मंगलवार, 20 अक्टूबर 2020

अत्र, तत्र, कुत्र, अन्यत्र , सर्वत्र ,एकत्र,।

अत्र, तत्र, कुत्र, अन्यत्र , सर्वत्र ,एकत्र,।

       🔴अत्र ।
आसन्द: अत्र अस्ति ।
दूरवाणी अत्र अस्ति ।

         🔴तत्र ।

वृक्षः तत्र अस्ति।
वानर: तत्र अस्ति।

     🔴कुत्र ।

भारतद्वारं कुत्र अस्ति।
संस्कृतभारती-कार्यालय: कुत्र अस्ति।

     🔴सर्वत्र ।
मातु: - पितुः आशीर्वादः सर्वत्र भवति ।
प्राणवायु: सर्वत्र अस्ति ।

        🔴अन्यत्र।
पिता अन्यत्र अस्ति।
मम मित्रम् अन्यत्र अस्ति।

       🔴एकत्र।
छात्रगण: एकत्र अस्ति।
पिपलिकागण: एकत्र अस्ति।

🟠 षष्ठीविभक्ति: - तस्य , कस्य , एतस्य (पुल्लिङ्गस्य कृते)

स: बालक:-------तस्य नाम राम:।
स: नायक:-----तस्य नाम अक्षयकुमार:।

       ⚫एतस्य -

एष: ताल:----एतस्य नाम हरिसन:।
एष: गायक: ----एतस्य नाम पङ्कजझामहोदय: ।

कस्य नाम मोहन: ?
एतस्य नाम मोहन:।
कस्य पुस्तकम् ?
तस्य पुस्तकम् ।

⚫ तस्याः, एतस्या:, कस्या:(स्त्रीलिङ्गस्य कृते)

सा बालिका-----तस्या: नाम दीपिका ।
सा पाचिका----तस्या: नाम तेजस्विनी ।

एषा गायिका - एतस्या: नाम लता ।
एषा पत्रिका - एतस्या: नाम सम्भाषण-सन्देश: ।

कस्या: नाम पायल ?
एतस्या: नाम पायल ।
कस्या: दूरवाणी ?
तस्या: लेखनी।

⚫ दशरथस्य , सीतायाः, लेखन्या:, पुस्तकस्य।
 
दशरथस्य पुत्र: राम:।
शिवस्य धनु: पिनाक: ।

सीतायाः पति राम:।
उमाया: पति शिव:।

नद्या: नाम गङ्गा ।
दूरवाण्या: नाम नोकिया ।

पुस्तकस्य नाम संस्कृतं वदतु ।
समाचारपत्रस्य नाम अक्षरवाणी संस्कृत समाचार पत्रम् अस्ति।

योजनाप्रमुखः

🔻तस्य 

1. सः योजनाप्रमुख: , तस्य नाम डॉ.सञ्जीवरायवर्य: ।  
2. सः दन्तकूर्चः , तस्य नाम ओरियल-बी ।
3.  सः कार्यक्रम: , तस्य नाम वार्तावली । 

        🔻एतस्य 

1. एषः ग्रन्थ: , एतस्य नाम महाभारतम् ।
2.  एषः प्रदेश: , एतस्य नाम उत्तर-प्रदेश: ।
3.  एषः अनिलकोष: , एतस्य नाम भारत-गैस ।

       🔻  कस्य ?
         
1. कस्य नाम मत्तूरु ?
  संस्कृत-ग्रामस्य नाम मत्तूरु । 
2. कस्य नाम भारतम् ? 
    देशस्य नाम भारतम् । 
3.  कस्य नाम चन्द्रशेखरआजाद: ? 
      देशभक्तस्य नाम चन्द्रशेखरआजाद: । 

            🔺 तस्या: 

1. सा पत्रिका , तस्या: नाम सम्भाषण-सन्देश: ।
2. सा शाला , तस्या: नाम संस्कृतभारती संवादशाला । 
3. सा कपाटिका , तस्या: नाम गोदरेज ।

         🔺 एतस्या: 

1.  एषा हस्तघटी , एतस्या: नाम रॉलेक्स । 
2.  एषा दूरवाणी , एतस्याः नाम जियो ।
3.  एषा टिप्पणीपुस्तिका , एतस्या: नाम क्लासमेट ।

          🔺 कस्या: ? 

1. कस्या: नाम गङ्गा ? 
    नद्याः नाम गङ्गा । 
2. कस्या: नाम देहली ? 
     राजधान्या: नाम देहली ।  
3. कस्या: नाम काशी ? 
     नगर्या: नाम काशी । 
4. कस्या: नाम नटराज ? 
    मापिकायाः नाम नटराज । 

      ♦️ मम 

1. मम नाम सचिनः । मम दूरवाणी 
2. मम बाइकयानम् ।
3. मम सञ्चिका । 
4. मम करांशुकम् । 
5. मम कङ्कणम् । 

   ♦️ #भवतः

1. भवतः लेखनी । 
2.  भवतः हस्तघटी । 
3.  भवतः कटिबन्ध: । 
4. भवतः शिरस्त्रम् । 
5. भवतः शिरस्त्राणम् ।  

        ♦#️भवत्या: 

1. भवत्या: करवस्त्रम् । 
2.  भवत्या: शाटिका । 
3.  भवत्या: वलय: । 
4.  भवत्या: कुमकुम: ।
5.  भवत्या: नखरञ्जनी ।

     ♦️️ #शिष्टाचार:

1. नमो नमः ।
2. हरि: ॐ । 
3. सुप्रभातम् / शुभमध्याह्नम् / शुभसन्ध्या / शुभरात्रि: । 
4. क्षम्यताम् ।
5. चिन्ता मास्तु । 
6. आवश्यक:/आवश्यकी/आवश्यकम् । 
7. कृपया स्वीकरोतु /ददातु ।
8. धन्यवादः ।
9.  स्वागतम् । 
10. पर्याप्तम् ।
11. महोदय:/महोदया । 
12. पुनः मिलामः ।

सर्वनाम्नः

सर्वनाम्नः
----------------
🔸सः - ते......

सः गोलदीपः, ते गोलदीपाः
सः करदीपः, ते करदीपाः
सः आसन्दः, ते आसन्दाः
सः कंसः, ते कंसाः
सः सर्पः, ते सर्पाः

🔸सा - ताः

सा बाला , ताः बालाः
सा नायिका, ताः नायिकाः
सा कर्तरी, ताः कर्तर्यः
सा लेखनी, ताः लेखन्यः
सा अङ्कनी, ताः अङ्कन्यः

🔸तत् - तानि

तत् फलम्, तानि फलानि
तत् व्यजनम्, तानि व्यजनानि
तत् पुष्पम्, तानि पुष्पाणि
तत् पत्रम् , तानि पत्राणि
तत् फलकम्, तानि फलकानि

🔸एषः - एते

एषः अध्यापकः, एते अध्यापकाः
एषः नायकः, एते नायकाः
एषः शिक्षकः, एते शिक्षकाः
एषः युवकः, एते युवकाः
एषः रक्षकः, एते रक्षकाः

🔸एषा - एताः

एषा कपाटिका, एताः कपाटिकाः
एषा गायिका, एताः गायिकाः
एषा दूरवाणी, एताः दूरवाण्यः
एषा वर्तिका, एताः वर्तिकाः
एषा घटी, एताः घट्यः

🔸एतत् - एतानि

एतत् विषयम्, एतानि विषयाणि
एतत् अङ्कम्, एतानि अङ्कानि
एतत् सर्गम्, एतानि सर्गाणि
एतत् काव्यम्, एतानि काव्यानि
एतत् गद्यम्, एतानि गद्यानि

🔸कः - के

कः नर्तकः, के नर्तकाः
कः कंसः, के कंसाः
कः रागः, के रागाः
कः वर्णः, के वर्णाः
कः शिष्यः, के शिष्याः

🔸का - काः

का बालिका, काः बालिकाः
का कूपी, काः कूप्यः
का साधिका, काः साधिकाः
का कुञ्जिका, काः कुञ्जिकाः
का शाटिका, काः शाटिकाः

🔸किं - कानि

किं चित्रम्, कानि चित्राणि
किम् उपनेत्रम्, कानि उपनेत्राणि
किं वस्त्रम्, कानि वस्त्राणि
किं कुण्डलम्, कानि कुण्डलानि
किं तिलकम्, कानि तिलकानि

अक्षरवाणी संस्कृत समाचार पत्रम्

नागपञ्चमी

शरीरमाद्यं खलु धर्मसाधनम् --

   पूर्वजन्मनः सुसंस्कारबलात् अस्मिन् जन्मनि मानवशरीरं प्राप्यते, यच्च अत्यन्तं दुर्लभमस्ति । देवाः अपि मानवजीवनम् इच्छेयुः । कारणं विवेकशीलाः मानवाः साधनद्वारा अत्यन्तम् अनुपमेयं रहस्यमयं दिव्यं परमं गूढतत्त्वं चापि अवगन्तुं प्राप्तुञ्च सक्षमाः भवन्ति । एतादृशी योग्यता मानवानाम् अतिरिच्य अन्येषु पशुप्राण्यादिषु न विद्यते ।
    तत्साधनार्थम् आदौ एव शरीरस्य आवश्यकता भवति अर्थात् साधना इदम्प्रथमतया शरीरद्वारा हि सम्भवति । शरीरम् एव मनोबुद्धीन्द्रियाणां निवासक्षेत्रम् । क्षेत्रम् उर्वरायुक्तं चेत् धान्यादिसस्यानां अभिवृद्धिः जायते स्वाभाविकतया । अत्र धान्यादिनाम् उन्नतेः कारणभूतं तु कृषिक्षेत्रमेव । तद्वत् मानवस्य जीवनविकासाय अपि प्रथमतया स्वस्थशरीरस्य आवश्यकता भवति । रुग्णशरीरेण दुःखादतिरिच्य नान्यत् किमपि साधयितुं लब्धुञ्च शक्यम् । अतः स्वस्थशरीरस्य प्राप्त्यर्थं मानवैः यथाशक्यं प्रयतनीयम् । प्रतिदिनम् आहारः, विहारः, स्वप्नः, जागरणम्, कर्मचेष्टा इत्यादिकं सर्वमपि नियमपूर्वकम् उचितमात्रायुक्तम्, सात्त्विकयुक्तञ्च भवेत् । नियमितरूपेण योगः, प्राणायामः, ध्यान-धारणा, आस्तिकता, स्वाध्यायः, देवपूजनम् इत्यादिकर्म विधातव्यम् । एवमेव नम्रता, जीवप्रेम, परोपकारः इत्यादयः सद्गुणाः मनःइन्द्रियाणां तथाच शरीरस्य स्वास्थ्याय कल्पन्ते ।
      शरीरस्वास्थयुक्तं चेत् साधनया इहलौकिकं पारलौकिकञ्च सर्वविधं सुखं  लब्धुं शक्यते । अतः मानवैः सर्वादौ स्वस्थशरीरप्राप्त्यर्थं एतस्य संरक्षणार्थञ्च चेष्टा करणीया । तदा एव धर्मसाधनमपि सुकरं सुलभञ्च भवितुमर्हिस्यति । इत्यतः उच्यते ' शरीरमाद्यं खलु धर्मसाधनम् ' इति ।

        -- #नारदः, २५/०७/२०.
                  #नागपञ्चमी

मेघो

मेघो वर्षति इति वा देवो वर्षति इति वा प्रयोगः श्रूयते | 

देवः पुष्पाणि वर्षति इत्यपि दृश्यते | देवो जलं वर्षति इति प्रयुक्तं न स्मरामि |

मेघाः देवानभ्यवर्षन् इति चेत् मेघेभ्यः साक्षात् देवाः पतन्ति इति अर्थः गृह्यते इति मम मतिः |

अतः प्रकृते वाक्ये मेघाः देवेषु अवर्षन् इति भवितुम् अर्हति |

#नरेशः

प्रयोगः

#प्रयोगः
----------
♦️इति

हिन्दी हिन्दू हिन्दुस्तान इति भारतेंदु हरिश्चंद्र उक्तवान।

जय जवान जय किसान जय विज्ञान इति अटलजी उक्तवान।

 ♦️अतः

पिपासा अस्ति अतः पिबामि।

इच्छा अस्ति अतः सम्भाषणं करोमि।

कोरोना अस्ति अतः सर्वत्र ई कक्षा चलति।

 🔸अस्मि

अहं संस्कृतानुरागी अस्मि।
अहं कोरोनासङ्क्रमणात् भीता अस्मि।

 🔸आसम्  अस्मि

शिशु आसम्, युवती अस्मि।
छात्रा आसम्, शोधच्छात्रा अस्मि।

 🔸आसीत्   अस्ति

सन्यासी आसीत्, मुख्यमंत्री अस्ति।

आयकरविभागे अधिकारी आसीत्, मुख्यमंत्री अस्ति।

 🔸एव

अहं रसगोलकमेव खादामि।
अहं मधुरमेव वदामि।

 🔸अद्य आरभ्य

अद्य आरभ्य अहं संस्कृतसम्भाषणमेव करोमि।

अद्य आरभ्य अहं प्रतिदिनं हसामि।

 🔸वान्  वन्तः

मोदी मोदीनगरं गतवान्। सांसदाः अपि मोदीनगरं गतवन्तः।

हरीशः कोरोनासङ्क्रमितो अभवत्।
तेन सह पञ्चजनाः कोरोनासङ्क्रमिताः अभवत्।

मोदी मित्राणि इति कथितवान्। प्रसंशकाः नमो नमो इत्युच्चारणं कृतवन्तः।

 🔸वती    वत्यः

रमा विनोदकणिका उक्तवती। सख्यः हसितवत्यः।

शिक्षिका पाठं पाठितवती।  शिष्याः ध्यानेन श्रुतवत्याः।

🔸 यथा तथा

यथा लता मंगेशकर गायति तथा कोपि न गायति।

यथा सरला पठति तथा कोपि न पठति।

संस्कृत में वाक्याभ्यास

संस्कृत में वाक्याभ्यास
----------------------------

(१)चलती रेलगाड़ी/चलती हुई रेलगाड़ी=चलद् रेलयानम् 
(२)गरजते बादल/गरजते हुए बादल=गर्जन् मेघ:।
_____________________
(१)टूटी हुई कुर्सी=त्रुटितासनम्।
(२)मुर्झाए हुए फूल=म्लायितपुष्पम्।
(३)थका हुआ आदमी=श्रान्तपुरुषः।
(४)हारी हुई सेना=पराजितसेना।
______________________
(१)हल्का-हल्का बुखार=अल्पज्वरः।
(२)लाल-लाल कमीज=रक्तवर्णमययुतकम्।
(३)मीठा-मीठा सुगन्ध=मधुर-मधुर-सुगन्धिः|
(४)मन्द-मन्द मुस्कान=मन्द-मन्द हसनम्।
------------------------------------
(१)वह लम्बी है=सा उन्नता अस्ति।(यहां पर लम्बाई को पसंद किया जाता है)
(२)वह ज्यादी लम्बी है=सा अति उन्नता अस्ति।(यहां पर लम्बाई को नहीं पसंद किया जाता है)
-----------------------------------
गरम-गरम एक ऐसा गुण है जिसे लोग पसन्द करते हैं।बहुत गरम ऐसा गुण है जिसे हमलोग नहीं पसंद करते हैं।

(१)मैं गरम-गरम चाय पसंद करता हूं=मह्यं उष्णं चायं रोचते।
 (२)चाय बहुत गरम है=चायम् अत्युष्णमस्ति ।
---------------------------------
(१)एक जोड़ा जूता=पादुकायुगलम्।
(२)एक लाख लोग=एकलक्षजना:/एकलक्षमिता जना:।
(३)दर्जनों कलमें=द्वादशा: लेखन्य:।
(४)एक दर्जन कलमें=लेखनीद्वादशैकम्।
(५)दो दर्जन कलमें=द्वे द्वादशौ लेखन्यः
----------------------------------
 (१)उसे दो सौ रूपए हैं=तस्य द्विशतकं रूप्यकाणि सन्ति।
(२) यहां पांच हजार लोग हैं=अत्र पञ्चसहस्रं जना: सन्ति।
(३)यहां सैकड़ों लोग हैं=अत्र शतकानि जना: सन्ति।
(४)यहां हजारों लोग हैं=अत्र सहस्राणि जना: सन्ति।

यमराजः दस्युः साधुः च!

यमराजः दस्युः साधुः च!

एकदा कश्चन साधुः यमलोकं गतवान्। तदा एव अन्यः कश्चन दस्युः‌ अपि यमलोकं गतवान्। 

तत्र गत्वा दस्युः‌ यमराजं दण्डम् अयाचत। साधुः च स्वर्गसुखम् अयाचत। 

यमराजः तदा दस्यवे दण्डरूपेण त्वं साधोः सेवां कुरु इति आदेशं दत्तवान्।

 साधुः तन्न अङ्ग्यकरोत्।

यमराजः तदा साधुम् उक्तवान् भोः! भवतः तपः इदानीमपि असम्पूर्णम् अस्ति। 

मृत्योः अनन्तरं साधुः दस्युः च द्वौ अपि यमलोकम् अगच्छताम्।

यमराजः तयोः जीवनवृत्तान्तं  दृष्ट्वा तौ आदिशत् इदानीं भवन्तौ स्व स्व विषये वदताम् इति। 

तदा दस्युः अत्यन्तं विनयेन अवदत् हे महाराज! अहं मम जीवने सर्वदा पापकार्यम् अकरवम्। अहम् अपराधी अस्मि। अतः मत्कृते भवान् यं दण्डं दातुम् इच्छति ददातु, अहम् अङ्गीकरोमि।

अनन्तरं साधुः अवदत् महाराज! अहं मम जीवने सर्वदा तपः आचरितवान्, भगवते च महती भक्तिः आसीत्। जीवने अहं कदापि असत्यस्य मार्गं न अगच्छम्। सर्वदा सत्कर्म एव अकरवम्। अतः हे महाराज! मम कृते स्वर्गसुखस्य प्रबन्धः क्रियताम्। 

तयोः उभयोः वचनं श्रुत्वा यमराजः दस्युम् आदिशत्। अद्यारभ्य त्वं साधोः सेवां कुरु। तव कृते अयमेव महान् दण्डः इति। 
दस्युः यमराजस्य आदेशं शिरसा अङ्ग्यकरोत्। 

परन्तु यमराजस्य एवम् आदेशं श्रुत्वा साधुः तस्य निषेधं कुर्वन् अवदत् हे महाराज! एतस्य पापिनः स्पर्शेन अहं अपवित्रः भविष्यामि। मया जीवने यत् तपः आचरितम्, तत् सर्वं विफलतां गच्छेत्। 

साधोः एतद् वचनं श्रुत्वा यमराजः कुपितः अभवत् अकथयत् च  "यः जीवने सर्वदा पापम् अकरोत्, लुण्ठनम् अकरोत्, जनान् अहन्, सः इदानीं नम्रः अभवत्। परन्तु भवान् तु अहङ्कारी इव वार्तालापं कुर्वन् अस्ति। भवान् न जानाति यत् सर्वेषां जीवानाम् आत्मा समानः एव भवति। भवतः तपस्या सम्पूर्णा न अभवत्। 

अतः अद्यारभ्य भवान् दस्योः सेवां कुर्यात्।
*-प्रदीपः।*

अनुवादाः प्रकाश्यन्ते

लगना/लगाना
-----------------
(१)यह बिछावन कड़ा लगता है=एषा शय्या रूक्षा अस्ति ।

(२)यह बिछावन मुलायम लगता है=एषा शय्या मृदु अस्ति ।
एषा शय्या मृद्वस्ति ।

(२)उसे भूख-प्यास नहीं लगती है=तस्य क्षुधा पिपासा च न भवत:।

(३)तेरे हाथ ठंढे लगते हैं=तव हस्तौ शीतलो इत्यनुभूयेते।

(४)उसे गर्मी नहीं लगती है=
(क)तेन आतप: न अनुभूयते।
(ख)स आतपं नानुभवति।

(५)उसे गर्मी लग रहा है=तेन आतप: अनुभूयते।

(६)उसे जाड़ा लग रहा है=तेन शीतम् अनुभूयते।

(७)उसे ठंढी लग गई है=सः शैत्येन पीडितः ।

(८)तुझे आज कैसा लग रहा है=अद्य त्वया कथम् अनुभूयते?

(९)यह पोशाक तुझे अच्छा लगता है=तुभ्यम् एतत् परिधानं रोचते।

(१०)यह आम मीठा लगता है=इदम् आम्रं मधुरम्  अस्ति।

(११)यह अमरूद खट्टा लगता है=एतत् दृढबीजम् अम्लीयम् अस्ति।

(१२)मेरी गाय खूब लगती है=
(क)मे गौ: सम्यग् दुह्यति।
(ख)मम धेनु: दुग्धं सम्यक्तया ददाति।
(ग)मम गौ: अतीव दुग्धं ददाति।

श्वशुरगृहं

राहुलः तस्य श्वशुरगृहं पत्नीम् आनेतुं गच्छन् आसीत्। 
मार्गे सः चायापणं गत्वा चायं पीतवान्। 
तदा चायविक्रेता तं पृष्टवान् भोः! भवान् कुत्र गच्छन् अस्ति? 

पत्नीम् आनेतुं श्वशुरगृहं गच्छन् अस्मि इति राहुलः अवदत्। 

चायविक्रेता तदा उक्तवान् सा तु विधवा अभूत्। इदानीं किमर्थं ताम् आनेतुं गच्छति भवान्? 

एतच्छ्रुत्वा सः अत्यन्तं निराशः अभवत्। ततः स्वगृहं प्रत्यागच्छत्। 
यदा सः गृहं प्राप्तवान् तदा तस्य माता तं दृष्ट्वा पृष्टवती किम् अभवत् पुत्र? एकाकी एव त्वं किमर्थं प्रत्यागतवान्? वधूः कुत्र? 

अम्ब! सा विधवा अभूत् इति चायविक्रेता अवदत्। अतः अहं ततः प्रत्यागतवान् इति राहुलः अवदत्। 

अरे मूढ! त्वयि जीविते सति सा कथं विधवा भवितुम् अर्हति? 😅😅

बालकस्य दिनचर्या

बालकस्य दिनचर्या एकस्मिन् रमणीये ग्रामे सोमः नाम एकः बुद्धिमान् बालकः वसति स्म। तस्य गृहं वृक्षैः परिवृतम् आसीत्। सः प्रतिदिनं ब्राह्ममुहूर्...