वाक्याभ्यासः

नमः सुरभारत्यै। वन्दे मातरम्

यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम् ।
तथा पुरुषकारेण विना दैवं न सिध्यति ।।
🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾

          भावार्थः 👇
क्षेत्रे बीजानां वपनं क्रियते तदा क्षेत्रं सस्यपूर्णं भवति। यदि क्षेत्रे बीजवपनं न कुर्यात् तर्हि बीजं फलति एव न।
तथैव अस्माकं भाग्यं पुरुषार्थेन हि सिध्यति। भाग्ये हि सर्वथा आश्रितः न भवेत्। परिश्रमः सततं करणीयः।
💐💐💐💐💐💐💐💐💐💐💐💐💐
         💐 संस्कृतम् 💐
यथा बीजं क्षेत्रम् उप्तं विना निष्फलं भवति । 
तथैव पुरुषार्थं विना भाग्यम् अपि न सिद्ध्यति।

            💐 हिन्दी 💐
जैसे बीज खेत में बोए बिना निष्फल रहता है, उसी प्रकार पुरुषार्थ के बिना भाग्य भी सिद्ध नहीं होता।

          

   वाक्याभ्यासः
१-यथा बीजं भवति तथैव फलं भवति।
२-विना-योगे द्वितीया तृतीया पञ्चमी च भवन्ति।
३-क्षेत्रम् अतीव हरितं दृश्यते इदानीम्।
४-उप्तं सर्वं बीजं वर्षर्तौ अङ्कुरितं भवति।
५-भवति एवमेव मम संस्कृताभ्यासः।
६-निष्फलम् अवाप्य अपि सः पुनः श्रमं करोति।
७-तथा हि अहमपि करिष्यामि।
८-पुरुषकारेण जीवनं सफलीकर्तुं यतताम्।
९-विना भगवत्कृपया पुरुषार्थः अपि न सम्भवति।
१०-दैवं ज्ञात्वा अपि कोऽपि न परिवर्तयितुं शक्नोति।
११-न! तुभ्यं केवलं पुस्तकानि सः आनयत्।
१३-सिध्यति सर्वं परमात्मना एव।


जयतु संस्कृतम्। जयतु भारतम्।।

0 टिप्पणियाँ

दर्दुराणां गीतं

वर्षर्तौ दर्दुरा: दर्दुरी: स्वकीयं प्रति आकर्षयितुं रुवन्ति। यतोहि दर्दुराणां प्रजननं वर्षर्तौ एव भवति। दर्दुर: एव रवितुं सक्षमोऽस्ति, यतोहि दर्दुरेषु एव स्वरयंत्रं भवति। एतदर्थं दर्दुरा: कण्ठसमीपे अङ्गे वायुं बेलुनवत् पूरयित्वा रुवन्ति। तेषाम् एषः रवनध्वनि: बहुदूरं यावत् श्रोतुं शक्यते। वर्षचरणमासेषु दर्दुराणां प्रजननं समभवत्। तेषां संगीतमयं रवणध्वनि: सर्वत्र विस्तृतः। तद्वायू कण्ठत्राणात् समुत्पद्यमानः लोकस्य कर्णाणि तर्पयति। प्रकृतेः विविधत्वस्य दर्दुराः प्रतीकं सन्ति। तेषाम् इयं कलाकृति भूमण्डले सर्वत्र प्रसृता। तस्यां मानव: लीलया मग्नो भवति। दर्दुराणां प्रजननी अवधि: वर्षर्तुकालः एव। तत्र एव तेषाम् आवासः, भोजनं च समतिष्ठते। वर्षायने छन्नाच्छन्नाः दर्दुरा: दर्दुरीश्च स्वकीयमाकर्षणं कुर्वन्ति। तथाच गम्भीरगम्भीर: तेषाम् आक्रोश: दूरं श्रूयते। प्रकृतिप्रेमिणां दर्दुराणां कलाकृति: सर्वदा वन्दनीया भवति। वर्षा-ऋतौ दर्दुरा: स्वं संगीतं विविधत्वेन प्रकाशयन्ति। उपवनेषु, गर्तेषु, जलाशयेषु च ते निवसन्ति। वर्षायनसमये सर्वत्र तेषां उचितरवः श्रूयते। घनमेघस्य गर्जनं, जलप्रपातानां जलक्षणं, तदुपरि दर...