ईशभजनं कदा ?
एकः सज्जनः परन्तु मन्दबुद्धिः कश्चन समुद्रतीरे स्नानार्थं अपेक्षमाणः उपविशन् आसीत्, बहुसमयतः । यदा समुद्रतरङ्गाः शान्ताः भवेयुः तदा एवाहं स्नानं करिष्यामि इति तस्य एतावत्पर्यन्तम् अपेक्षायाः कारणम् । एतद्दृश्यं समीपतः एव अपरः कश्चन सज्जनः पश्यन् आसीत् । सः तम् उपगम्य पृष्टवान् - ' हे महानुभव ! भवान् चिराय अत्र उपविशन् अस्ति, स्नानार्थम् आगतवान् अस्ति इति भाति मे, परन्तु स्नानाय किमर्थम् एतावान् विलम्बो भवतः एवम् ' ?
' आम्, महोदय ! अत्राहं स्नानार्थमेव आगतवान् अस्मि, परन्तु -- -- '
' किं परन्तु, शीघ्रं स्नानं करोतु महोदय ! '
'न, अत्र समुद्रतरङ्गाः भयङ्कराः, अतः एते यदा शान्ताः भवेयुः तदा एव मया स्नानं विधास्यते, तदर्थमेव मे अपेक्षा अत्र' इति ।
सः हसन् उक्तवान् ' अहो ! भवान् तु इदम्प्रथमतया समुद्रं दृष्टवान् अस्ति खलु इति भाति । समुद्रतरङ्गाः कदाचिदपि शान्ताः न भवन्ति । यदि भवान् एवम् अपेक्षां कुर्वन् तिष्ठेत् तर्हि अत्र जीवनायुरेव समाप्ततां गच्छेत् भवतः, परन्तु समुद्रः एवमेव सर्वकाले तरङ्गमानः एव तिष्ठेत् ' इत्युक्त्वा सः ततो निर्गतवान् ।
कथनस्य तात्पर्यं यत् संसारोऽपि समुद्रवदेव । जीवने प्रतिक्षणम् अनुकूल-प्रतिकूलयोः परिस्थित्योः प्रवाहः प्रचलति । यदा परिस्थितिः शान्ता भवेत् तदैव अहं पारमार्थिकचिन्तनम् ईश्वरचिन्तनं वा विधास्यामि, अथवा उत्तरवयसि एव एतादृशं कार्यं करिष्यते इत्येतादृशी अपेक्षा सर्वथा वृथा एव । एवञ्चेत् ईश्वरभजनं जीवने स्वप्नायते, कदापि तत् न सम्भवेदिति ।
सुप्रभातम् ! सुदिनम् ! जयतु संस्कृतम् !
-- नारदः
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें