            🌷 गणपति स्तोत्र 🌷

गणपति: विघ्नराजो लम्बतुन्ड़ो गजानन:।
द्वै मातुरश्च हेरम्ब एकदंतो गणाधिप:॥
विनायक: चारूकर्ण: पशुपालो भवात्मज:।
द्वादश एतानि नामानि प्रात: उत्थाय य: पठेत्॥
विश्वम तस्य भवेद् वश्यम् न च विघ्नम् भवेत् क्वचित्।

विघ्नेश्वराय वरदाय शुभप्रियाय।
लम्बोदराय विकटाय गजाननाय॥
नागाननाय श्रुतियज्ञविभूषिताय।
गौरीसुताय गणनाथ नमो नमस्ते॥

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजं।
प्रसन्नवदनं ध्यायेतसर्वविघ्नोपशान्तये॥

        ⚡आदिशक्ति वंदना

सर्वमंगल मांगल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥

           🔴 शिव स्तुति 🔴

कर्पूर गौरम करुणावतारं,
संसार सारं भुजगेन्द्र हारं।
सदा वसंतं हृदयार विन्दे,
भवं भवानी सहितं नमामि॥

🔵 विष्णु स्तुति 🔵

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम्।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥

            ⚫ श्री कृष्ण स्तुति

कस्तुरी तिलकम ललाटपटले, वक्षस्थले कौस्तुभम।
नासाग्रे वरमौक्तिकम करतले, वेणु करे कंकणम॥
सर्वांगे हरिचन्दनम सुललितम, कंठे च मुक्तावलि।
गोपस्त्री परिवेश्तिथो विजयते, गोपाल चूडामणी॥

मूकं करोति वाचालं पंगुं लंघयते गिरिम्‌।
यत्कृपा तमहं वन्दे परमानन्द माधवम्‌॥

            ⚪ श्रीराम वंदना

लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथम्।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये॥

               ♦️श्रीरामाष्टक♦️

हे रामा पुरुषोत्तमा नरहरे नारायणा केशवा।
गोविन्दा गरुड़ध्वजा गुणनिधे दामोदरा माधवा॥
हे कृष्ण कमलापते यदुपते सीतापते श्रीपते।
बैकुण्ठाधिपते चराचरपते लक्ष्मीपते पाहिमाम्॥
    🔱 एक श्लोकी रामायण 🔱

आदौ रामतपोवनादि गमनं हत्वा मृगं कांचनम्।
वैदेही हरणं जटायु मरणं सुग्रीवसम्भाषणम्॥
बालीनिर्दलनं समुद्रतरणं लंकापुरीदाहनम्।
पश्चाद्रावण कुम्भकर्णहननं एतद्घि श्री रामायणम्॥

           🍁सरस्वती वंदना🍁

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता।
या वींणावरदण्डमण्डितकरा या श्वेतपदमासना॥
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता।
सा माम पातु सरस्वती भगवती 
निःशेषजाड्याऽपहा॥

            🔔हनुमान वंदना🔔

अतुलितबलधामं हेमशैलाभदेहम्‌।
दनुजवनकृषानुम् ज्ञानिनांग्रगणयम्‌।
सकलगुणनिधानं वानराणामधीशम्‌।
रघुपतिप्रियभक्तं वातजातं नमामि॥

मनोजवं मारुततुल्यवेगम जितेन्द्रियं बुद्धिमतां वरिष्ठं।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणम् प्रपद्ये॥

         🌹 स्वस्ति-वाचन 🌹

ॐ स्वस्ति न इंद्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्ट्टनेमिः
स्वस्ति नो बृहस्पतिर्दधातु॥

            ❄ शांति पाठ

ऊँ पूर्णमदः पूर्णमिदं पूर्णात्‌ पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥

ॐ द्यौ: शान्तिरन्तरिक्ष (गुँ) शान्ति:,
पृथिवी शान्तिराप: शान्तिरोषधय: शान्ति:।
वनस्पतय: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति:,
सर्व (गुँ) शान्ति:, शान्तिरेव शान्ति:, सा मा शान्तिरेधि॥

ॐ शान्ति: शान्ति: शान्ति:

🚩

आचार्य प्रताप

सामान्यभूते लुङ्-लकारस्य प्रयोगो भवति, उदाहरणानि -

रामः  शिक्षकः अभूत् ।
परन्तु तौ रमेश-गोपालौ कृषकौ अभूताम् ।
पूर्वतनकाले देशेषु बहवः राजानः अभूवन् ।

त्वम् अध्यापकः अभूः किम् ?
युवां गतवर्षे राजनेतारौ अभूतम् ।
यूयम् अपि तदा समाजसेवकाः अभूत ।

अहं ह्यः मन्दिरव्यवस्थापकः अभूवम् ।
आवां पूर्वं सुहृदौ अभूव ।
वयं तदा सर्वे कार्यकर्तारः अभूम । 
इत्येवं त्रिषु पुरुषवचनेषु ।

भक्तानाम् अभक्तानाञ्च भगवद्विषये मान्यता

।।हरिः ॐ तत्सत्।।

श्रीभगवान् हि सर्वेषां मूलकारणम् , तथा भगवत्तः सत्ता-स्फूर्तिं च प्राप्य हि संसारे सम्पूर्णक्रियाः प्रवर्तमानाः स्युः इत्येवं विचार्य भक्तजनाः श्रद्धाप्रेमपूर्वकं भगवतो भजनं कुर्वन्ति सततम् ।
      परन्तु यैः अभक्तैः, तैः भगवान् साधारणमनुष्यवत् शरीरधारी, जन्ममरणं प्राप्तवान् कश्चन सामान्यमनुष्यो मन्यते । इत्थमेव भक्ताभक्तयोर्मध्ये स्थितो दृष्टिभेदः, मान्यता वा इति ।

।।जयतु संस्कृतम् जयतु भारतम्।।

हस्यम्

हास्यम् 
 
 कश्चन स्नातकः ( BA pass) युवकः 'सर्वकारीया वृत्तिः मया कदा प्राप्स्यते वा' इति चिन्तयन् एकदा कस्यचन साधोः (BABA) समीपे तज्ज्ञातार्थं गतवान् । साधुम् उपसर्प्य सः पृष्टवान् -
   'बाबा' ! अहं सर्वकारीय-वृत्तिं कदा प्राप्स्यामि इति सम्यक् विचार्यतां कृपया । तदर्थमेव भवत्सन्निधौ अहम्  आगतवान् अस्मि इदानीम् ।
  साधुः - कियत् पठितम् अस्ति भवता ?
युवकः - BA
साधुः - तर्हि पुनः एकवारं तदेव पठतु । भवान् BABA (बाबा) भविष्यति चेत् सर्वकारीयवृत्तेः कुतः आवश्यकता ? धनस्य तु धारा एव वहेत् , गच्छतु । 😃

संस्कृत से बनी अग्रेजी

संस्कृत से बनी अग्रेजी
मनु = मैन
पितर = फादर
मातर = मदर
भ्रातर =ब्रदर
स्वसा = सिस्टर
दुहितर = डाटर
सुनु = सन
विधवा = विडव्
अहम् = आई एम
मूष = माउस
ऋत =राइट
स्वेद = स्वेट (पसीना )
अंतर =अंडर (नीचे ,भीतर )
द्यौपितर = जुपिटर (आकाश , बृहष्पति)
पशुचर =पाश्चर (चरवाहा )
दशमलव =डेसिमल
ज्यामिति = ज्योमेट्री
पथ =पाथ (रास्ता )
नाम =नेम
वमन=vomity=उल्टी करना
द्वार > डोर (door)
हृत > हार्ट (heart)
द्वि > two
त्रि > three
पञ्च > penta > five
सप्त > hept > seven
अष्ट > oct > eight
नव > non > nine
दश > deca > ten
दन्त > dent
उष्ट्र > ostrich
गौ > cow
गम् > go
स्था > stay
अक्ष- axis
सप्त अम्बर- september
अष्ट अम्बर- october
नबं अम्बर- november
दशं अम्बर- december
इससे यह भी पता चलता है
की december
12वाँ नहीं 10वाँ महीना है
जो हिन्दी महीनों के अनूरूप है।
समिति-committee
संत -saint
टमाटर-tomato
समस्त भाषाएं संस्कृत की पुत्रियां हैं इनके ८०% शब्द संस्कृत से ही शब्दों से ही बनें हैं।

ईशभजनं कदा ?

ईशभजनं कदा ? 
                  
          एकः सज्जनः परन्तु मन्दबुद्धिः कश्चन समुद्रतीरे स्नानार्थं अपेक्षमाणः उपविशन् आसीत्, बहुसमयतः । यदा समुद्रतरङ्गाः शान्ताः भवेयुः तदा एवाहं स्नानं करिष्यामि इति तस्य एतावत्पर्यन्तम् अपेक्षायाः कारणम् । एतद्दृश्यं समीपतः एव अपरः कश्चन सज्जनः पश्यन् आसीत् । सः तम् उपगम्य पृष्टवान् - ' हे महानुभव ! भवान् चिराय अत्र उपविशन् अस्ति, स्नानार्थम् आगतवान् अस्ति इति भाति मे, परन्तु स्नानाय किमर्थम् एतावान् विलम्बो भवतः एवम् ' ?
      ' आम्, महोदय ! अत्राहं स्नानार्थमेव आगतवान् अस्मि, परन्तु -- -- '
     ' किं परन्तु, शीघ्रं स्नानं करोतु महोदय ! '
      'न, अत्र समुद्रतरङ्गाः भयङ्कराः, अतः एते यदा शान्ताः भवेयुः तदा एव मया स्नानं विधास्यते, तदर्थमेव मे अपेक्षा अत्र' इति । 
      सः हसन् उक्तवान्  ' अहो ! भवान् तु इदम्प्रथमतया समुद्रं दृष्टवान् अस्ति खलु इति भाति । समुद्रतरङ्गाः कदाचिदपि शान्ताः न भवन्ति । यदि भवान् एवम् अपेक्षां कुर्वन् तिष्ठेत् तर्हि अत्र जीवनायुरेव समाप्ततां गच्छेत् भवतः, परन्तु समुद्रः एवमेव सर्वकाले तरङ्गमानः एव तिष्ठेत् ' इत्युक्त्वा सः ततो निर्गतवान् ।
      कथनस्य तात्पर्यं यत् संसारोऽपि समुद्रवदेव । जीवने प्रतिक्षणम् अनुकूल-प्रतिकूलयोः परिस्थित्योः प्रवाहः प्रचलति । यदा परिस्थितिः शान्ता भवेत् तदैव अहं पारमार्थिकचिन्तनम् ईश्वरचिन्तनं वा विधास्यामि, अथवा उत्तरवयसि एव एतादृशं कार्यं करिष्यते इत्येतादृशी अपेक्षा सर्वथा वृथा एव । एवञ्चेत् ईश्वरभजनं जीवने स्वप्नायते, कदापि तत् न सम्भवेदिति ।

     सुप्रभातम् ! सुदिनम् ! जयतु संस्कृतम् !
              -- नारदः

हास्यः

शिक्षकः - विप्लव ! त्वं वद, ताजमहलं कुत्र अस्ति ?
विप्लव: - न जानामि महाशय !
शिक्षकः - तर्हि उत्पीठिकाम् आरूह्य उत्तिष्ठ ।
विप्लवः - महाशय !  उत्पीठिकातः दृश्यते किं तत् ?

सुखं नाम किम् ?

एकः आश्चर्यकरो विषयो यत् अन्येषां दृष्ट्यां यस्य पार्श्वे सर्वतः परिपूर्णं सुखम् वर्तते, परन्तु सः न जानाति यत् किं सुखं नाम, तथापि  इतोऽपि सुखार्थमेव सः प्रयतमानो दृश्यते इति । परन्तु यस्य पार्श्वे न मनागपि सुखं कदापि, केवलं दुःखं हि दुःखम्, सः सुखप्राप्त्यर्थं सर्वदा लालायितः सन् एव तिष्ठति । यदि सुखे प्राप्ते सत्यपि तन्न ज्ञायते, तर्हि किं सुखं नाम ? अनेन ज्ञायते यत् प्रपञ्चे सुखं नाम न किमपि वस्तु स्यात्, केवलम् एतस्य प्रतीतिमात्रमेव स्यादिति सद्यो मनसि जातः कश्चन अनुभवो मे ।
                  -- नारदः ।

एते निरर्थकाः

मूर्खजनेन सह विनयता, कुटिलजनेन सह सम्प्रीतिः, कृपणजनेन सह सुन्दरनीतिः अर्थात् उदारता, ममतायुक्तेन सह ज्ञानकथा, अतिलोभिना सह वैराग्य-वर्णनम्, क्रोधिना सह शान्तिवार्ता, कामिना सह भगवत्कथा च इत्येतेभ्यः प्राप्तव्यं  यत् परिणामफलं तत् ऊसरे बीजरोपणवत् भवति, अर्थात् तत्फलं निरर्थकं भवति सर्वदा । भक्तशिरोमणिः तुलसीदासो  वदति -
'सठ सन बिनय कुटिल सन प्रीति ।
सहज लोभी सन सुंदर नीति ।।
ममता रत सन ग्यान कहानी ।
अति लोभी सन बिरति बखानी ।।
क्रोधिहि सम कामिहि हरिकथा ।
ऊसर बीज बएं फल जथा ।।' इति ।

  शुभसायम् ! नमस्सर्वेभ्यः ! जयतु संस्कृतम् ! 🙏🏻🌹
    -- नारदः

व्रजकिशोरः

दोलालीला
*********
लोला दोला भ्रमति सजनं कृष्णराधे निधाय
दृष्ट्वा हृष्टा निखिलमनुजास्तौ च नृत्यन्ति नत्वा।
तूर्णं चूर्णं प्रभुतनुगतं तेपि लिम्पन्ति गण्डे
भाग्यं भोगं मिलति सततं देवलीलाप्रभावात्।।
(व्रजकिशोरः)  

बालकस्य दिनचर्या

बालकस्य दिनचर्या एकस्मिन् रमणीये ग्रामे सोमः नाम एकः बुद्धिमान् बालकः वसति स्म। तस्य गृहं वृक्षैः परिवृतम् आसीत्। सः प्रतिदिनं ब्राह्ममुहूर्...