मंगलवार, 20 अक्टूबर 2020

षोडशके द्रव्यगणे

षोडशके द्रव्यगणे चतुर्विकल्पेन भिद्यमानानाम्।
अष्टादश जायन्ते शतानि सहितानि विंशत्या॥


ṣoḍaśake dravyagaṇe caturvikalpena bhidyamānānām
aṣṭādaśa jāyante śatāni sahitāni viṃśatyā

Translation by V. Subramanya Sastri—“Out of a collection of sixteen kinds of substances, the number of perfumes that can be made by selecting any four will be 1820.”

My translation—“When there is a collection of sixteen entities, on being distinguished by options (=selections) of four, there arise eighteen hundreds along with twenty (18 × 100 + 20 = 1,820).”

संस्कृत अभ्यास:

१.घर के चारो अोर जल है.
=गृहं परितः जलम् अस्ति.

२.शहर के निकट मन्दिर है.
=नगरं समया मन्दिरम् अस्ति.

३.स्कूल के सामने कुअा है.
=पाठशालाम् अभितः कूपः अस्ति.

४.मैं मित्र के साथ बाजार जाती हू.
=अहं मित्रेण सह अापणं गच्छामि.

५.रमा माता के साथ शहर जाती है.
=रमा मात्रा सह नगरं गच्छति.

६.श्याम अाख से काणा है.
=श्यामः नेत्रेण काणः अस्ति.

७.परिश्रम के विना विद्या कहा?
=परिश्रमेण विना विद्या कुतः?

८.राजा चोर पर क्रोध करता है.
=राजा चौराय क्रुध्यति.

९.मुझे दही अच्छा लगता है.
=मझ्यं दधि रोचते.

१०.वीर देश को शत्रुअों से बचाता है.
=वीरः देशं शत्रुभ्यः रक्षति.

तुषी चकमा

विपत्तौ काले धैर्येण स्थातव्यम्।

विपत्तौ काले धैर्येण स्थातव्यम्

महाभारतस्य युद्धे द्रोणाचार्यं छलेन अघ्नन् इति विदित्वा पुत्रः अश्वत्थामा अत्यन्तं कुपितः अभवत्। 

सः तदा पाण्डव-सेनायाः उपरि नारायणास्त्रेण आक्रमणम् अकरोत्।
नारायणास्त्रम् अत्यन्तं भयङ्करम् आसीत् यत् तं रोद्धुं केनापि न शक्यम्।

यः कोऽपि योद्धा हस्ते अस्त्रं निधाय युद्धं कर्तुम् उद्युक्तः दृश्यते चेत् नारायणास्त्रं तस्योपरि अग्निवृष्टिं कारयित्वा तं शीघ्रं नष्टं करोति स्म। 

एतद् दृष्ट्वा पाण्डवाः सर्वे भीताः सन्तः भगवतः श्रीकृष्णस्य समीपं गत्वा तस्य अस्त्रस्य विषये अपृच्छन्। केन उपायेन तं रोद्धुं शक्यते इत्यपि अपृच्छन्। 

भगवान् श्रीकृष्णः तदा उक्तवान् तम् अस्त्रं परास्तुं केवलम् एकैव उपायः अस्ति यद् भवन्तः सर्वे अस्त्राणि शस्त्राणि त्यक्त्वा केवलं तस्य वन्दनां कुर्वन्तु, मनसि युद्धं कर्तुम् इच्छा अपि न भवेत् कस्यापि इति। 

सर्वे तथैव कृतवन्तः। तत्पश्चात् नारायणास्त्रस्य प्रभावः शनैः शनैः समाप्तः अभवत्। 

अनेन उपायेन पाण्डवसेनायाः रक्षा अभवत्। 

अस्य कथाप्रसङ्गस्य तात्पर्यं किम् इति चिन्तयन्तु।

प्रत्येकं स्थाने युद्धं कृत्वा विजयी भवितुं न शक्यते केनापि। 
अतः प्रकृतेः प्रकोपात् रक्षणाय कदाचित् अस्माभिः सर्वैरपि तूष्णीं भूत्वा सर्वमपि कर्म त्यक्त्वा हस्तौ योजयित्वा तस्य भगवतः वन्दना करणीया।

तदा एव वयं सर्वे तस्मात् प्रकोपात् रक्षां प्राप्नुयाम। 

कोरोणाविषाणोः प्रकोपः अपि शीघ्रं समाप्तः भविष्यति। 
भगवता श्रीकृष्णेन प्रोक्तः उपायः कदापि विफलः न भविष्यति। 
जय श्रीकृष्ण

करबद्धनिवेदनम्

#प्रिय_बान्धवाः
#शरीरमाद्यं_खलु_धर्मसाधनम् ।
#करोनाविषाणुः प्रसरति सर्वत्र वेगेन ।
सत्यमेव बहु बहु बहु बहु #गम्भीरतास्ति । 
#वृथा_न_गच्छन्तु_बहिः ।
स्वस्था भवन्तु स्वगृहे एव ।
#अतिबुद्धिप्रयोगः मास्तु ।
मम किमपि न भवति इति गर्वं न कुर्वन्तु ।
आशास्ति कस्यापि किमपि दुःखं न स्यात् !
🙏🙏🙏🙏🙏🙏🙏🙏
करबद्धनिवेदनम्

एकेन रुप्यकेन ईश्वरः क्रेतव्यः

!!!---: एकेन रुप्यकेन ईश्वरः क्रेतव्यः :---!!!
============================

एकः अष्टवर्षीयबालकः हस्ते एकं रुप्यकम् आदाय एकम् आपणं गत्वा आपणिकं पृच्छति महोदय! भवतः आपणे ईश्वरः अस्ति वा? इति

आपणिकः बालकस्य वचनं श्रुत्वा तस्य धनमुद्राम् अधः पातितवान् अपिच तं बालकं प्रताडितवान्। 

पुनः सः एकं रुप्यकं नीत्वा पार्श्वस्थम् आपणं गत्वा तूष्णीम् स्थितवान्।

आपणिकः तं दृष्ट्वा पृष्टवान् भो बालक! एकेन रुप्यकेन त्वं किं नेतुम् इच्छसि? इति। 
अहम् ईश्वरम् इच्छामि, अस्ति वा भवतः आपणे इति बालकः पृष्टवान्। 

तस्य बालकस्य वचनं श्रुत्वा सोऽपि आपणिकः तं प्रताडितवान्।

एवमेव सः बालकः रुप्पकमेकं नीत्वा प्रायः चत्वारिंशत् आपणान् गतवान् परन्तु कुत्रापि तेन ईश्वरः न लब्धः, अपि च तं सर्वे अपि आपणिकाः प्रताडितवन्तः।

परन्तु सः बालकः निराशः न अभवत्। अन्ते च सः एकस्य वृद्धस्य आपणं गतवान्। सः तम् आपणिकमपि तथैव पृष्टवान्। 

वृद्धः आपणिकः बालकस्य वचनं श्रुत्वा तं पृष्टवान् हे बालक! त्वं किमर्थम् ईश्वरं क्रेतुम् इच्छसि? ईश्वरं नीत्वा त्वं किं करिष्यसि? इति। 

प्रथमवारं कस्यापि आपणिकस्य मुखात् प्रश्नं श्रुत्वा तस्य बालकस्य मनसि किञ्चिद् आशा उत्पन्ना। मन्ये अस्मिन् आपणे ईश्वरः अस्ति सः बालकः चिन्तितवान्। 

अतः सः उत्साहेन उत्तरितवान् महोदय। अस्मिन् जगति मम मातरम् विहाय अन्यः अन्या वा कोऽपि नास्ति। मम माता कार्यं कृत्वा मह्यं भोजनम् आनयति।

इदानीं सा रुग्णा अस्ति अतः सा चिकित्सालये प्रविष्टा अस्ति।
यदि मम माता म्रियेत तर्हि मां कः का वा भोजनं दद्यात्? 
ईश्वरः एव मम मातुः रक्षां कर्तुं शक्नोति इति वैद्यः उक्तवान्। 
अतः भवतः आपणे ईश्वरः अस्ति वा?  

आपणिकः- आम्, ईश्वरः प्राप्यते, परन्तु तव पार्श्वे कति रुप्यकाणि सन्ति? 

केवलम् एकं रुप्यकम् अस्ति इति बालकेन उक्तम्। 

अस्तु चिन्ता नास्ति। एकेन रुप्यकेन ईश्वरः लभ्यते एव इति आपणिकः उक्तवान्। 

आपणिकः बालकस्य हस्तात् एकं रुप्यकं स्वीकृत्य जलशोधन्याः चषकमेकं जलं स्वीकृत्य तस्मै प्रदाय उक्तवान् एतज्जलं नीत्वा तव मातरं पाययति चेत् सा शीघ्रं स्वस्था भविष्यति इति। 

परेद्युः केचन विशिष्टाः वैद्याः चिकित्सालयं गत्वा तस्य बालकस्य मातुः शल्यचिकित्सां कृतवन्तः, तस्मात् सा महिला स्वस्था अभवत्। 

तदनन्तरं चिकित्सालयात् तया महिलया प्राप्तं मुक्तिपत्रं पठित्वा तस्मिन् पत्रे चिकित्साशुल्क शून्यम् इति दृष्ट्वा सा आश्चर्यचकिता अभवत्। 

तदा वैद्यः तस्यै आश्वासनं प्रदाय उक्तवान् चिन्ता न कार्या, एको वृद्धः सज्जनः भवत्याः सर्वं चिकित्साशुल्कं दत्तवान्। अपिच एकं पत्रमपि सः दत्तवान्। 

सा महिला तदा तत् पत्रं पठितुम् आरब्धवती। तस्मिन् पत्रे लिखितम् आसीत् - मम कृते धन्यवादस्य आवश्यकता नास्ति। भवतीं तु स्वयम् ईश्वरः एव रक्षितवान्। यदि कस्मै अपि धन्यवादं दातुम् इच्छति तर्हि भवत्याः पुत्राय ददातु। 

स अबोधबालकः यः केवलम् एकं रुप्यकं नीत्वा ईश्वरस्य अन्वेषणं कर्तुम् आरब्धवान्। तस्य मनसि दृढविश्वासः आसीत् यत् केवलम् ईश्वरः एव भवतीं रक्षितुं शक्नोति इति। 

यदि मनसि दृढविश्वासः भवेत् चेद् एकेन रुप्यकेन एव ईश्वरं प्राप्तुं शक्यते, कोटिरुप्यकाणां दानस्य आवश्यकता न भवति इति शम्।

शूक्ति-सुधा

1. संघे शक्ति: कलौ युगे। – एकता में बल है।
2. अविवेक: परमापदां पद्म। – अज्ञानता विपत्ति का घर है।
3. कालस्य कुटिला गति:। – विपत्ति अकेले नहीं आती।
4. अल्पविद्या भयंकरी। – नीम हकीम खतरे जान।
5. बह्वारम्भे लघुक्रिया। – खोदा पहाड़ निकली चुहिया।
6. वरमद्य कपोत: श्वो मयूरात। – नौ नगद न तेरह उधार।
7. वीरभोग्य वसुन्धरा। – जिकसी लाठी उसकी भैंस।
8. शठे शाठ्यं समाचरेत् – जैसे को तैसा।
9. दूरस्था: पर्वता: रम्या:। – दूर के ढोल सुहावने लगते हैं।
10. बली बलं वेत्ति न तु निर्बल : जौहर की गति जौहर जाने।
11. अतिपर्दे हता लङ्का। – घमंडी का सिर नीचा।
12. अर्धो घटो घोषमुपैति नूनम्। – थोथा चना बाजे घना।
13. कष्ट खलु पराश्रय:। – पराधीन सपनेहुँ सुख नाहीं।
14. क्षते क्षारप्रक्षेप:। – जले पर नमक छिड़कना।
15. विषकुम्भं पयोमुखम। – तन के उजले मन के काले।
16. जलबिन्दुनिपातेन क्रमश: पूर्यते घट:। – बूँद-बूँद घड़ा भरता है।
17. गत: कालो न आयाति। – गया वक्त हाथ नहीं आता।
18. पय: पानं भुजङ्गानां केवलं विषवर्धनम्। – साँपों को दूध पिलाना उनके विष को बढ़ाना है।
19. सर्वनाशे समुत्पन्ने अर्धं त्य​जति पण्डित:। – भागते चोर की लंगोटी सही।
20. यत्नं विना रत्नं न लभ्यते। – सेवा बिन मेवा नहीं।

करोणाव्याप्तिपञ्चकम्

करोणाव्याप्तिपञ्चकम्
*******************
(१)
हस्ते करोणा चरणे करोणा
मुखे करोणा नयने करोणा।
नासापुटे खेलति सा करोणा
स्पर्शात् करोणावरणं न कुर्यात्।।
(२)
ग्रामे करोणा नगरे करोणा
वीथ्यां करोणा मनुजे करोणा।
मार्गे करोणा विपणौ करोणा
स्पर्शात् करोणावरणं न कुर्यात्।।
(३)
कार्ये करोणा गमने करोणा
द्रव्ये करोणा वसने करोणा।
वाक्ये करोणा शयने करोणा
स्पर्शात् करोणावरणं न कुर्यात्।।
(४)
गोष्ठ्यां करोणा निचये करोणा
देवे करोणा भजने करोणा।
देवालये पाठगृहे करोना
स्पर्शात् करोणावरणं न कुर्यात्।।
(५)
बाले च वृद्धे सहसा करोणा 
वैद्यालये तीव्रतमा करोणा।
चिकित्सके तस्य जने करोणा
स्पर्शात् करोणावरणं न कुर्यात्।।

माघः

माघः संस्कृते प्रसिद्धेषु पञ्चसु महाकाव्येषु शिशुपालवधरूपकस्य रचयिता । शिशुपालवधमपहाय अन्यः कोऽपि माघस्य ग्रन्थः नोपलभ्यते ।
जन्मवृत्तान्तः  - शिशुपालवधस्य अन्ते पञ्चसु पद्येषु माघः किञ्चिन्निवेदयति । तदनुसारेण ज्ञायते माघस्य पितामहः सुप्रभदेवः य: किल वर्मलातनाम्नो राज्ञः मन्त्री बभूव । माघस्य पितुः नाम दत्तकः इति ।
देशकालादयः   -राजास्थानस्य वसन्तपुरप्रदेशे वर्मलातराजस्य कञ्चन शिलालेखः सम्प्राप्तः । अस्य लेखस्य समयः क्रि. श. ६२५ इति निश्चितः । अयमेव वर्मलातः यदि माघपितामहस्य आश्रयदातेति सम्भाव्यते तर्हि माघस्य समयः प्रायः क्रि. श. ६७५-७५० भवेदिति सम्भाव्यते । शिशुपालवधस्य द्वितीयसर्गस्थितः,
अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना ।
शब्दविद्येव नो भाति राजनीतिरपस्पशा ॥
इति श्लोकः काशिकावृत्तिं (क्रि. श. ६५०), जिनेन्द्रबुद्धिन्यासं च (क्रि. श. ७००) प्रकारान्तरेण निर्दिशन् माघस्य पूर्वोक्त्तं समयं सममर्थयतीव ।
माघस्यैतिह्यविषये स्वल्पमपि आभ्यन्तरप्रमाणमपि लभ्यते । शिशुपालवधस्य समाप्तौ कविवंशवर्णनप्रसङ्गोऽपि समुपस्थापितोऽस्ति । तदनुसारेण माघो सुप्रभदेवाख्यस्य पौत्रो दत्तकाख्यस्य पुत्रः आसीत् । यथोक्तं तत्र 
सर्वाधिकारी सुकृताधिकारः श्रीचर्मलातस्य बभूव राज्ञः ।
असक्तदृष्टिर्विरजाः सदैव देवोऽपरः सुप्रभदेवनामा ।।
••••••••••••••
तस्याभवद् दत्तक इत्युदात्तः क्षमी मृदुर्धर्मपरस्तनूजः ।।
•••••••••••••••••••
"तस्यात्मजः सुकविकीर्तिदुराशयाऽदः, काव्यं व्यधत्तं शिशुपालवधाभिधानम्।"
वर्मलातनामा नृपतिः वर्मनामा वर्मनाभः धर्मनामः धर्मलात इतिप्रभृति नामभिरपि परिचितः । वसन्तगढग्रामे तेन स्थापितमेकं शिलाशासनं समुपलब्धमस्ति । यथोक्तं तत्र -
द्विरशीत्यधिके काले षण्णां वर्षशतोत्तरे ।
जगन्मातुरिदं स्थानं स्थापितं गोष्ठिपुङ्गवैः।।
जयति जयलक्ष्म्यलक्षितवक्षःस्थलसंशयोदारः।
श्रीवर्मलातनृपतिः पतिरवनेरधिकबलवीर्यः॥ इति ।
यद्यपि कविवंशवर्णनपराणि पञ्च पद्यान्यपि मल्लिनाथादिभिः व्याख्यानान्येव तथापि तेषां मौलिकत्वं तु ससंशयमेव। यतो हि तद्ग्रंथनशैली ग्रन्थनिर्वाहितशैल्या भिन्नैव । सम्भवति पश्चाद्वर्तिना केनाऽपि तानि प्रक्षिप्तान्यपि स्युः । सत्यपि तथा स्वल्पमपि कविपरिचयप्रकाशं तु तेभ्यः प्राप्यत्येव प्रक्षेपकस्यापि आप्तत्वात् । श्रीवर्मलातो नृपः सम्भवतो वलभीं शासति स्म । तस्य च स्थितिकालः स्पष्टत: ६८२ मितवैक्रमाब्दमभितः शिलालेखे तथोल्लिखितत्वात् । तेन हि सुप्रभदेवस्याऽप्ययमेव कालः । तस्य हि सुतो दत्तकः सर्वाश्रयः । तस्य च कालस्तदन्तरवर्ती, सम्भवतः ६७०-७३० मितवैक्रमाब्दानभितः । तस्य पुत्रो माघ इति तस्य कालः ७००-७०० मितवैक्रमाब्दानभितोऽनुमितः समालोचकैः ।
अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना।
शब्दविद्येव नो भाति राजनीतिरपस्पशा ।।
उक्तं शिशुपालवधगतं पद्ममाधृत्य केचित्तु वृत्तिशब्देन काशिकावृत्तिं जयादित्यप्रणीतां न्यासशब्देन जितेन्द्रबुद्धेः विवरणपञ्जिकां च गृहीत्वा यथानिर्दिष्टं मल्लिनाथवल्लभदेवादिभिः व्याख्यातृभिः माघस्य समयो जितेन्द्रबुद्धेः पश्चाद्वर्तीत्यपि मन्यन्ते । किन्त्वेष भ्रम एव दृश्यते 'दिङ्नागानां पथि परिहरन्' इति कथनेन कालिदासदिङ्नागयोः समकालिकत्वकल्पनमिव । यतो हि बाणस्य समयस्तु सुनिश्चित एव । न कदापि काशिकावृत्तिकारेण बाणपूर्ववर्तिना भाव्यम् । काशिकावृत्युपरि हरदत्तस्य पदमञ्जरी टीका । तस्या एव व्याख्या जितेन्द्रबुद्धेर्न्यासापराभिधा। किन्तु बाणभट्टोऽपि न्यासं ग्रन्थं स्मरति 'कृतगुरुपदन्यासा लोक इव व्याकरणेऽपि' इति कथनेन । तेन हि जितेन्द्रबुद्धेः पूर्वमपि आसन्ननेके न्याससंज्ञिताः ग्रन्थाः । अष्टाध्याय्याः वृत्तिग्रन्थश्च काशिकापूर्वमप्यासीदेव यदुपरि वार्तिकानि प्रणीतानि कात्यायनादिभिः । वस्तुतस्तु अष्टाध्यायी सूत्राणामाद्यो वृत्तिकारः पाणिनिरेव तदनु च व्याडिरिति सर्वसम्मतमेव । अतो नेदं प्रमाणं माघकालनिर्णये । अपरञ्च जितेन्द्रबुद्धिः पदमञ्जरीमनुसरति । पदमञ्जरीकारी हरदत्तः स्वयमेव माघं स्मरतीति निरस्तैव जितेन्द्रबुद्धेः माघपूर्ववर्तिता।सामान्यतो बाह्यमाणैरपि माघस्य समयं निर्णेतुं शक्यते । बाणभट्टो माघं न स्मरतीति सामान्यतः इदमेव तस्य स्थितिकालस्य पूर्वसीमा । यद्यपि स भट्टिमपि न स्मरति तथैव भारविमपि तथापि सामान्यरूपेणेदमुच्यते । भारविमनुजीवति माघ इति तथा रेखा कल्पिता । यशस्तिलकचम्पूकारः सोमदेवः (१०१६ वै०), ततः पूर्ववर्ती ध्वन्यालोककृदानन्दवर्धनः (९०७ वै०) कविराजमार्गस्य प्रणेता नृपतुङ्गदेवः (८७१ वै०) च माघं स्मरन्ति । तुङ्गदेवस्तु तं कालिदाससमकक्षत्वेन स्तौति । अतस्ततोऽपि न्यूनतममपि शताब्दीपूर्वमेव माघस्य स्थितिकालेन भाव्यमेव । अनेनाऽपि माघस्य स्थितिकालः ७७० वैक्रमाब्दमभितः आपतति सामान्यतः । स च दीर्घजीवी आसीत् । तेन तस्य स्थितिकालः ७००-७८० मितवैक्रमाब्दान्तरालेऽनुमितः विद्वद्भिः। प्रचलितकिंवदन्त्यनुसारेण, यथा भोजप्रबन्धे प्रबन्धचिन्तामणौ च लिखितं, माघो नाम कश्चिद्विचक्षणो भोजस्य सभायामासीत् । कोऽसौ माघः कश्चासौ भोज इति तु नाधुनाऽपि स्पष्टम् ।सामान्यतो राजा भोजशब्देनाऽप्युच्यते । महाभारते भोजशब्दो राजबोधकत्वेन प्रयुक्तो दृश्यते । नाम्नापि भोजाख्यास्त्रयो राजानोऽभूवन्निति वदन्त्येतिहासिकाः, येषु टोडर-महाशय अन्यतमः। धारानगरीशः परमारवंशीयो भोजस्तु १०६०-१११० मितवैक्रमाब्दान्तराले स्थितिमानिति सप्रमाणं प्राप्यते। माघस्य तत्समकालिकत्वे मते सति तस्य हि 'रम्या इति प्राप्तवतीः पताकाः'[३] 'त्रासाकुलः परिपतन्'[४] इति पद्यद्वयमुद्धरत आनन्दवर्धनस्य कः स्थितिकालः स्याद् यं हि कुन्तको, राजशेखरः, महिमभट्टश्च, स्वयमेव भोजोऽपि स्मरति अभिनवगुप्तस्तु व्याख्यात्यपि । तेन नैव माघो धारानगरीशभोजसमकालिकः । इदं सम्भवति यत्कश्चिद्भोजाख्यो नृपः यमैतिहासिका द्वितीयभोजमिति परिचिन्वन्ति, चितौर (चित्रवर) नगरे ७०७ मितवैक्रमाब्दात् ७३२ मितवैक्रमाब्दपर्यन्तं शासनरतः आसीत् । तेनास्य माघाश्रयदातृत्वं सिध्यत्यपि। अपरञ्च माघस्य श्रीमालवास्तव्यत्वम् - 'इति श्रीभिन्नमालवास्तव्यदत्तकसूनोर्महावैयाकरणस्य माघस्य कृतौ शिशुपालवधे महाकाव्ये' इति शिशुपालवधपुष्पिकावाक्यतो ज्ञायते । श्रीमालवास्तव्यश्चित्तोरनगरीमाश्रितवानिति न किमप्याश्चर्यम्।
कृतयः - शिशुपालवधमपहाय अन्यः कोऽपि माघस्य ग्रन्थः नोपलभ्यते । शिशुपालवधस्य कथावस्तु महाभारतात् संगृहीतम् । यदुनन्दनोऽत्र नेता, वीरस्तु प्रधानरसः । इन्द्रेण प्रेषितो नारदः द्वारकायां श्रीकृष्णमुपगम्य शिशुपालवधाय प्रोत्साहयति । तस्मिन्नेव समये श्रीकृष्णः युधिष्ठिरेण राजसूययागाय आहूतो भवति । कार्यद्वयाकुलो वासुदेवः उद्धवेन बलरामेण च समं संमन्त्र्य राजसूयं गच्छति तत्र शिशुपालं निहन्ति च ।

शिशुपालवधम्
माघस्य सम्प्रत्येकैव कृतिर्लभ्यते शिशुपालवधं नाम महाकाव्यम् । तत्र हि महाभारताश्रिता शिशुपालवधात्मिका कथा वर्णिताऽस्ति । नारदाद्युधिष्ठिरयज्ञवृत्तान्तं श्रुत्वा कृष्णः ससैन्यस्तत्र गच्छति । तत्र च कुष्णस्याग्रपूजाविरोधिनमुद्धतं शिशुपालं स निहन्ति । एतावतीमेव कथां कविः स्वप्रतिभाबलाद् विस्तृतेषु विंशतिसर्गेषु वर्णयति । संक्षिप्तकथाश्रयेण काव्यप्रवर्तनं संस्कृतपण्डितानां महानामोदविषयः । कालिदासो हि सुविस्तृतां कथामादाय काव्यरत्नं प्रणीतवान् । एवमेव कुमारदासोऽपि । भारविस्तु तदपेक्षया स्वल्पतरां कथामाश्रित्य महाकाव्यं विरचितवान् । माघस्ततोऽपि स्वल्पतरां कथां गृहीतवान् । रत्नाकरस्तु स्वल्पतमामेव कथामाधृत्य पञ्चाशत्सर्गात्मकं महाकाव्यं प्रणीतवान् । शिशुपालवधस्य सन्त्यनेकाष्टीका विशत्यधिंकाः यासु मल्लिनाथस्य सर्वङ्कषा प्रसिद्धाः प्राचीनासु नेवासु च शेषराजस्य चन्द्रकला ।तत्र हि शिशुपालवधस्य प्रथमे सर्गे नारदागमनं श्रीकृष्णेन तदादरः नारदेन शिशुपालवधाय प्रोत्साहनं शक्रसन्देशकथनम् । द्वितीये कृष्णबलरामोद्धवानां गुप्तमन्त्रणा उद्धवपरामर्शानुसारेण युधिष्ठिरस्य यज्ञं गमनाय निर्णयः, तृतीये श्रीकृष्णस्य प्रस्थानं द्वारकासेनासमुद्रादीनां वर्णनम्, चतुर्थे रैवतकपर्वतवर्णनम्, पञ्चमे तत्र सैन्यशिविरवर्णनं, षष्ठे षट्ऋतुवर्णनं, सप्तमे वनविहारवर्णनं, अष्टमे जलक्रीडावर्णनं, नवमे सायं चन्द्रोदय-शृंगारविधानादिवर्णनं, दशमे दानगोष्ठीरात्रिक्रीडावर्णनम्, एकादशे प्रभातवर्णनं, द्वादशे प्रस्थानवर्णनं यमुनावर्णनञ्च, त्रयोदशे कष्णपाण्डवसमागमः, श्रीकृष्णस्य नगरप्रवेशवर्णनं च, चतुर्दशे राजसूययज्ञक्रमः श्रीकृष्णस्याग्रपूजा, भीष्मेण तस्य स्तवनञ्च, पञ्चदशे शिशुपालक्रोधो युद्धाय सन्नद्धता च राज्ञां, षोडशे दूतसंवादः सप्तदशे युद्धप्रयाणं, अष्टादशे युद्धवर्णनं, एकोनविंशे युद्धवर्णनं चित्रालंकारयोजना च, विंशे शिशुपालवधः, इति प्रतिसर्गकथासारः ।
माघस्य शैली
माघे सन्ति त्रयो गुणाः
सुविदितमेवैतत् संस्कृतसाहित्ये महाकाविः माघः खल्वत्यन्तं भासुरं रत्नम्। अस्य हि नवाभिनवपदविन्यासविलासो नितराम् उदात्तशैलीम् अनुशेते। अलङ्कारगीभिः गुम्फितशैली माघस्य अत्यन्तभासुरा वर्तते । तेनैव कारणेन एतस्य महाकाव्यं विद्वद्भिः बृहत्त्रय्यां पर्यगण्यत। असाधारणम् अलङ्कारपूर्णं वर्णनं भावगाम्भीर्यं च पदे पदे कवेरस्य काव्यकलायाः उत्कर्षम् उद्‌घोषयति । सर्गे सर्गे अनेकानि पद्यानि वर्णनसौन्दर्येण, भावसौष्ठवेन विचारगाम्भीर्येण चाऽद्वितीयं भावम् उपस्थापयन्ति । चरित्रचित्रण-धुरन्धराणां प्रकृतिपर्यवेक्षणविचक्षणानां गणना-प्रसङ्गे तु माघस्य तुलां नाऽधिरोहति कोऽपि । कविनाऽनेन कृतं वर्णनं सर्वेषाम् एव पाठकानां ह्रदयानि आवर्जयति। वैशिष्टयं च किञ्चित् प्रतिपाद्यते। तद्यथा-
उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम्।
वहति गिरिरयं विलम्बि-घण्टाद्वयपरिवारित-वारणेन्द्रलीलाम्।
अस्मिन् पद्ये कविः रैवतकं पर्वतम् उभयतः सूर्येन्दु-रूपविलम्बिघण्टा-द्वय-परिवारित-वारणेन्द्रलीलाम् आवहन्तम् इवाऽऽकलयति । अत एव माघो ` घण्टामाघः' इति नाम्ना प्रसिद्धिम् उपगतः।
माघविरचितं शिशुपालवधं नाम महाकव्यं विंशतिसर्गग्रथितम् । १६५० पद्यैः परिगुम्फितमिदं महाकव्यं संस्कृतसाहित्ये भृशं विराजते । काव्येऽस्मिन् कवेः प्रौढिमा प्रतिपदं दृश्यते। तद्यथा-
उदयशिखर-श्रृङ्ग-प्राङ्गणेष्वेव रिंगन्
सकमलमुखहासं वीक्षितः पद्मिनीभिः।
विनतमृदुकराग्रः शब्दयन्त्या वयोभिः
परिपतति दिवोऽङ्के हेलया वालसूर्यः॥
कविरयं समयानुरूपं विषयानुरूपं शब्दसमूहम् एवाङ्गीकरोति । साधारणप्रश्नोत्तरकाले साधारणी, वाद-विवाद-समये च तदनुरूपां शैलीम् एव । परं वादविवाद-समयेऽपि कविः नाऽतिजटिलां नाऽपि चाऽतिकठिनां भाषाम् अङ्गीकरोति । तथाहि-
अनृतां गिरं न गदसीति जगति पटहैर्विघुष्यसे।
निन्द्यमथ च हरिमर्चयतः तव कर्मणैव विकत्यसत्यता॥
माघस्य रचनायां सारल्यम्, अलङ्काराणां नूतनत्वं श्लेषस्यौपयिकत्वं चित्रालङ्कारणां वैचित्र्यं सर्वत्रैव समुपलभ्यते। प्रतिस्थलं वर्णितान् अप्य् उपमाऽतिशयोक्ति-रूपकोत्प्रेक्षा-दृष्टान्ताऽऽदीनाम् अलङ्काराणां समुचितः सन्निवेशः काम् अप्य् अद्वितीयां छटां विदधाति। तथाहि--
अपशंकमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपैतुमात्मजाः।
अनुरोदितीव करुणेन पत्रिणां विरुतेन वत्सलतयैव निम्नगाः॥
श्लोकेस्मिन् उत्प्रेक्षा कस्याऽपि प्रेक्षावतः चेतसि अनिर्वचनीयताम् उपस्थापयति । पदलालित्यम् अर्थ-गौरवम् च कवेः काव्ये प्रतिपदं दरीदृश्यते ।
अनुप्रासप्रयोगे तु असौ सर्वान् अतिक्रामति । अनेनानुप्रासप्रयोग-सिद्धहस्तेन जाज्वल्यमानम् उदाहरणं संस्थापितम् अधोलिखिते पद्ये पदलालित्यम् अपि रमणीयम् उपपन्नम्-
मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया।
मधुकराङ्‌गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे॥
कविकुलललामभूतस्य माघस्य श्रृंगारिक-पदावलिरपि नितरां मुग्धीकरोति विदग्धान् । यथा च-
यां यां प्रियो प्रैक्षत कातराक्षीं, सा सा ह्रिया नम्रमुखी बभूव
निःशङ्कमन्याः सममाहितेर्ष्या, स्तत्रान्तरे जघ्नुरमुं कटाक्षैः॥
माघप्रतीतकाव्येषु विषय-वैविध्यनिवेशेनाऽनुमीयते यदसौ कविरासीत् अनेकशास्त्रनिपुणः सङ्गीत-नाट्य-व्याकरणाऽलङ्कार-राजनीति-विशेषज्ञश्च । अत एव भारतीयैः आलोचकैः माघे प्रभूतप्रशंसायाः वृष्टिः कृताऽवलोक्यते । माघकाव्ये कालिदासस्योपमा, भारवेरर्थगौरवं, दण्डिनः पदलालित्यम् इत्येतेषां त्रयाणामपि गुणानाम् अभूतपूर्वः सन्निवेशः समजनि इत्याचक्षते । तथा हि-
उपमा कालिदासस्य भारवेरर्खगौरवम्।
दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥ इति।
वस्तुतत्त्वेषु विमृश्यामानेषु विदितं भवति यत् प्रशस्तिरियम् काव्यकलां सर्वोत्कृष्टां ज्ञापयति । उपमा-विषयेऽपि कविकुल-चूडामणिः माघः इतरानखिलान् कवीश्वरान् अतिवर्तते इत्युक्त्तिः सुतराम् सत्यम् भवति । न चेयं लोकख्यातिराख्यातिमात्रम् । माघकाव्ये न केवलम् उपमाभूयिष्ठत्वम्, अपितूपमा-सौष्ठवम् । यद्यपि बहुभिः अन्यैः कवीश्वरैः अपि उपमा समुपलालिता, तथा च सा रामणीयकत्वेन परिपूर्णत्वेन याथातथ्येन प्रकृत्युनुरूप-निरूपकत्वेन च मघस्योपमायाः तुलां नाधिरोहति । माघस्योपमा यथा निमज्जयन्ती रसिकान् आनन्दसागरे, पाययन्ती लोकोत्तररसधारां, चमत्कुर्वती चेतांसि विपश्चिताम्, उपदिशन्ती चाऽनन्यसदृशान् उपदेशान्, आविष्कुर्वती वा विविधभावावेशान् उपजयन्ती यादृशं प्रभावं सह्रदयह्रदयपटलेषु प्रतिभाति, न तथाऽन्येषाम् ।
अत एव साहित्यधुरन्धरेण रादशेखरेणेत्थम् अभाणि-
कृत्स्नप्रबोधकृद्वाजी भारवेरिव भारवेः।
माघेनेव च माघेन कम्पः कस्य न जायते॥
माघः एकीभूतकालिदासभारविभट्टय इति समालोचकाः कथयन्ति। काव्ये कालिदासस्य काव्यसौन्दर्यं भारवेरर्थगौरवं भट्टेश्च व्याकरणपाटवञ्च दश्यते । तस्मिन् काव्यनैपुण्यव्याकरणपाटवयोः सुन्दरसमन्वय दृश्यते । तत्र हि कलापक्षस्य प्राचुर्येण सहैव भावपक्षस्यापि समादरो लभ्यते अत्र वीरो मुख्यरसः शृगारश्चाङ्गम् । कोमलपदावल्या सहैव शब्दजालोऽपि तत्र विलसति । अस्य हि सुसंघटिता भाषा भावाभिव्यक्तये नितान्तं सक्षमा दृश्यते । अत्र त्रयाणमेव काव्यगुणानां समन्वितः प्रयोगो दृश्यते । अस्य चित्रालङ्कारजालो भारविं भट्टिञ्चातिशेते । तेनैवोक्तं - 'माघे माघे गतं वयः' इति। यथा 'सञ्चारिणी दीपशिखेव रात्रौ' इति कथनात्कालिदासो दीपशिखासंज्ञां लेभे यथा वा 'आदन्ते कनकमयातपत्रलक्ष्मीम्' इति कथनाद्भारविरातपत्रसंज्ञां लेभे तथैव माघोऽपि निम्नांकितपद्येन घण्टासंज्ञामलभत -
उदयति विततोऽर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् ।
वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम्।।[५] इति।
कथ्यते 'नवसर्गे गते माघे नवशब्दो न विद्यते'। तथा कथनेऽयमेव हेतुर्यत्तत्र नवनवानां शब्दानां बाहुल्येन प्रयोगकृतोऽस्ति । नवतामेव माघो रमणीयताया स्वरूपं मन्यते । कथयति सः - 'क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः'।[६]
समालोचकाः कथयन्ति यन्माघस्य भाषायां पाण्डित्येन सह परिष्कारः, कोमलतया सह माधुर्यं, ओजसा सह सशक्तता, अर्थगाम्भीर्येण सह स्फूतिरपि द्रष्टुं शक्यते । यथा हि -
मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे।।[७]
तस्य हि सूक्ष्मेक्षिकाऽपि सर्वानेवातिशेते । स यदेव कथयति तस्य मूलमेव स्पृशति । यथा हि -
प्रहरकमपनीय स्वं निदिद्रासतोच्चैः, प्रतिपदमुपहुतः केनचिज्जागृहीति।
मुहुरविशदवर्णादददपि गिरमन्तर्बुध्यते नो मनुष्यः ।।
कुमुदवनमपश्रि श्रीमदम्भोजदण्डं त्यजति मुदमुलूकः प्रीतिमश्चक्रवाकः ।
उदयमहिमरश्मिर्याति शीताशुरस्तं, हतविधिलसितानां हा विचित्रो विपाकः।
माघेन काव्ये बहूनिच्छन्दांसि प्रयुक्तानि । तेषु हि वंशस्थवृत्तमतीव प्रियम्। माघाय हि अलङ्कृतकाव्यपरम्परा भारवितः प्राप्ताऽऽसीद्या सा साधु निरवाहयत् । तस्य प्रत्येकं वर्णनमलङ्कृतभाषायामेव लभ्यते । सः यद्यपि इतिवृत्तनिर्वाहे स्खलति, यत्र कुत्र तु प्राकरणिकवर्णनस्य मूलकथया सह नास्ति कोऽपि सम्बन्धस्तथापि वर्णनाचातुर्या स निष्प्रयोजनानपि विषयान् प्रयोजनसम्बद्धामिव करोति । वस्तुतञ्चतुर्थसर्गादारभ्य त्रयोदशसर्गपर्यन्तो विषयो मूलकथया सह नितान्तमेवासम्बद्धः । इतिवृत्तेन सह तु प्रथम-द्वितीय-चतुर्दश-विंशतिसर्गा एव सम्बद्धाः । वीररसाप्लाविते इतिवृत्ते गौणेन शृङ्गारवर्णनेन काव्यस्य कलेवरवृद्धिरेव भवति नान्यत् । वस्तुतस्तु अङ्गीभूतेन शृङ्गारेण अङ्गभूतो वीर उद्वेजित इव दृश्यते तत्र। यदा कदा तस्य प्रकृतिचित्रणमपि कृत्त्रिभमलङ्कारभाराक्षिप्तमिव दृश्यते। तस्य प्रकृतिचित्रणमुद्दीपरूपेणैव कृतं दृश्यते। किन्तु ग्राम्यजीवनचित्रणं तु नितान्तं स्वाभाविकमपि दृश्यते। तस्य वर्णनसौन्दर्यं चमत्कारविधानञ्च चरमोत्कर्षतां स्पृशति । नारदावतरणं स इत्थं वर्णयति -
चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम्।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ।।
तथैव -
गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वज्वलनं हविभुजः।
पतत्यधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः॥
भारविणा सह साम्यम्
तिपयपक्षेषु माघो भारविना सह साम्यं विभर्ति कतिपयपक्षे वैषम्यमपि । उभेऽपि काव्ये 'श्रियाः' इति पदेनारभेते। उभयोरेवारम्भे राजनीतिवर्णिताऽस्ति । उभयोरेव चतुर्थसर्गो नानावृत्तमयः । उभेऽपि शब्दचित्रकाव्यं प्राथम्येन प्रस्तुतः प्रथमे १५ सर्गे द्वितीये १९ तमे सर्गे। किन्तु प्रथमं शिवमहिमवर्णनपरं द्वितीयं तु कृष्णकथासम्बद्धम् । प्रथमे प्रतिसर्गान्ते लक्ष्मीशब्दस्य प्रयोगो द्वितीये श्रीशब्दस्य । प्रथमे हिमालयवर्णनाय यमकं प्रयुनक्ति द्वितीयं रैवतकवर्णनाय । प्रथमे व्यासस्य भूमिकां द्वितीये नारदः पूरयति । इदमपि विश्वस्यते यद भावाभिव्यक्तौ पाण्डित्यप्रदर्शने च माघो भारविमतिशेते तथैव छन्दोयोजनायां चित्रालङ्कारप्रयोगे च । आद्यो हि विवेचकोऽपरो समीक्षकः । प्रथमे ओजोभूयस्त्वं द्वितीये तु माधुर्यप्राचुर्यम् । आद्यः निपुणः कलाकारो द्वितीयस्तु दक्षचित्रकारः। प्रथमे या सुकुमारता सा द्वितीये प्रौढतामावहति । आद्ये काव्यवनिता आसन्नयौवना द्वितीये तु प्राप्तयौवना दृश्यत इति ।

प्रशंसा
काव्यशास्त्रमर्मज्ञः माघः बहुविद्यापारङ्गतः वैदिकधर्मतत्त्वज्ञश्चासीदिति शिशुपालवधपरिशीलनेन निश्चेतुं शक्यते ।
"उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥"
"तावभ्दा भारवेर्भाति यावन्माघस्य नोदयः ।"
"नवसर्गे गते माघे नवशब्दो न विद्यते"
इत्यादयः माघकवेः प्रशंसापराः उक्तयः विराजन्ते ।
शास्त्री  रेखा सिंह जयशूर

महाकवि भारवि

महाकवि भारवि
--------------------------

भारविः कौशिकगोत्रोत्पत्रस्य नारायणस्वामिनः पुत्रः । भारवेः पूर्वजाः पूर्वम् उत्तरपश्चिमभारतान्तर्गतम् आनन्दपुरं नाम नगरमध्यवात्सुः परतश्च ते नासिकनामकं दक्षिणभारतनग्रमायाताः । एकदा स्वसमसामयिकेन राजकुमारेण विष्णुवर्धनेन समं मृगयायां घोरं काननमुपेतो भारविः मांसं सिषेवे, यत्पापानोदनाय स तीर्थानि बभ्राम । तदीयं काव्यं श्रुत्वा काञ्चीनृपः सिंहविष्णुस्तमात्मराजधानीमानाययत् । सिंहविष्णुतनयेन राजकुमारमहेन्द्रविक्रमेण स तत्र सानन्दमुवास । तस्य पुत्रो मनोरथनामाऽऽसीत् । तस्य प्रपौत्रः दण्डी बभूव । इयं कथाऽवन्तिसुन्दरीकथायां लिखिता । भारवेरेव नामान्तरं दामोदर इत्यथवा दामोदरभारवी भिन्नौ पुरुषावितिसन्देहो दुरपासः ।
भारवेः जन्मनाम दामोदरः । एतस्य पिता नारायणस्वामी । दामोदरः चालुक्यराजस्य विष्णुवर्धनस्य मित्रम् आसीत् । एषः गङ्गराजस्य दुर्विनीतस्य आस्थाने, पल्लवराजस्य सिंहविष्णो आस्थाने च कञ्चित् कालम् आसीत् इत्यपि ज्ञायते । क्रि श षष्ठे शतके भारविः आसीत् । 'किरातार्जुनीयं' भारवेः सुविख्यातं काव्यम् । महाभारते विद्यामानम् एव कथावस्तु स्वीकृत्य भारविः एतत् महाकाव्यं रचितवान् अस्ति ।

भारविः शैव आसीत् । भारविरिति नाम ऐहोळे शिलालेखे निम्नलिखितरुपेण प्राप्यते –

येनायोजि न वेश्म स्थिरमर्थविधौ विवेकिना जिनवेश्म ।
स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः ॥
अयं पुलकेशिनो द्वितीयस्य ६३४ ई. सामयिकः शिलालेखः, अतो भारविस्तत्पूर्वतनः सम्भवति । किञ्च काशिकावृत्तौ भारवे काव्यमुदाहृतं दृश्यते । अपि च स्वहर्षचरिते बाणेन भारविनामास्मरणात् बाणसमयपर्यन्तं भारवेः प्रसिध्दिरजायतेति तर्कयितुं शक्यते । अतः भारवेः समयः षष्ठेशवीयशतकं मन्तुं युज्यते । भारवेः किरातार्जुनीयम् शिवार्जुनयुध्दमवलम्ब्य निर्मितं भारवेरेकमेव किरातार्जुनीयाभिधं काव्यं प्राप्यते । अष्टादशसर्गनिबध्देऽत्र महाकाव्ये महाभारताधारकं सुन्दरमुपाख्यानं चित्रितम् । द्यूते पराजितो युधिष्ठिरो भ्रातृभिः पत्न्या च सह द्वैतवने वसति स्म । स दुर्योधनस्य शासनपध्दतिं ज्ञातमेकं वनेचरं गुप्तचररुपेण प्रेषितवान् । सर्वं ज्ञात्वा प्रतिनिवृत्तो वनेचरो दुर्योधनस्य नीतिपूर्णं शासनपध्दतिं युधिष्ठिराय निवेदयामस । भीमद्रौपद्यौ युधिष्टिरं बहूत्तेजयामासतुः परं प्रतिज्ञामुल्लङ्घ्य युधिष्ठरो युध्दार्थं न प्रावर्त्तत । अत्रान्तरे वेदव्यासस्तत्रायातः । स पाशुपतास्त्रमासादयितुमर्जुनं तपस्यार्थमिन्द्रकीलं नाम पर्वतं प्रेषयामास । तपस्यतोऽर्जुनस्य ब्रतभङ्गाय देवबाला आगत्य विफलप्रयासा अभवत् । इन्द्रः स्वयं तदाश्रममागत्य तं प्रोत्साहयामास । अर्जुनस्य तपोबलं परीक्षितुं शिवः किरातवेषमादायागतः । मायावी शुकरोऽर्जुनस्याश्रमपार्श्वेऽदृश्यत । अर्जुनकिरातौ सहैव तत्र शूकरे बाणं प्रचिक्षिपतुः । इदमेव युध्दकारणमजायत । युदध्यमानयोः किरातार्जुनयोर्गाण्डीवी भुजाभ्यामाजध्ने कनकशिलानिभं विषमविलोचनस्य वक्षः । अर्जुनपराक्रमदर्शनतुष्टः शिवोऽर्जुनाय पाशुतास्त्रं ददौ ।
संस्कृतमहाकाव्यपरम्परायां भारवेस्तृतीयं स्थानं कालक्रमदृष्ट्या । स हि संस्कृतकाव्यजगति अलङ्कृतशैल्याः प्रथम उन्नायकः पण्डितयुगस्य प्रवर्तकश्च । तस्य किरातार्जुनीयं महाकाव्यं प्रसिद्धं यद्धि काव्यसर्वस्वभूतयोर्भावकक्षापक्षयोः समन्वयापेक्षयापि कवेः पाण्डित्यप्रदर्शनमेव प्राधान्येनावलम्बते।

महापण्डितस्यास्यैतिह्यविषये स्पष्टतया न किमपि ज्ञायते। केचनामुं दाक्षिणात्यं मन्यन्ते कतिपये तूत्तरखण्डभवमपि । स्वविषये कविमनमेवालम्बते पण्डितेतरवत् । एतावदेव निश्चीयते यत्कविरसौ माघपूर्ववर्ती कालिदासपरवर्ती च। सम्प्राप्ताभिलेखेषु पुलकेशिनो द्वितीयस्य चालुक्यवंश्यस्य शासनकाले रविकीर्तिना समुट्टङ्किते शिलाभिलेखे कविरयं कालिदासेन सह स्मृतो दृश्यते । यथा - १७.....................

येनायोजि नवेश्यस्थिरमर्त्यविधौ विवेकिना जिनवेश्म।

स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः ॥३७॥ इति ।

त्रिंशत्सु त्रिसहस्रेषु भारतादाहवादितः, सप्ताब्दशतयुक्तेषुः गतेष्वब्देषु पञ्चसु।।३३॥

पञ्चाशत्सु कलौ काले षट्सु पञ्चशतासु च, समासु समतीतासु शकानामपि भूभुजाम् ।।३४॥

महाभारतयुद्धकालतः ३०३० वर्षानन्तरं, कलेः ३०३०+७०५= ३७३५ मितवर्षे शककालात् ५५६ वर्षेषु व्यतीतेषु चेत्यस्याशयः । कलेः ६३६ वर्षेषु व्यतीतेषु युधिष्ठिरो जनिं लेभे। महाभारतयुद्धे सोऽशीतिवर्षवयस्क आसीत् । तेन हि कलेः ७२६ वर्षेषु व्यतीतेषु महाभारतयुद्धं प्रवर्तितमासीत् । तथैव नृपविक्रमार्कात् १३५ वर्षेषु यातेषु शकयुगः प्रवर्तितो मन्यते । तेन शकाब्दक्रिष्टाब्दयोरपि ७८ वर्षाणामन्तरं विद्यते । अतोऽस्य कालः ६७१ मितवैक्रमाब्दमभितो दृश्यते । तदा कालिदाससमकक्षमेव ख्यातिकीर्तिना कविना न्यूनमपि ततः शताब्दीपूर्ववर्तिना भाव्यम्। अपरञ्च विक्रमानन्तरं ७०७ मितवर्षाण्यभितः प्रणीतायामष्टाध्याय्याः काशिकावृत्तौ 'संशय्य कर्णादिषु तिष्ठते यः' इति भारवीयं पद्यमुदाहृतं दृश्यते । तेन न कथमपि भारविना तत्परवर्तिना भाव्यम् । अवन्तीसुन्दरीकथानुसारेण भारविः विष्णुवर्धनाऽऽख्यस्य कस्यचिन्नृपस्य सभापण्डितः आसीदिति ज्ञायते । यथोक्तं तत्र -

स मेधावी कविर्विद्वान् भारविः प्रभवो मिराम् ।

अनुरुध्याऽकरोन्मैत्रीं नरेन्द्रे विष्णुवर्धने ।। इति ।

केचिदत्र भारविशब्दं द्वितीयान्तमपि पठन्ति । तथैवाऽप्यस्तु । कोऽसौ विष्णुवर्धन इत्यपेक्षायां समालोचकास्तं पुलकेशिनोऽनुजं मन्यन्ते, येन ६७२ मितवैक्रमाब्दे श्रीहर्षः पराजितः । वस्तुतस्तु तर्कोऽयं तथ्येन सह नैव संवदते इति मन्यते। यतो हि -

११. अपरिमितविभूतिस्फीतसामन्तसेना, मुकुटमणिमयूखाक्रान्तपादारविन्दः ।

युधि पतितगजेन्द्रानीकबीत्सभूतो, भयविगलितहर्षो येन चाकारि हर्षः ॥२३॥

इति ऐहोलाभिलेखे स्मृतं दृश्यते । यदि हि पुलकेशिनोऽनुजस्य विष्णुवर्धनस्य सभासत्त्वेन भारविगृह्यते तदो तस्य रविकीर्तेरपि परकालिकत्वमारतेत् । तेन हि यदि भारवेविष्णुवर्धनाख्यस्य सभापण्डितत्वमेवं मन्येत तदाऽपि विष्णुवर्धनेन केनाऽप्यन्येन पुलकेशिपूर्ववर्तिना भाव्यम् । कतिपये तु बाणेन हर्षचरिते स्वपूर्ववर्तिकविप्रसङ्गे भारविनैव स्मृतोऽतस्तेन बाणपरवर्तिना भाव्यमित्यपि निर्दिशन्ति । सत्यमेतावन्मात्रमत्र यत्, बाणो भारविं नाम्ना नैव स्मरति । बाणो हर्षसभापण्डितः । तेन बाणरविकीर्त्योः समकालिकत्वं मन्यते। श्रीहर्षो हि सम्राट् ६६२ मितवैक्रमाब्दे साम्राज्येऽभिषिक्तः ७०५ मितवैक्रमाब्दे निर्वाणमाप्तवान् । बाणस्तु हर्षनिधनानन्तरमपि जीवित आसीत् । ६७१ मितवैक्रमाब्दे रविकीर्तिना तथाऽऽदृत भारविर्यदि बाणेन नैव स्मृतश्चेत्तद् बाणस्यैव दोषो वा तदुपेक्षा।

सम्भवति कान्यकुब्जेश्वरसभासद्भूतो बाणो भारविं नैव जानाति स्म तथा वा ते समुल्लेखनीयं नैव मन्यते स्म । भारवेः प्रसिद्धिरधिकरूपेण दाक्षिणात्यप्रदेश एवाऽऽसीत्तदानीम् । बाणो भारविं जानन्नपि केनाऽपि कारणेन नैव तत्रोल्लिखति इति मन्यते विद्वद्भिः। यतो हि ७०७ मितवैक्रमाब्दानभितः प्रणीतायां काशिकायां स्वकथनदार्ढ्याय 'संशय्य कर्णादिषु तिष्ठते यः' इति भारवेर्वचनं काश्मीरौ जयादित्यवामनौ परमप्रामाणिकत्वेनौद्धरतः तत्समकालीन एव प्रीतिकूटवासी बाणो नैव तज्ज्ञानातीति नैव विश्वासभूमिः । तत्र प्रादेशिकताऽपि कारणत्वेन सम्भवति। यतो हि न केवलं बाणोऽपि तु ध्वन्यालोक कृदपि भारविं नैवोद्धरति किन्तु बाणभट्ट बहुशः विद्वत्प्रसिद्धिरपि भारविं बाणपूर्ववर्तिनमेव समर्थयति । यथा -

मेण्ठे स्वद्विरदाधिरोहिणिवशं याते सुबन्धौ विधेः।

शान्ते हन्त च भारवौ विघटिते बाणे विषादस्पृशः।।[१]

दण्डिनः -

वंशवीर्यप्रतापादीन् वर्णयित्वा रिपोरपि।

तज्जयान्नायकोत्कर्षकथनं च धिनोति न।।[२]

इति कथनं भारवेः किरातार्जुनीये प्रतिभटकिरातवर्णनं लक्षयति इति समालोचकाः वदन्ति । सति तथा भारवेर्दण्डिनोऽपि पूर्ववर्तित्वं मन्यते।

एवमेव दुर्विनीताख्येन कोङ्कणनरेशस्याविनीतस्य पुत्रेण किरातार्जुनीयस्य पञ्चदशसर्गस्य टीका प्रणीताऽऽसीत् । स च राजा ६३७ मितवैक्रमाब्दमभितः स्थितिवानासीत् । अनेनापि भारवेस्तत्समये प्रसिद्धिः मन्यते। दण्डिप्रणीतत्वेन प्रसिद्धायामवन्तिसुन्दरीकथायां कथितम् -

"को हि नाम भगवतीं भवितव्यतामतिक्रम्य यथासमीहितेन,

साधयति यथा यतः कौशिककुमारं महाशैवं महाप्रभावम्।

गवां प्रभवं प्रदीप्तभासं भारविं रविमिवेन्दुरनुरूप्यदर्श

इव पुन्यकर्मणि विष्णुवर्धनाख्ये राजसूनौ प्रणयमन्वबध्नात्।'' इति ।
दण्डिनः कथनमिदमादाय पण्डिताः भारविनं दण्डिनः प्रपितामहं मन्यन्ते । उक्तं हिं यद् भारविरस्योपाधिः, जन्मनाम तु दामोदरः । असौ हि नारायणस्वामिनः पुत्रः । तस्य पुत्रो मनोरथाऽऽख्यः । तस्य च वीरदत्तादयश्चत्वारः सुताः । वीरदत्तस्य गौर्याख्यायां पत्न्यां जातो दण्डीति । एतेन भारवेः दामोदरस्य चैक्यं मन्यते। किन्तु नैतद्विश्वासभूमिः । न च दण्डिना तत्समर्थितं यत्र कुत्रापि न च किरातार्जुनीयव्याख्यातारश्च तत्स्मरन्ति । एतेन भारवेः दण्डिपूर्ववतत्वं तु सूच्यत एव।

एवञ्च सन्ति कतिपयानि वचनानि यैर्भारवेर्माघपूर्वर्वितत्वं संसूच्यते । यथा -

“तावद्भा भारवेर्भाति यावन्माघस्य नोदयः ।"

"उपमा कालिदासस्य भारवेरर्थगौरवम्।

दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः।।"

नैतावन्मात्रमपि तु बृहत्त्रय्यां किरातार्जुनीयस्यैव नाम प्रथमं गृह्यते तदनन्तरमेव शिशुपालवधनैषधीयचरितयोः । एभिरन्यान्यैश्च प्रमाणैरनुमीयते यद्भारविः न्यूनतमपि विक्रमानन्तरं षष्ठशतके स्थितिवानासीत् । तस्य स्थितिकालः कविजीविते ५८५ मितवैक्रमाब्दमभितोऽनुमितः । तस्य हि हंसराजानुसारेण ६०७ मितवैक्रमाब्दः स्थितिकालः । राजशेखरः उल्लिखति -

इह कालिदासभर्तृमेण्ठावत्रामररूपसूरभारवयः।

हरिचन्द्रचन्द्रगुप्तौ परीक्षिताविह विशालायाम्।।

इति। तस्य एतत् कथनमादृत्य भारविः विक्रमानन्तर ५००-५८० मितवर्षान्तरालवर्ती मन्यते, बाणात् न्यूनतममपि शताधिकवर्षपूर्ववतनम्।
न केवलं स्थितिकालस्यापि तु कवेरस्य देशविषयेऽपि तथैवान्धकारो विद्यते । राजशेखरानुसारेणासौ विशालायां परीक्षित आसीत् किन्तु नैतावताऽस्य देशो निर्णीतुं शक्यते । अधिकांशतः पण्डिता अमुं दाक्षिणात्यं मन्यन्ते किन्तु अस्य शरद्धिमालययोर्वर्णनं तु कविममुमौत्तरीयमेव सूचयति । अस्य हि सह्याद्रिप्रसंगमालोक्य केचित्तं महाराष्ट्रीयं मन्यन्तेऽन्ये तु तद्वाचोयुक्तिमेव मन्यन्ते।

भारवेः कृतित्वेन सम्प्रति किरातार्जुनीयमेव लभ्यते । एतदनुमीयते यदेतादृशस्य महाप्रतिभासम्पन्नस्य कवेः स्युरेव तदितरा अपि कृतयः कालेन कवलिताः।

किरातार्जुनीयं सर्वविधलक्षणोपेतं महाकाव्यम् । अत्र सन्ति अष्टादशसर्गाः सम्प्रति समुपलब्धाः । महाभारतस्य वनपर्वणि समुल्लिखतमर्जुनस्य पाशुपतास्त्रप्राप्तिवृत्तान्तमादाय निबद्धमिदं महाकाव्यं भावपक्षापेक्षया कलापेक्षमेव समधिकं पुष्णाति । द्यूते पराजितो युधिष्ठिरः सानुजः सभार्यः संविदानुसारेण वनवासनिमित्तं द्वैतवनं प्रविशति । तत्र स्थितः स दुर्योधनवृत्तान्तज्ञानाय कञ्चित्किरातं वर्णिरूपेण हस्तिनापुरं प्रेषयति । ज्ञातवृत्तश्च स द्वैतवनमागत्य सर्वं राज्ञे निवेदयति । युधिष्ठिरोऽपि तत्सर्वं भ्रातृभ्यः श्रावयति । विपक्षस्योत्कर्षमसहमाना पाञ्चाली पतिं धिक्कृतवती सती युद्धाय प्रेरयति । प्रियोक्तं द्रढयन् भीमोऽपि तं धैर्यमपहाय विक्रमाय प्रेरयति । युधिष्ठिरश्च तं सान्त्वयन्नेव व्यासेन निर्दिश्यते फाल्गुनाय दिव्यास्त्रलाभाय प्रेषयितुम् । तत्परामर्शानुसारमेवार्जुनस्तपसे हिमालयं प्रविशति यक्षेण सह । इन्द्रकीलपर्वतं गत्वा तपसि रतोऽर्जुनोः विघ्नेः प्रतिहन्यमानोऽपि स्वलक्ष्यान्नैव विचलति । तं परीक्षितुं त्र्यम्बकः किरातवेषेण तत्रागच्छति। उभावेव समकालं मायाविनं शंकरं प्रहरतः । तस्य निधनकारणमादाय तयोः विवादः समुत्तिष्ठते । युद्धे पराजितोऽप्यर्जुनः स्वप्रयासं नैव जहाति । तेन परमप्रीतः शङ्करस्तस्मै पाशुपतास्त्रं ददाति 
काव्यमिदमालक्ष्य मल्लिनाथः कथयति -

नेता मध्यमपाण्डवो भगवतो नारायणस्यांशजः।

तस्योत्कर्षकृते नु वर्ण्यचरितो दिव्यः किरातः पुनः।।

शृङ्गारादिरसोऽङ्गमत्र विजयी वीरः प्रधानो रसः।

शैलोद्यानि च वर्णितानि बहुशो दिव्यास्त्रलाभः फलम्।। इति।

चतुर्दिग्विकसितप्रतिभावानसौ कविः स्वल्पेनैव वस्तुमाध्यमेन समग्रमेव दर्शनमत्र, समाक्षिप्तवानासीत् । काव्येऽस्मिन् वनेचरमुखाद् दुर्योधतशासनवृत्तान्तवर्णनं, द्रौपदीवाक्यं, भीमगर्जनं, युधिष्ठिरस्य नीतियुक्तवचनं, अर्जुनप्रस्थानसमये द्रौपदीवाक्यं, शरद्वर्णनं, हिमालयवर्णनं, गन्धर्वाप्सरसां विलासवर्णनं, उद्यानजलक्रीडा, सायंचन्द्रोदय-सुरत-प्रभातादिवर्णनं, शिवार्जुनयोः युद्धवर्णनं, चोत्तरोत्तरं प्रातिस्विकोत्कर्षं जनयन्ति ।

कथ्यते हि भारविः भाषा-भाव-सौन्दर्य-रससिद्धिवर्णनाचातुरी-शास्त्रीय- पाण्डित्यादिविविधपक्षाणाम् एकाश्रय इति । तस्य हि भावानुसारी शब्दप्रयोगः, अर्थगौरवं, उदात्तकल्पना च तं कविषु श्रेष्ठं भावयन्ति । स हि सर्वानेव रसान् साधु साधयति विविधानि च्छन्दांसि च । तस्य भाषायां माधुर्यप्रौढतयोरपूर्वः समन्वयो दृश्यते । भावपक्षं न तथोपेक्षमाणोऽपि कविरसौ प्राधान्येन कलापक्षधरः । पञ्चदशसर्गे तस्य शब्दविलासो दर्शनीयः। तत्र कतिपये श्लोकाः एकाक्षरिणः सन्ति । यथा -

न नोननुन्नो नुन्नोनो नाना नानानना ननु ।

नुन्नोऽनुन्नो ननुन्नेनो नानेनानुन्ननुन्ननुत् ॥ इति ।

तथैव -

ससासिः सासुसूः सासो येया येयी ययाययः ।

ललौ लीलां ललोऽलोलः शशीशशिशुशी शशन् ॥[३]

द्व्यक्षरं यथा -

चारचञ्चुश्चिरारेची चञ्चच्चीररुचारुचः।

चचार रुचिरश्चारु चारैराचारचञ्चुरः।।[४]

चित्रकाव्यप्रणयनस्य त्वयं प्रवर्तक एव । अमुमेवानुवृत्य पश्चाद्वर्तिनो माघरत्नाकराद्याः कवयस्तथा प्रावर्तयन्त काव्यस्य चित्रत्वम् । सत्यपि शब्दविलासप्राचुर्ये भारवावकृत्रिमं नाम न किञ्चिदस्ति । स स्वयमेव कथयति -

अकृत्रिमप्रेमरसाभिरामं रामार्पितं दृष्टिविलोभि दृष्टम्।

मनःप्रसादाञ्जलिना निकामं जग्राह पाथेयमिवेन्द्रसूनुः।।[५]

तथैव-

स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम्।

रचिता पृथगर्थतां गिरां न च सामर्थ्यमपोहितं क्वचित्।।[६] इति ।

राजनीतौ प्रावीण्यं यथा -

व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः।

व्रजन्ति शत्रूनवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः।।[७]

प्रकर्षतन्त्रा हि रणे जयश्रीः

सखीनिव प्रीतियुजोऽनुजीविनः समानमानानु सुहृदश्च बन्धुभिः ।

स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम् ।।

गुरूपदिष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ।

अस्य हि व्याकरणज्ञानं तु पूर्ववर्तिनं कालिदासमूर्ध्ववर्तिनं माघमपि अतिवृत्य तिष्ठति । स हि अनद्यतने लङमेव प्रयुनक्ति न लुङम्, एवमेव पुरावृत्तवर्णने एव लिट् प्रयुक्तः । अद्यतनभूतार्थकलुङ् तु दशकृत्व एव प्रयुक्तो यदा माघेन २७२ कृत्व इति समालोचकाः । कालिदासस्तु सर्वत्र सामान्येन प्रयुनक्ति ।

छन्दःप्रयोगेऽप्यस्य महत्कौशलं दृश्यते । तस्य वंशस्थचारुत्वं प्रशंसन् क्षेमेन्द्रः कथयति

वृत्तच्छत्रस्य सा काऽपि वंशस्थस्य विचित्रता।

प्रतिभा भारवेर्येन सच्छायेनाधिकीकृता ।। इति।

अप्रसिद्धमपि उद्गताप्रभृतिवृत्तमसौ साधु प्रयुनक्ति । असौ हि एकस्मिन्नेव सर्गे षोडशविधानि छन्दांस्यपि प्रयुक्तवान् यथा पञ्चमे। अलङ्कृतशैल्युन्नायकस्याऽप्यस्य भाषा सरला हृद्या च विद्यते । घटे सागरमेव समावेशयन्नप्यसौ स्पष्टतां न मुञ्चति । कथितमेव -

प्रदेशवृत्यापि महान्तमर्थं प्रदर्शयन्ती रसमादधानाः।

सा भारवेः सत्पथदीपिकेव रम्या कृतिः कैरिह नोपजीव्या॥ इति ।

मल्लिनाथः कथयति -

नारिकेलफलसम्मितं वचो भारवेः सपदि तद्विभज्यते ।

स्वादयन्तु रसगर्भनिर्भरं सारमस्य रसिका यथेप्सितम्॥ इति।

सूक्तिप्रियः कविरसौ सूक्तिमुक्तानां मालामेव ग्रथ्नाति । तस्य हि काव्यस्याधिकांशभागः सूक्तिमयः । यथा 'हितं मनोहारि च दुर्लभं वचः', 'न वञ्चनीयाः प्रभवोऽनुजीविभिः', 'प्रकर्षतन्त्रा हिरणे जयश्रीः', 'अविवेकः परमापदां पदम्' इत्यादि ।

अर्थगौरवं तु तस्य वैशिष्ट्येषु प्रकृष्टमेव । किन्त्वेतेन नैवेदमवधेयं यदस्य काव्ये सर्वत्रागम्यता एवास्ति । अर्थगौरवस्य अत्रायमेवाशयो यत्स सुदीर्घमपि पन्थानं स्वल्पेनैव प्रयासेन पारयति । यथा हि -

जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते ।

गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः ।। इति ।

साधूक्तं समालोचकैः यद्भारवेः काव्यं कालिदासीयेन सह साम्यं नैवाप्यधिगच्छेत्तथापि तत्र ललितपदावल्या अर्थगाम्भीर्यस्य च मञ्जुलसमन्वयः काञ्चनमणिसंयोगमनुहरति । कटुसत्यवादी कविरसौ द्रौपदी मुखेन कथयति -

'प्रत्यागतं त्वास्मि कृतार्थमेव स्तनोपपीडं परिरब्धुकामा।' इति ।

वस्तुतस्तु अकृतार्थं प्रत्यागतमपि न कोऽपि समनोयोगं गृह्णाति । तथा कथनेनासौ 'सर्वे नन्दन्ति यशसाऽऽगतेन समासाहेन योधमुख्येन वीरः' इति श्रुतिवाक्यमनुहरति । तथैव -

'विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सन् जुहुधीह पावकम्' । धनुभृता तु विक्रमितव्यमेव वस्तुतः । यथा हि 'सञ्चारिणी दीपशिखेव रात्रौ' इति कथनेन कालिदासो दीपशिखाविशेषणमुपार्जयद्यथा वा माघो घण्टामाघ इति तथैव भारविरपि आतपत्रभारविरित्युच्यते पद्येनानेन -

उत्फुल्लस्थलनलिनीवनादमुष्माद्भूतः सरसिजसम्भवः परागः ।

वात्याभिर्वियति विवर्तितः समन्तादाधत्ते कनकमयातपत्रलक्ष्मीम्॥[८]

भारविः कर्मणि विश्वसिति न तु भाग्ये । स द्रौपदीमुखेनास्य सुन्दरमुदाहरणं प्रस्तौति । यथा -

करोति यः सर्वजनीतिरिक्तां सम्भावनामर्थवती क्रियाभिः।

संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति सङ्ख्या ।। इति ।

सः यत्र प्रविशति तत्र तेनैव रूपेण मिलति । इदमेव भारवेः साफल्यस्य रहस्यम् । स हि ग्राम्यजीवनर्णने ग्रामीण एव भवति राजनीतौ तु अमात्य एव । गोपालमधिकृत्य स कथयति -

गतान् पशूनां सहजन्मबन्धुतां गृहाश्रयं प्रेम वनेषु बिभ्रतः ।

ददर्श गोपानुपधेनु पाण्डवः कृतानुकारानिव गोभिरार्जवे ।। इति ।

वस्तृतो ग्रामकामो गोपालो वनकामश्च नापितो व्यर्थ एव। तस्येदं कथनं वस्तुतो यथार्थं तस्य काव्ये -

भवन्ति ते सभ्यतमा विपश्चितं मनोगतं वाचि निवेशयन्ति ये ।

नयन्ति तैष्वप्युपपन्ननैपुणा गभीरमर्थं कतिचित्प्रकाशताम् ।।[९]

विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्यपि द्विषाम् ।

सत्स्वपि विविधेषु गुणेषु भारविर्यदा कदा स्वीयमुत्कर्षमपि विस्मृत्य तथा करोति येन तस्य कृतेः काव्यत्वमपि हीयते । अलङ्कारभारेण यत्र कुत्र चित्रत्वेन काव्यार्थो व्याहतो दृश्यते । तथैव शृङ्गारवर्णने रसोचिततरलतायाः स्थानमैन्द्रियप्रेकर्षो गृह्णाति । विविधच्छन्दसां प्रयोगो भारायैव दृश्यते यथा पञ्चमस्कन्धे । यत्र कुत्र वार्ता पात्रयोग्यतामतिवर्तते । तथापि तस्य काव्यस्योत्कर्षस्तु न केनाऽप्यावलपितुं शक्यते । आचार्यपण्डितयुगयोः सेतुत्वेन पण्डितयुगस्य प्रवर्तकोऽयं कविः स्वप्रयासे सफलो मन्यते पश्चाद्वर्तिभिः बहुशोऽनुक्रियते च।

भारवेरर्थगौरवं प्रसिध्दम् । अत एव मल्लिनाथोऽपि टीकाप्रारम्भे – नारिकेलफलसम्मितं वचो भारवेरित्याह । बहोरप्यर्थराशेरल्पेन शब्देनाभिधाने भारविरभ्यस्तकौशल इति सर्वेषां विदुषां विचारः । विशिष्टार्थगर्भितानां वाक्यानां प्रयोगे भारविः अत्यन्तं निपुणः । 'हितं मनोहारि च दुर्लभं वचः', 'सहसा विदधीत न क्रियाम्' इत्यादयः तस्य प्रयोगाः एतम् अभिप्रायं समर्थयन्ति ।'भारवेः अर्थगौरवम्' इति उक्तिः अपि विमर्शकलोके प्रसिद्धा । एकमेव महाकाव्यं लिखित्वा अपि भारविः स्वकवित्वेन, पाण्डित्येन, वर्णनकौशलेन च कविप्रपञ्चे विशिष्टं स्थानं प्राप्तवान् । वस्तुत इयमेवोक्तिर्भारविकवित्वप्रशंसायामप्युपयुज्यते । ऋतूनां जलक्रीडायाश्चन्द्रोदयस्यच वर्णने महती कवित्वप्रतिभा प्रदर्शिता भारविणा । अलङ्काराणां यथावस्रोपन्यासे चित्रकाव्यनिर्माणे च परं साफल्यामासादितमनेन कविवरेण । भारविणा नीतयो निपुणमुपन्यस्ताः –

वरं विरोधोऽपि समं महात्मभिः ।
न वञ्चनीयाः प्रभवोऽनुजीविभिः ।
हितं मनोहारि च् दुर्लभं वचः ।
विश्वसयत्याशु सतां हि योगः ।
सुदुर्लभाः सर्वमनोरमा गिरः ।
गुरुतां नयन्ति हि गुणा न संहतिः ।
गुणाः प्रियत्वेऽधिकृता न संस्तवः।
षाड्गुण्यप्रभवा नीतिर्वंशस्थेन विराजते इति क्षेमेन्द्रोक्तिर्वंशस्थोपनिबध्दां भारवेनीतिचर्चामालोक्यैव प्रवृत्ता स्यादिति सम्भाव्यते । भारवेः कवितानां समीक्षया ज्ञायते तदस्याभिमानधनताऽऽसीत् । भारविकवितायां तर्कात्मकमोजः प्रबलम् । कवित्वनिदर्शनाय कतिचन पद्यान्युद्घ्रियन्ते ।

अथ क्षमामेव निरस्तविक्रमश्चिराय पर्येषि सुखस्य साधनम् ।
विहाय लक्ष्मीपतिलक्ष्मकार्मुकं जटाधरः सञ्जुहुधीह पावकम् ॥
अपवर्जितविप्लवे शुचौ हृदयग्राहिणि मङ्गलास्पदे ।
विमला तव विस्तरे गिरं मतिरादर्श इवाभिलक्ष्यते ॥
तुषारलेखाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः ।
अगूढभावापि विलोकने सा न लोचने मीलयितुं विषेहे ॥
मृणालिनीनामनुरञ्जितं श्रिया विभिन्नमम्भोजपलाशशोभया ।
पयः स्फुरच्छालिशिखापिशङ्गितं द्रुतं धनुः खण्डमिवाहिविद्विषः ॥

*किरातार्जुनीयम्*

महाकविः भारविः शैवमतावलम्बी , प्राकाण्डपण्डितः, राजनीतिज्ञः, वीररसवर्णनकुशलः, अलङ्कृतशैल्याः प्रवर्तकः च आसीत् । भारविणा निजपरिवारस्य , निवासस्थानस्य, पितुः, पितामहस्य, गुरोर्वा विषये कोप्युल्लेखो न कृतः किरातार्जुनीये । दण्डिविरचितम् अवन्तीसुन्दरीकथा अनुसारेण कुशिकगोत्रीयाः ब्राह्मणाः आनदपुरे निवसन्ति स्म । ततः परं ते वरारप्रान्ते अचलपुरे एलिचपुरे वा आगत्य निवासम् अकुर्वन् । अस्मिन्नेव वंशे नारायणस्वामी जातः । तस्य पुत्रः एव दामोदरः आसीत् । अयमेव दामोदरः भारविः इति नाम्ना प्रख्यातः अभवत् । तत्र भारविविषयकः श्लोकः अयं प्राप्यते -

स मेधावी कविर्विद्वान् भारविं प्रभवां गिराम् ।
अनुरुध्याकरोन्मैत्रीं नरेन्द्रे विष्णुवर्धने ॥
इत्थं भारविः दण्डिनः प्रपितामहः आसीत् । तस्य स्थितिकालः ६०० ईसवीयसमीपे मन्यते । अस्य ‘किरातार्जुनीयम्’ नाम एकमेव महाकाव्यं प्राप्यते; यत् बृहत्त्रय्यां प्रथमस्थाने’ परिगणितम् । संस्कृतविद्वत्समाजे ‘भारवेरर्थगौरवम्’, ‘नारिकेलफलसम्मितं वचो’ ‘स्पुटता न पदैरपाकृता’ इत्याभणकानि सुप्रसिध्दानि एव । महाकविभारविकृते किरातार्जुनीयमहाकाव्ये तज्जीवनविषयकसाक्ष्याभावात् बाह्यसाक्ष्यानुसारं तस्य कालनिर्धारणं करणीयम् ।

दक्षिणभारते एहोलग्रामे ६३४ ख्रिष्टीया जैनकविना रविकीर्तिना लिखितशिलालेखे “ स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः” इत्यनेन ज्ञायते यत् सप्तम शताब्दयाः पूर्वार्ध्दं यावत् भारविः सुविख्यातः कविरासीत् ।
काव्यकलायाः उत्तरोत्तरप्रभावदृष्ट्या कालिदासः भारवेः पूर्ववर्ती महाकविमाघश्च उत्तरवर्ती कविरासीत् । माघस्य स्थितिकालः ७०० ख्रिष्टीयाब्दः मन्यते, अतः भारवेः स्थितिकालः षष्ठशताब्धाः उत्तरार्ध्दे भवैतुमर्हति ।
काशिकायां भारवेः (किरात ३/१४) इत्युध्दरणं प्राप्यते । अतः भारवेः कालः वामनजयादित्याभ्यां (सप्तमशताब्दी –पूर्व) षष्ठशताब्धाः उत्तरार्ध्दे भवेत् ।
अवन्तीसुन्दरीकथा – अनुसारं दण्डिनः प्रपितामहः दामोदरः एव ‘भारविः’ यः विष्णुवर्ध्दनस्य (६१५ ई.) समापण्डितो आसीत् । अतः तस्य कालः षष्ठशताब्द्याः उत्तरार्ध्दे भवितुमर्हति । निष्कर्षरुपेण एवं प्रतिभाति यत् भारवेः स्थितिकालः षष्ठशताब्द्याः उत्तरार्ध्दे सप्तमशताब्द्याः पूर्वार्ध्दे (५५०-६०० ई.) भवैतुम् अर्हति ।
महाकविभारविना महाभारतकथामाश्रित्य अलंकृतकलापक्षप्रधानशैल्या विरचितं अष्टादशसर्गात्मकं वीररसप्रधानम् अर्थगाम्भीर्ययुक्तं बृहत्त्रय्यां प्रथमपरिगणितं ‘किरातार्जुनीयम्’ नाम एकमेव महाकाव्यं समुपलभ्यते । अस्य ग्रन्थस्य शुभारम्भः ‘श्री’ शब्देन, सर्गान्तः ‘लक्ष्मी – शब्देन च भवति । अत्र अर्जुनस्य किरातवेशधारिणा शङ्करेण सह युध्दं वर्णितम् । अत एव ग्रन्थस्य नामकरणं कृतं – ‘किरातार्जुनीयम्’ किराताश्च अर्जुनश्च किरातार्जुनौ (द्वन्द्वः) किरातार्जुर्नौ अधिकृत्य कृतं काव्यं किरातार्जुनीयम् । किरातार्जुन + छ (‘ईय’ आदेशः) अर्जुनाय दिव्यास्त्राणां प्राप्तिरेव महाकाव्यस्य फलम् । अतः ग्रन्थस्यास्य नायकः अर्जुनः नायिका च द्रौपदी वर्तते । अर्थगौरवं, स्पष्टता, पुनरुक्तेरभावः अलंकृतशब्दयोजनाश्च अस्य महाकाव्यस्य वैशिष्ट्यम् । भारविना एकाक्षरद्वयक्षर श्लोकाः अपि रचिताः । तद्यथा – “ न नोनन्नुनो नाना नानानना ननु” किरात. १५/१४. ग्रन्थेऽस्मिन् ऋतुवर्णनं, हिमालयवर्णनं, सन्ध्यावर्णनं, चन्द्रवर्णनं, प्रभातमित्यादीनां रोचकं रमणीयञ्च चित्रणं विद्यते । एवमेव पञ्चदशे सर्गे चित्रकाव्यस्य वर्णनं दर्शनीयम् । प्रथमसर्गे द्रौपद्याः कथने या वचनचातुरी विद्यते, सा अन्यत्र दुर्लभा एव ।

किरातार्जुनीयस्य कथानकस्य मूलाधारः महाभारतम् अस्ति। महाभारतस्य अष्टादशसर्गेषु वनपर्वणि किरातार्जुनीयस्य कथा अस्ति। अत्र किरातः तत्वेषधारी शिवः अस्ति। महाभारतात् संक्षिप्तकथानकं स्वीकृत्य भारविः स्वकल्पनाभिः काव्यप्रतिभयाच कथानके मौलिकताम् उत्पादितवान्। महाभारतस्य शैली सरला अस्ति किन्तु किरातार्जुनीयस्य शैली क्लिष्टा अलङ्कृता च अस्ति। महाकाव्यलक्षणानुरोधेन भारविः स्थाने स्थाने ऋतु- पर्वत- नदी- वन- प्रातः-सन्ध्यादीनाम् अपि सुन्दरं वर्णनं कृतवान्। भारवेरर्थगौरवम् इत्युक्त्यनुसारम् किरातर्जुनीयस्य अर्थगौरवम् अतिव प्रसिद्धम् अस्ति। चित्रकाव्यस्य चमत्कारं प्रदर्शयन् भारविः एकव्यञ्जनस्य प्रयोगेण अपि श्लोकानां निर्माणं कृतवान्।

उदाहरणार्थं श्लोकमेकम् अत्र दत्तम्।
न नोन नुन्नो नुन्नानो नाना नानाननाननु।
नुन्नोऽनुन्नो ननुन्नेना नानेना नुन्ननुन्ननुत्॥किरा॥

शास्त्री  रेखा सिंह जयशूर

महाकवि दांडी

महाकवि दांडी
------------------------
दण्डी कविः आलङ्कारिकश्च। दशकुमारचरितं, काव्यादर्शः, अवन्तिसुन्दरीकथा च अस्य प्रसिद्धाः ग्रन्थाः। आहत्य अस्य सप्त रचनाः सन्ति। एषः काञ्जीवासी आसीत्।

दण्डिनः स्थितिकालः सन्दिग्ध एव । अत्र समालोचकाः सुबन्धु-बाण-दण्डिनः, बाणदण्डिसुबन्धवः, सुबन्धु-दण्डि-बाणाश्चेति त्रिविधक्रमसमर्थका दृश्यन्ते । अधिकाः तु प्रथममेव पक्षमाश्रित्य प्रचलिताः दृश्यन्ते। एतावदेव ज्ञायते यत्स दाक्षिणात्यः । बाणभट्टः तं न स्मरतीति तस्य स्थितिकालस्य पूर्वसीमा, अभिनवगुप्तस्तं लोचने स्मरतीति तस्यापरसीमा।

अवन्तिसुन्दरीकथाऽनुसारेण दण्डी दामोदराऽऽख्यस्य प्रपौत्रः आसीत्। दामोदरस्य चतुर्षु सुतेषु कनिष्ठस्य वीरदत्तस्य सुत आसीद् दण्डी । तस्य माता गौरी । कथ्यते दामोदरः भारविरेव किंवा भारवेरन्तरङ्गसुहृदासीत् । सः विष्णुवर्धनाख्यस्य सिंहविष्णोः काञ्चीनरेशस्य सभापण्डित आसीत् । दामोदरस्य पुत्रो वीरेश्वरदत्तोऽपि सिंहविष्णुसुतस्य महेन्द्रवर्मणः सभापण्डित आसीत् । तथैव तत्सुतो दण्डी महेन्द्रवर्मणः सुतस्य नरसिंहवर्मणस्तत्सुतस्य राजवर्मणश्च सभाध्यक्ष आसीत् । नरसिंहवर्मणः स्थितिकालः ७४७-७८२ मितवैक्रमाब्दानभितः । एवमेव अवन्तिसुन्दरीकथायाम् -

भिन्नतीक्ष्णमुखेनाऽपि चित्रं बाणेन निर्व्यथः।

व्याहारेषु जहौ लीलां न मयूरः::::::::::।।

इति बाणो मयूरश्च कवी स्मृतौ दृश्येते । अनेन अवन्तिसुन्दरीकथायां वर्णितायाः कादम्बर्याः वर्णनस्य बाणवर्णितकादम्बरीवर्णनेन सह साजात्येनापि दण्डिनो बाणपरवर्तित्वं मन्यते। बाणः ७१५ मितवैक्रमाब्दे तनुं तत्याजेति मन्यते। तदनन्तरवर्तित्वेन दण्डिनः ७३०-८०० मितवैक्रमाब्दकालः स्थितिकालत्वेन विद्वत्सु सम्मतिः।

दण्डिनः प्रासादिकगुणगुम्फितां सरलां भाषां विलोक्य केचित्तं बाणपूर्ववर्तिनमेव मन्यन्ते । तेषां मते सति तस्य बाणपरवर्तित्वे तस्य भाषयाऽपि बाणप्रवर्तितशैल्या प्रभावितया भाव्यं स्यान्न हि भाषयाऽपि तथा प्रतीयत इति। किन्तु नेदं युक्तियुक्तं प्रमाणं मन्यते यतो हि बाणपश्चाद्वर्तिनः सर्वे बाणमेवानुकुर्वन्तीति नैव राजाज्ञा कुत्रापि । कवेस्तु स्वकीयं वैशिष्ट्यं भवति । कमनीयपदावल्येव दण्डिनो वैशिष्टयम् । कल्पितेऽपि प्रमाणबाहुल्ये दण्डिनो यथार्थतः स्थितिकालस्तु ७००-८५० मितवैक्रमाब्दान्तरालः मन्यते। तेन ७५० मितवैक्रमाब्दपश्चाद्वर्तिना तु न कदापि भाव्यं यतो हि ७५० मितवैक्रमाब्दानभितः स्थितिमती विज्जका तं स्पष्टमेव स्मरति ।

नीलोत्पलदलश्यामां विज्जकां मामजानता।

वृथैव दण्डिना प्रोक्ता सर्वशुक्ला सरस्वती॥ इति ।

विज्जका द्वितीयपुलकेशिनः पुत्रस्य चन्द्रादित्यस्य पट्टराज्ञी विजयभट्टारिकैव नान्या।

दण्डी संस्कृतसाहित्ये मूर्तिमत् कविरेव। कथ्यते हि -

जाते जगति वाल्मीकौ कविरित्यभिधाऽभवत्।

कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि।। इति ।

दण्डिनः कृतित्वेन सन्त्यनेके ग्रथाः प्रसिद्धाः । यथा -

१. दशकुमारचरितं - गद्यकाव्यं कथारूपम् ।

२. काव्यादर्शः - लक्षणग्रन्थः

३. अवन्तिसुन्दरीकथा - गद्यकाव्यम्

४. छन्दोविचितिः

५. कलापरिच्छेदः

६. द्विसन्धानकाव्यम्

७. वातमन्दिरम्

केचिदत्र मृच्छकटिकं गृह्णन्ति किन्तु वातमन्दिरमेव तत् । तेष्वपि त्रयो नितान्तं ख्याताः -दशकुमारचरितं, काव्यादर्शः, अवन्तिसुन्दरीकथा (सम्भवतः)। कलापरिच्छेदः काव्यादर्शस्यैवाग्रिमो भागो न तु स्वतन्त्रग्रन्थः । एवमेव छन्दोविचितिरपि । यथोक्तं काव्यादर्शो -

'इत्थं कलाचतुःषष्ठिविरोधः साधु नीयताम्।

तस्याः कलापरिच्छेदे रूपमाविर्भविष्यति।।[१]

'पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ।

छन्दोविचित्य सकलस्तत्प्रपञ्चो निदर्शितः ।।[२]

दण्डिनो द्विसन्धानकाव्यमित्थं भोजराजेन शृङ्गारप्रकाशे स्मृतम् -

'द्वितीयस्य ( द्विसन्धानप्रकारस्य ) उदाहरणं यथा दण्डिनो धनञ्जयस्य द्विसन्धानप्रबन्धौ'[३]

दशकुमारे यादृशी भौगोलिकी स्थितिवर्णिताऽस्ति तदनुसारेण तु दण्डी प्रभाकरवर्धनसमकालिको दृश्यते । तदनुसारेण तस्य बाणपूर्ववर्तित्वं सिध्यति अपि च गद्यकाव्यस्य प्रथमप्रयोक्तत्वञ्च । किन्तवेतन्न तथा प्रामाणिकं यतो हि कवयः श्रुतं वा कल्पितमप्यर्थं लीलया वर्णयन्ति यथा नैषधीयचरिते दमयन्तीस्वयंवरसभायां सप्तानामेव द्वीपानां राज्ञां विशेषतो जम्बूद्वीपस्य अवन्ति-गौड-मथुरा-काशी-अयोध्या-पाण्ड्य-महेन्द्र-काञ्ची-नेपाल-मलय-मिथिला-कामरूप-उत्कल-कीकटमहीपतीनामुपस्थितिवर्णनम् । अपरञ्च हर्षनिर्वाणानन्तरमपि भारतस्य दशा तथैव सञ्जाताऽऽसीद्या प्रभाकरवर्धनसमये आसीत् । काव्यादर्शे दण्डी कथयति यत् -

'इति साक्षात्कृते देवे राज्ञो यद्राजवर्मणः।

प्रीतिप्रकाशनं तच्च प्रेय इत्यवगम्यताम्॥'[४] इति ।

राजवर्माणं स्वाश्रयदातृत्वेन स्मरति । ऐतिहासिकैः खलु राजवर्मा इति ७४७-७८२ मितवैक्रमाब्दान्तराले काञ्चीं शासत्पल्लवराजो नरसिंहूवर्मा गृह्यते । सति तथा, दण्डिनोऽपि तत्सभाकवित्वेन वा तत्समकालिकत्वेन ७३०-८०० मितवैक्रमाब्दकालः स्थितिकालत्वेन मन्यते ।

दण्डी न केवलं विद्वान्, तस्य कल्पना उदात्ता बदुमुखी च । नास्य प्रबन्धः सुबन्धोरिव प्रत्यक्षरश्लेषमयो नापि च बाणस्येव रुचिरस्वरुवर्णपदानि । अस्य तु पदानि प्रसादमधुराणि ललितललितानि भावगभितानि च । समालोचकाः आमनन्ति यत्, स्पष्टता, भव्यभावसमभिव्यक्तिः कोमलकल्पनाकमनीयता, विचारवेशद्यञ्चास्य कृतिगतं वैशिष्ट्यम् । कविरसौ अनुप्रासमयपदविन्यासे एव रमते । तेनैवोक्तं भवेत् - 'दण्डिनः पदलालित्यम्' इति । अस्य पात्राणां सजीवता रोचिष्णुहास्यविलासः हृदयङ्गमा व्यङ्गभङ्गी च सर्वेषां कृते प्ररोचकाः । यथा हि -

'कुमारा माराभिरामा रामास्तपौरुषा रुषा भस्मीकृतारयो रयोपहसितसमीरणा रणाभियानेनाभ्युदयाशंसं राजानमकार्षः।'

निभाल्यतामस्य कवित्वकमनीयताऽत्र -

सुभग कुसुमसुकुमारं जगदनवद्यं विलोक्य ते रूपम्।

मम मानसमभिलषतित्वं वित्तं कुरु तथा मृदुलम्॥ इति ।

एवमेवास्य वर्णनकौशलस्योदाहरणं यथा -

'तत्र चकोरलोचनावचितपल्लवकुसुमनिकुरस्वं महीरुहसमूहं शरदिन्दमुख्या मन्मथसमाराधनस्थानञ्च नताङ्गीपदपङ्क्तिचिह्नितं शीतलसकततलञ्च सुदतीमुक्तमुक्तं माधवीलतामण्डपान्तरपल्लवतल्पं च विलोकयन् ललनातिलकविलोकनवेलाजनितशेषाणि स्मारं स्मारं मन्दमारुतकम्पितानि नवचतपल्लवानि मदनाग्निशिखा इव चकितो दर्शं दर्शं मनोजकर्णेजपानामिव कोकिलकोरमधुकराणां क्वणितानि श्रावं श्रावं मारविकारेण क्वचिदप्यवस्थातुमसहिष्णुः परिबभ्राम' इत्यादि ।

सत्यमेवोक्तमेकेन समालोचकेन यद्दण्डिनो दशकुमारचरिते नानाविधा, रोमाञ्चकारिघटनाः सन्ति । ग्रन्थस्यास्य मुख्यो रसस्तु वीर एव किन्तु प्राधान्यमद्भूतस्यापि ।

त्रयोऽग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः ।
त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ॥
इति महाकविः राजशेखरः स्वस्य सुभाषितहारावलिग्रन्थे वदति । संस्कृतसाहित्ये गद्यकविषु दण्डी (Dandi) बहु प्रख्यातः अस्ति। गद्यकाव्येषु याद्र्शी कुतूहलता दण्डिना प्रदर्शिता ताद्र्शी कुतूहलता आसक्तिः च केनापि न प्रदर्शिता। दण्डिनः सप्त कृतयः समुपलभ्यते।


दशकुमारचरितम्
----------------------
दशकुमारचरितं दण्डिनः प्रथितं गद्यकाव्यम् । अस्य पूर्वपीठिका, दशकुमारचरितं, उत्तरपीठिका चेति त्रयो भागाः । तत्रापि केचित्तु भाषागतभङ्गीमुद्दिश्य केवलं चरितभागमेव दण्डिप्रणीतं मन्यन्ते । तदनुसारेण यथा चरितभागस्य कमनीयपदा प्रसादगुणगुम्फिता मधुरमधुरा च भाषा न तथा पूर्वोत्तरपीठिकयोरिति । किन्तु कथनमतन्न युक्तियुक्तं सर्वेभ्यः। भाषाभङ्गी विषयानुबन्धिनी कवेस्तात्कालिकमनोवृत्यनुगा च । तेन एक एव कविरपि विविधभाषाभङ्गीमनुतिष्ठतीति नाश्चर्यं विषयाद्यनुसारेण ।

दशानां कुमाराणामतिपौरुषपराक्रमवर्णनमेवाऽस्य ग्रन्थस्य विषयः । मगधेशकुमारस्य राजवाहनस्य तन्मित्राणां नवानां देशविदेशाटनानुभवानां मनोहारि वर्णनमत्र दृश्यते।

दशकुमारचरितस्य सन्त्यनेके टीकाग्रन्थाः । अस्य पूर्वपीठिकायाः पददीपिकाऽभिधा टीका लभ्यते प्राचीना, नवीना च शेषराजशर्मणश्चन्द्रकलाऽऽख्या । मध्यभागस्य पदचन्द्रिका कवीन्द्राचार्यसरस्वतीकृता, शिवरामप्रणीता भूषणाऽऽख्या, लघुदीपिका च भानुचन्द्रकृता टीकाः । उत्तरपीठिकायाः न काऽपि टीका लभ्यते । पूर्वपीठिकायाः मध्यभागस्य च ताराचरणभट्टाचार्यप्रणीता बालविबोधिनी नाम्नी टीकाऽपि दृश्यते।

काव्येस्मिन् शोभनाशोभनयोः द्वयोरपि वर्णनं दृश्यते। दशकुमाराणां चरितम् अस्य काव्यस्य मूलविषय: अस्ति ।

स मेधावी कविर्विद्वान् भारविं प्रभवां गिराम् ।
अनुरुध्याकरोन्मैत्रीं नरेन्द्रे विष्णुर्वधने ॥
अनेन पद्येन कवेः जीवनचरितं प्रकाशितं भवति । दण्डिनः कवेः प्रपितामहस्य श्रीदामोदरस्य मैत्री विष्णुवर्धनेन सहाभवत् । दण्डिनः जन्म काञ्चीवरमिति नाम्नाधुना प्रसिद्धनगरे अभवत् । काञ्च्याः पल्लवनरेशस्य पुत्रस्य शिक्षायै दण्डी ' काव्यादर्शम्' रचितवान् इति प्रसिद्धास्ति किंवदन्ती ।

नवमशतब्द्याः ग्रन्थेषु दण्डिनः नामोल्लेखः प्राप्यते । अतः दण्डिनः समयो नवमशताब्द्याः पूर्वं भवितुमर्हति । "काव्यादर्शः"अस्य मौलिकग्रन्थो प्रतिभाति । प्राचीनमपि पद्यं काव्यादर्शे दृश्यते । "लक्ष्म लक्ष्मीं तनोतीति प्रतीतिसुभगं वचः" इत्यादौ दण्डी, महाकविकालिदासस्य "मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति" इति पद्यांशमुद्धरति । अतः कालिदासस्य पद्यादेवास्यास्तित्वमिति निर्विरोधम् ।

प्रो०आर्०नृहिंसाचार्यः काव्यादर्शे उल्लिखितं राजवर्माणं नृसिंहवर्मणा उपनाम्ना प्रसिद्धं मत्वा दण्डिनः स्थितिकालं सप्तमशताब्द्याः उत्तरार्धे स्वीकरोति । वस्तुतस्तु पल्लवराजस्य नृसिंहवर्मणः समयः ६९० ई आरभ्य ७१५ ई मन्यते । अत अस्यैव सभापण्डितस्य दण्डिनः समयः सप्तमशताब्द्याः अन्ते अष्टम-शताब्द्याश्चादौ वा मन्तव्य इति युक्तिसङ्गतं प्रतिभाति ।

दशकुमारचरितं दण्डिनः गद्यकाव्यं विद्यते । दशकुमाराणां चरितं काव्येऽस्मिन् वर्णितमतो दशकुमारचरितमिति नाम ।

अवन्तिसुन्दरीकथा

अवन्तिसुन्दरीकथा दण्डिनोऽपरा कृतिः। ग्रन्थोऽयमपि हर्षचरितमिव कतिपयैः पद्यैरारभ्यते । अत्रापि वाल्मीकि-व्यास-सुबन्धु-गुणाढ्य-शूद्रक-भास-प्रवरसेन-कालिदास-नारायण-बाण-मयूराख्यानां कवीनां नामग्रहणं कृतमस्ति । तत्र कतिपयपद्यानां मध्यभागः खण्डितोऽपि दृश्यते । ततश्च गद्येन ग्रन्थारम्भः कृतोऽस्ति । अत्र बाणस्य कादम्बरी पुनरुक्तेव दृश्यते भाषाभाववर्ण्यविषयादिदृष्ट्या। दण्डिना 'ओजःसमासभ्यस्त्वं गद्यस्य जीवितमिति' यदुक्तं तदवन्तिसुन्दरीकथायामेव चरितार्थं भवति न तु दशकुमारचरिते ।
शास्त्री रेखा सिंह जयशूर

बालकस्य दिनचर्या

बालकस्य दिनचर्या एकस्मिन् रमणीये ग्रामे सोमः नाम एकः बुद्धिमान् बालकः वसति स्म। तस्य गृहं वृक्षैः परिवृतम् आसीत्। सः प्रतिदिनं ब्राह्ममुहूर्...