एते निरर्थकाः

मूर्खजनेन सह विनयता, कुटिलजनेन सह सम्प्रीतिः, कृपणजनेन सह सुन्दरनीतिः अर्थात् उदारता, ममतायुक्तेन सह ज्ञानकथा, अतिलोभिना सह वैराग्य-वर्णनम्, क्रोधिना सह शान्तिवार्ता, कामिना सह भगवत्कथा च इत्येतेभ्यः प्राप्तव्यं  यत् परिणामफलं तत् ऊसरे बीजरोपणवत् भवति, अर्थात् तत्फलं निरर्थकं भवति सर्वदा । भक्तशिरोमणिः तुलसीदासो  वदति -
'सठ सन बिनय कुटिल सन प्रीति ।
सहज लोभी सन सुंदर नीति ।।
ममता रत सन ग्यान कहानी ।
अति लोभी सन बिरति बखानी ।।
क्रोधिहि सम कामिहि हरिकथा ।
ऊसर बीज बएं फल जथा ।।' इति ।

  शुभसायम् ! नमस्सर्वेभ्यः ! जयतु संस्कृतम् ! 🙏🏻🌹
    -- नारदः

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...