सोमवार, 26 अक्टूबर 2020

विद्यालय से जुड़े नाम संस्कृत में

।। विद्यालय से जुड़े नाम संस्कृत में ।।
(1.) क्लास रूमः--कक्ष्या
(2.) बेंच (पुस्तक रखने की)---दीर्घोत्पीठिका,
(3.) बेंच (बैठने की)---दीर्घपीठिका,
(4.) मेज---उत्पीठिका,
(5.) कुर्सीः--आसन्दः,
(6.) बैगः--स्यूतः,
(7.) किताब--पुस्तकम्,
(8.) कलम--लेखनी (कलमः),
(9.) लडकी--बाला या बालिका,
(10.) लडका--बालः,
(11.) छाता---छत्रम्,
(12.) टीचर (पुरुष)---शिक्षकः,
(13.) टीचर (लेडी) शिक्षिका,
(14.) अलमारी--काष्ठमञ्जूषा,
(15.) आरामकुर्सी---सुखासन्दिका,
(16.) इंक पेंसिल, डॉट पेन--मसितूलिका,
(17.) शूज--उपानह्,
(18.) ड्रेस---परिधानम्,
(19.) ओढनी--प्रच्छदपटः,
(20.) ओवरकोट---बृहतिका,
(21.) कंघी---प्रसाधनी,
(22.) कक्षा का साथी---सतीर्थ्यः, सहपाठी,
(23.) कमरा---कक्षः,
(24.) खिडकी---गवाक्षः,
(25.) पंखा---व्यजनम्,
(26.) एसी---वातायनम्,
(27.) डेस्टर--मार्जकः,
(28.) इन्स्पेक्टर---निरीक्षकः,
(29.) कम्प्यूटर---संगणकः,
(30.) कागज---कर्गदः, (कागदः) (कर्गलम्)
(31.) रिफिल---मसियष्टिः,
(32.) कॉपी---सञ्चिका,
(33.) रजिस्टर---पञ्जिका,
(34.) कार्टुन--उपहासचित्रम्,
(35.) ड्रॉइंग---रेखाचित्रम्,
(36.) कॉलेज--महाविद्यालयः,
(37.) स्कूल---विद्यालयः,
(38.) यूनीवर्सिटी--विश्वविद्यालयः,
(39.) किवाड--कपाटम्,
(40.) गेट--द्वारम्,
(41.) मेन गेट---मुख्यद्वारम्,
(42.) दीवार---भित्तिका,
(43.) दीवारघडी---भित्तिघटिका,
(44.) घडी---घटिका,
(45.) दवात का ढक्कन--कुप्पी,
(46.) कुर्ता--कञ्चुकः,
(47.) कैंची---कर्तरी,
(48.) कोठरी---लघुकक्षः,
(49.) गेटकीपर--द्वारपालः,
(50.) पिअन--सेवकः,
(51.) क्लर्क--लिपिकारः, करणिकः,
(52.) मैदान---क्षेत्रम्,
(53.) खेल का मैदान--क्रीडाक्षेत्रम्,
(54.) स्पोर्ट्स--क्रीडा,
(55.) गेन्द---कन्दुकः,गेन्दुकम्,
(56.) फुटबॉल---पादकन्दुकम्,
(57.) घण्टा--होरा,
(58.) चपरासी---लेखहारकः, प्रेष्यः,
(59.) चप्पल---पादुका, पादुुः,
(60.) चॉक--कठिनी,
(61.) चांसलर--कुलपतिः,
(62.) चारों ओर मुडने वाली कुर्सी---पर्पः,
(63.) रंग---वर्णः,
(64.) चिह्न-अंकः,
(65.) चोटी---शिखा. सानुः,
(66.) रिसिस---जलपानवेला,
(67.) जिल्द--प्रावरणम्,
(68.) झाडू--मार्जनी,
(69.) टाइम टेबल--समय-सारणी,
(70.) कैरीकुलम्---पाठ्यक्रमः,
(71.) टेनिस का खेल--प्रक्षिप्तकन्दुकक्रीडा,
(72.) एजुकेशन टाइरेक्टर---शिक्षासञ्चालकः,
(73.) डिप्टी डाइरेक्टर (शिक्षा)--उपशिक्षासञ्चालकः,
(74.) डेस्क--लेखनपीठम्,
(75.) ड्रॉइंग रूप---उपवेशगृहम्,
(76.) दरी--आस्तरणम्,
(77.) दस्ता (कागज का)--दस्तकः,
(78.) निब---लेखनीमुखम्,
(79.) नेट --जालम्,
(80.) नेलकटर---नखनिकृन्तनम्,
(81.) नेलपॉलिश--नखरञ्जनम्,
(82.) पायजामा--पादयामः,
(83.) पॉलिश---पादुरञ्जनम्, पादुरञ्जकः,
(84.) पेंसिल--तूलिका,
(85.) पैण्ट--आप्रपदीनम्,
(86.) पोर्टिको (बरामदा)---प्रकोष्ठः,
(87.) प्रिंसिपल---(पु.) प्रधानाचार्यः, प्रधानाध्यापकः प्राचार्यः, 
(स्त्री) प्रधानाचार्या, प्रधानाध्यापिका, प्राचार्या,
(88.) प्रोफेसर--प्राध्यापकः,
(89.) फर्श---कुट्टिमम्,
(90.) फाउण्टेन पेन---धारालेखनी,
(91.) फाइल--पत्रसञ्चयिनी,
(92.) फीस--शुल्कः,
(93.) बरामदा--वरण्डः,
(94.) बाथरूम---स्नानागारः,
(95.) बेंच--काष्ठासनम्,
(96.) बैंड---वादित्रगणः,
(97.) बैडमिण्टन---पत्रिक्रीडा,
(98.) मेज--फलकम्,
(99.) पढाई की मेज--लेखनफलकम्,
(100.) यूनिफॉर्म---एकपरिधानम्, गणवेशं

शनिवार, 24 अक्टूबर 2020

मंत्रालयस्य संकेतः

मंत्रालयस्य संकेतः अक्टूबर  मासस्य पूर्व  विद्यालयः मा संचालितम्।आगामी मासस्य कोरोना विषाणुतः  संक्रमणः गति तीव्ररूपेण वर्धयति यथा विद्यालयः अक्टूबर मासस्य पूर्व मा संचालितः मानव संसाधन विकास मंत्रालयस्य स्वास्थ्य विशेषज्ञः इति उच्यते , अतैव मंत्रालयाः  ऑनलाइन शिक्षणांशाः  बृहत्तमं संचालितः जातः। छात्राश्च विद्यालयश्च योजयेन्मनः ऑनलाइन शिक्षणांशस्य मूलतः उद्देशः अस्ति। एतत् क्षेत्रेषु द्वादश दूरदर्शनवार्ताः प्रसारण कार्येषु क्रियमाणः वर्तते। पूर्वस्मिन् कथ्यताम् विद्यालयः अगस्त मासे संचारः भवेत् इति विचार्यते किंतु अस्मिन् समये दिल्ली सह भारतस्य अनेकेषु प्रदेशेषु संक्रमणः वर्धते तस्य कारणे  मंत्रालयः एक  निर्देशः  पारितः  विश्वविद्यालय अनुदान आयोगाऽपि  परीक्षाश्च नवीन शैक्षणिक सत्रे नवीन  दिशानिर्दिश्यते।  यथा मंत्रालयः निर्दिशति - केंद्रीय विद्यालये ऑनलाइन शिक्षणम्  प्रारंभः अभवत्। छात्राणां दैनिकरूपेण द्वय च त्रयः घंटे अध्ययनम् अकुर्वन् तथापि लेखनम् परम्पराः अपि आरब्धवान्  किन्तु प्रति सप्ताहे केवलम् चत्वारि दिने कक्षायां संचालितः जातः। एतत् कार्यं शीघ्रमेव करोतु इति संदेशः सर्वेषु अभिभावकेषु प्राप्तवन्ताः।

आचार्य प्रताप

हिन्दी अपि सरलः नास्ति

 अधुना छात्राणां हिन्दी अपि सरलः  नास्ति

शिक्षकः- रामस्वरूप बीमार था फलस्वरूप मर गया।

रामस्वरूपः अस्वस्थ आसीत् फलस्वरूपः  मृतः जातः।

आधुनः छात्रः - भो श्रीमंतः ! यदा रामरस्वरूपः अस्वस्थ आसीत् तदा फलस्वरूपः किं मृत्युना धर्ममाचरेत्।

शिक्षकः- रे मूढः! एतत् अर्थः - रामस्वरूप अस्वस्थः आसीत् परिणामस्वरूपः मृतः जातः।

छात्रः  - हे भगवन्!  अधुना एषः तृतीय किं?

यत् अस्वस्थः तत् किं कारणम् न मृतः?

आचार्य प्रताप

अंतर्राष्ट्रीय नियमस्य आचरणं आवश्यकम्

वास्तविक नियंत्रण रेखा मध्ये  सैन्य तनाव हेतुः  विदेश मंत्री श्रीमान् स. जयशंकरः तथा चीनदेशस्य विदेश मंत्री श्रीमान्  वांग यी वास्तविक रूपेण वार्तालापः करणीयः किन्तु अस्य द्विपक्षीय संबंधे  वार्तालापं न क्रियते।

 तौ द्वौ विदेश मंत्रिणः  रूसी विदेश मंत्री सगेंई लावरोव सह  रूस-भारत-चीन संगठनस्य सभा मध्ये मिलित्वा।


अस्य सभा रूस देशस्य अयोजितवान। तदा रूसी विदेश मंत्री श्रीमान् सगेंई आधाकारिक रूपेणैव कथ्यते चीनश्च भारतश्च  मध्ये विवादः नाशयत्येषु अन्य देशस्य सहायः मा आनयत् इत्युच्यते। त्रय देशस्य वास्तविक सभा मध्ये श्रीमान् सगेंई अकथयत् संयुक्त राष्ट्र सुरक्षा परिषदेने भारते स्थायी सदस्यता प्राप्यताम्  इति पूर्णरूपेण समर्थनम् अकरोत्। पूर्वस्मिन् सभायाः विदेश मंत्री श्रीमान् जयशंकरः अकथयत् - यत्  यो देशः विश्वस्य मध्ये स्वयमेव अग्रणीः जानाति तत्त्वतः प्रति क्षेत्रे एकः उदाहरणानि प्रदर्शयितुं तथापि तन्मे सर्वेषां स्वसाझिदारयस्य हितार्थाय आंतरराष्ट्रीय नियमस्य आचरणं करणीया।।

विद्यावाचस्पति- मानद उपाध्या अलंकृतं

 श्रीरिखब चन्द राँका कल्पेश: जयपुरनगरम् विद्यावाचस्पति- मानद उपाध्या अलंकृतं भविष्यति।


साहित्य  संस्थानेन नव देहल्या आयोजित वार्षिकोत्सवे जयपुरं राजस्थानस्य रिखब चन्द राँका' महोदयं उपनाम इति कल्पेश:महोदयं. हिन्दीे साहित्ये दीर्घकालीन सेवाया कृते विद्यावाचस्पति मानद उपाध्या अलंकृतं भविष्यति। एतद सूचना साहित्य संस्थानस्य राष्ट्रीय मीडिया प्रसारया: राजेश कुमार पुरोहित महोदयेन दत्त:। तेन  उक्तवान् यत् अग्रिम जूनमासस्य   असम जनपदस्य तिनसुकिया नगरे  संस्थानस्य  वार्षिकोत्सवे रिखब चन्द राँका सहितेन पञ्च साहित्यकारान् विद्यावाचस्पति मानद उपाध्या सुशोभिता भविष्यन्ति। तत्र राँका महोदयेन विरचिता काव्य पुस्तिकाया: काव्यमेध  पुस्तक: तस्या विमोचनम् अपि तत्र भविष्यति ।अस्मिन कार्यक्रमे देशवैदेशिका: बहव: साहित्यकारा:भागं नेष्यन्ति ।एतद् वार्ता श्रुत्वा महोदयस्य बहव: मित्रगणा: महोदयं शुभाशया: प्रेषिता:।

श्री राँका महोदय: राष्ट्रीय संस्कृत विद्यापीठ मानित विश्वविद्यालयस्य तिरूपति आन्ध्रप्रदेशेन शिक्षाशास्त्री उपाध्या  प्राप्तवान्।


श्री राँका महोदय परम पूज्या भारत गौरव गणिनी आर्यिका १०५ विशुद्धमत्या: माताया अनन्य भक्तेषु प्रमुख: वर्तते।हिंदी साहित्ये उत्तम: ज्ञानं धारयति  एष: महोदयं श्री राँका  हिंदी साहित्यस्य प्रचार-प्रसार कारणेन साहित्य सेवायै: राष्ट्रीय अंतर्राष्ट्रियस्तरेषु अनेकान्  पुरस्कारान् सम्मानित: अभवन् तेन महोदयेन विरचिता चत्वारि पुस्तिकानि तेषां प्रकाशनं  विमोचनं च अभवन्।षड् साझा 'काव्य संग्रह  तेषा प्रकाशनम् अपि अभवन्।दैनिक भास्कर: सामान्य ज्ञान प्रतियोगी परीक्षाया: कृते प्रश्नं अपि निर्मितवान।

वर्तमान समये राँका महोदय: बहव: हिन्दी साहित्य संस्थानस्य  पदेषु  आसीना भूत्वा मातृभाषा उन्नयन संस्थानं राजस्थानजनपदस्य  प्रदेशाध्यक्ष:पद कार्यं कृत्वा हस्ताक्षर परिवर्तन माध्यमेन हिन्दीे भाषां राष्ट्रभाषा भवेत् एतस्य कृते अहर्निशं कार्यं करोति।

अक्षरवाणी

संस्कृतं संस्कृतिः संस्कारश्चेति एतत्त्रयं परस्परं संश्लिष्टम्।भारतीयसंस्कृतिःएकतस्तु संस्कृतभाषामाध्यमेन सम्यगवबुध्यते,अपरतश्च संस्कारैः सु-अभिव्यज्यते ।यथा संस्कृतं भारतीयसंस्कृतेः वाचिकं रूपं तथैव संस्कारोऽपि भारतीयसंस्कृतेः व्यावहारिकं वैभवम् अभिधीयते।
      मानवसभ्यतायाः सर्वाङ्गीणविकासक्रमे संस्काराणां महती आवश्यकता वर्तते। यथा दूषितजलस्य संस्कारद्वारा सर्वत्र विनियोगः संभवति, तथैव संस्काराणामनुष्टानेन सर्वकर्मषु योग्यता आगच्छति। ★अतः अयुक्तस्य पदार्थस्य योग्यताऽऽपादानं नाम संस्कारः।वैदिककादेव संस्काराणां वर्णनं प्राप्यते एवं वेदस्य कर्मकाण्डभागे संस्काराणामुल्लेखः प्राप्यते। 
       भारतीयसंस्कृतौ स्मृतिकारैः ब्राह्मणक्षत्रियवैश्यशूद्राख्याःचत्वारः वर्णाः परिकल्पिताः सन्ति।एतेषु आद्याः त्रयः वर्णाः 'द्विज'इति पदेन व्यवृह्यते।
 तेषां द्विजत्वं कथमिति प्रश्ने ऋषिभिर्दत्तमित्थमुत्तरम्-यथा "द्वाभ्यां जन्मसंस्काराभ्यां जायन्ते इति द्विजाः"। अत्र संस्कारो नाम किम्?......
           संस्कार शब्दः निष्पद्यते 'सम'उपसर्ग पूर्वकं 'कृञ् करणे'धातोः 'घञ्' प्रत्यये कृते सति अत्र भूषणार्थे सुडागमः भवति। तस्यार्थः भवति संस्करणं,परिष्करणं,शुद्धिकरणं, सुप्तशक्त्युद्बोधनमित्यादिः।
           "आत्मशरीरान्यतरनिष्ठो विहहितक्रियादिजन्योऽतिशयविशेषः संस्कारः"। मीमांसकाः हविष्यान्नं कर्त्तुं यत् प्रोक्षणादिकमाचरन्ति तत् संस्कारपदेनोच्यते तथैवात्रापि व्यक्तित्वं स्वधर्मानुकूलं कर्त्तुं क्रियमाणं योऽनुष्ठानं संस्कारेति पदेनाभिधीयते।
           #गृह्यसूत्रेषु संस्काराणां संख्या द्वादशतः अष्टादश पर्यन्तमेव स्वीकृता।अत्र अन्त्येष्टिसंस्कारस्याशुभत्वात् वर्णनं न प्राप्यते।गौतमधर्मसूत्रे संस्काराणां संख्या चत्वारिंशदिति महर्षिणा प्रतिपादिता।मनुस्मृतौ ग्रन्थकारेण त्रयोदशसंस्काराः विनिर्दिश्यन्ते। याज्ञवल्क्यस्मृतौ अन्त्येष्टिसंस्कारं विहाय मनप्रोक्ताः अन्ये द्वादश संस्काराःप्रतिपादिताः।एवं प्रकारेण संस्काराणां संख्याविषये नास्त्येकं मतम्।किन्तु अधिकाः प्रचलन्ति षोडससंस्काराः...।यतोहि षोडससंख्या संस्काराणां सम्पूर्णतां च द्योतयितुं प्रतिभाति।यथा- गर्भाधानपुंसवन सीमंतोन्नयनजातकर्मनामकरणनिष्क्रमणान्नप्राशनचूड़ाकरणकर्णवेधविद्यारंभोपनयनवेदारंभकेशांतसमावर्तविवाहान्त्येष्टयः।
      १.अत्रोद्दिष्टषोडशसंसकाराणां मध्ये प्रथमः 'गर्भाधानम्' शिशोर्जन्मनः प्राक् तन्निमित्तो यः संस्कारः स एव गर्भाधानमिति नामकः।
      २.द्वितीयः पुंसवनमिति संस्कारः भवति-गर्भलक्षणे दृष्टे सति पुंसवनसंस्कारस्य विधानं वर्तते। येन संस्कारेण गर्भस्थ जीवः पुमान् क्रियते,स पुंसवनसंस्कारेत्युच्यते।
      ३.सीमन्तोन्नयनसंस्कारः गर्भतश्चतुर्थे षष्ठे वा मासे संपादनीयः।संस्कारेस्मिन गर्भवत्याःकेशपाशमलङकुर्वन् पतिः.स्वयमेव सीमन्तमुन्नयति। एते त्रयः संस्काराः जनमनः प्राक्.भवन्ति।
      ४./५.जातकर्मसंस्कारःशिशोर्जन्मनः परं सद्यः संपाद्यते,एवं नामकरणसंस्कारः जन्मतः दशमदिनादारभ्य द्वितीयवर्षस्य प्रथमदिवसं यावत् कर्त्तुं शक्यते।
      ६.निष्क्रमणसंस्कारः-नाम शिशोः जन्मतः परं प्रथमतया गृहाद् बहिरानयनमेव इति। संस्कारोSयं चतुर्थे मासे भवति।
      यथोक्तं वर्तते यमस्मृतौ-"चतुर्थमासि कर्त्तव्यं शिशोर्चन्द्रश्य दर्शनम्"
      ७.षष्ठमासे शिशोः अन्नप्राशनसंस्कारो विहितः।व्यक्तित्वविकासे अनिवार्याssहारशुद्धिरुपनिषद्युक्तम्-                
            आहार शुद्धौ सत्वशुद्धिः।
                           सत्वशुद्धौ ध्रुवास्मृतिः
                                  स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः।
      ८.चूडाकर्म शिशोः प्रथमे,तृतीये,पञ्चमे वाष्टमे क्रियते, अथवा उपनयनसमयेsपि कर्त्तुं शक्यते।चूडा इत्यस्यार्थः शिखेति।
      ९. शैशवावस्थायारन्तिमो संस्कारः 'कर्णवेधः' 'वीरमित्रोदये' जन्मनः दशमे षोडशे वा दिने प्रोक्तः।कारिकेयं प्रतिपादयति कर्णवेधस्य धार्मिकं महत्वम्-
            कर्णरन्ध्रे रवेश्छाया न विशेदग्रजन्मनः।
            ते दृष्ट्वा विलयं यान्ति पुण्यौघाश्च पुरातनाः।।
       १०.विद्यारम्भः दशमः संस्कारः। अस्यापरन्नाम अक्षरारम्भः इति।प्रायशः पञ्चमे वर्षे सूर्योत्तरायणे सुमुहूर्ते सस्कारोsयं विधीयते।
       ११.उपनयनसंस्कारः सर्वप्रमुखरूपेण स्वीक्रियन्ते विद्वद्भिर्संस्कारेषु।उपनयनसंस्कारानन्तरमेव कश्चित् वेदाध्ययनस्याधिकारी भवति।उपनयनसंसकारो$यमधुना यज्ञोपवीतसंस्कार नाम्ना प्रसिद्धम्।
       १२.वेदारम्भः-शुभमुहूर्त्ते गुरुः स्वशिष्यं प्रदीपाग्नेः पश्चिमतः उपवेशयति। हवनादिकञ्च संपाद्य वेदाध्ययनं प्रारभ्यते।
       १३.केशान्तसंस्कारः-अस्यापरन्नाम गोदानसंस्कारेति।
       १४.समावर्तनम्-विद्याध्ययनं परिसमाप्य गुरोराश्रमात् गृहागमनं समावर्त्तम्। विद्याध्ययनान्तरं गुरवे दक्षिणा दातव्या। तद्विषये उक्तं मनुना-
              क्षेत्रं हिरण्यं गामश्वं क्षत्रोपाह्नमन्ततः।
              धान्यं शाकञ्च वासांसि मुखे प्रीतिमाहरन्।।
        १५.भारतीयसंस्कृतौ यज्ञाधिकाराय पितृऋणमुक्तये विवाहसंस्कारविधानं वर्तते।मनुना विवाहस्याष्टौ भेदाः कृतः।ब्राह्मदैवार्षप्राजापत्यासुरीगान्धर्वराक्षसपैशाचाः।
        १६.अन्त्येष्टिसंस्कारः अन्तिमोसंस्कारः वर्तते। अयं निवृत्तिप्रधानः वर्तते।शास्त्रकारैः संस्कारतया न गण्यते,तेषां मते विवाहः एव चरमः संस्कारः।अन्त्येष्टिः-अन्त्या इष्टिः=अन्तिमो यज्ञः। तस्मादयं संस्कारः जीवनस्यान्तिमोयज्ञः एव.........।।

            सांप्रतिके लोके महती आवश्यकता वर्तते जनान् बोधयितुं यदस्माकं भारतीयसनातनसंस्कृतिरुत्कृष्टोत्कृष्टा वर्तते। षोडशसंस्कारैस्संस्कारिताः जनाःजीवत्वं विहाय सच्चिदानन्दरूपं ब्रह्मपदमधिगच्छति।।।।।।।........✍️
                                सतीशभार्गवः
                                शिक्षाशास्त्री
                                राष्ट्रियसंस्कृतसंसथानम्

होलिकापूजन

(होली उत्सव)

 होलिकोत्सवः सर्वेषा जनानां प्रियः उत्सवः अस्ति। हिन्दुनाम् अयं प्रसिद्धः उत्सवः अस्ति। एष उत्सवः फाल्गुन मासस्य पूर्णिमायां भवति। जनाः अपि परस्परं रंगाजितं जल प्रक्षिपन्ति। ते परस्परेभ्यः मिष्टान्नं वितरन्ति। बालकाः कूर्दन्ति, गायन्ति, नृत्यन्ति च। परस्परं रंगप्रक्षेपेण अतीव प्रसीदन्ति। पुरा हिरण्यकश्यपुः नाम नास्तिकः राजा अभवत्। सः पुत्र: मारयिंतु स्वभगिनीं होलिकां तस्य वधे न्ययोजयत्। किन्तु होलिका अग्नौ भस्मसात् अभवत् प्रहलादः च सुरक्षितः अतिष्ठत्। होलिकोत्सवः तस्मात् प्रभृति होलिकादहनमुद्दिश्य प्रारब्धः। अस्मिन् दिने अग्नौ सर्वेषां पापानां दहनं भवति तथा असत्प्रवृत्तेः नाशः भवति इति जनैः मन्यते। सर्वेषु उत्सवेषु अयम् उत्सवः अधिकः प्रियः अस्ति। अस्मिन् दिवसस्य समुपलक्ष्ये सर्वेषां कृते होलिकादिवसस्य हार्दिक्य शुभाशयाः।

होलिकापूजनमन्त्रः -

असृक्याभयसंत्रस्तैः कृत्वात्व होलि बालिशैः । अतस्त्वां पूजयिष्यामि भूते भूतिप्रदाभवः।।
सर्वेभ्य: होलिका - पर्वण: हार्दिक्य: शुभकामना: भवन्तु।

रेखा शास्त्री
महर्षि पाणिनि वैदिक विश्वविद्यालय उज्जैन (म.प्र.)

समाचार

हैदराबादस्य सेंट अल्बंस उच्च-विद्यालये मार्च मासस्य द्वयसहस्र एकोनविंशति दिनाङ्कऽस्मिन् विदाई - समारोहे वार्षिकोत्सवे च अक्षरवाणी इति समाचारपत्रस्य राज्यस्तरीयः प्रमुखसंपादकः राष्ट्रीयकविश्च श्रीमन्नाचार्य प्रताप महोदयः प्रमुखातिथीरुपेण आमन्त्रितम् कृतवान् आसीत्। समारोहेऽस्मिन् पुरस्कारप्राप्त-छात्रान् पुरस्कारैः सम्मानितं कृतवन्तः।
     
यत्र विशेषतः हसन अली 'विराट' छात्रः शैक्षणिक - सत्रस्य द्वयसहस्र अष्टादशः - एकोनविंशति, उत्कृष्ट छात्ररूपेण सम्मानितं कुर्वन् प्रथमं पुरस्कारं प्रदानं कृतम्  तथा मुबिना बेगमः छात्रा द्वितीयः पुरस्कारः सम्प्राप्ता तथाश्च शैक्षणिक - प्रगत्याधारे जेबा नाज इति छात्राणां प्रथमा मुबिना बेगमश्च द्वितीयः पुरस्कारः प्राप्तवाति अन्यश्च निशात परवीनः, रहीम खानः, सना बेगमः, नागराजः , अमरीन उनीस्साः , मोहम्मदी खानाश्च दिसहितैः शेषैः अन्यछात्रान् अपि पुरस्कारौ पुरस्कृतवन्तः। अस्मिन् कार्यक्रमे विद्यालयस्य संचालिका आदरणीया श्रीमती पद्मावती कोंगारीमहोदया अपि उपस्थिता आसीत्।

बुधवार, 21 अक्टूबर 2020

वाक्याभ्यासः

१.बालक अध्ययन के लिए स्कूल जाता है।
=बालकः अध्ययनाय विद्यालयं गच्छति।

२.वह धन के लिए विदेश जाता है।
=सः धनाय विदेशं गच्छति।

३.राजा निर्धन को धन देता है।
=राजा निर्धनाय धनं यच्छति।

४.रीता पानी के लिए कुए पर जाती है।
=रीता जलाय कूपं गच्छति।

५.वृक्ष से पत्ते गिरते है।
=वृक्षात् पत्राणि पतन्ति।

६.बेल से फूल गिरते है।
=लतायाः पुष्पाणि पतन्ति।

७.बालक साप से डरता है।
=बालकः सर्पात् बिभेति।

८.दशरथ के चार पुत्र थे।
=दशरथस्य चत्वारः पुत्राः आसन्।

९.श्रीराम की पत्नी सीता थी.
=श्रीरामस्य पत्नी सीता अासीत्.
 
१०.देव का भाई विदेश से अा गया है.
=देवस्य भ्राता विदेशात् अागच्छत्.

मंगलवार, 20 अक्टूबर 2020

षोडशके द्रव्यगणे

षोडशके द्रव्यगणे चतुर्विकल्पेन भिद्यमानानाम्।
अष्टादश जायन्ते शतानि सहितानि विंशत्या॥


ṣoḍaśake dravyagaṇe caturvikalpena bhidyamānānām
aṣṭādaśa jāyante śatāni sahitāni viṃśatyā

Translation by V. Subramanya Sastri—“Out of a collection of sixteen kinds of substances, the number of perfumes that can be made by selecting any four will be 1820.”

My translation—“When there is a collection of sixteen entities, on being distinguished by options (=selections) of four, there arise eighteen hundreds along with twenty (18 × 100 + 20 = 1,820).”

संस्कृत अभ्यास:

१.घर के चारो अोर जल है.
=गृहं परितः जलम् अस्ति.

२.शहर के निकट मन्दिर है.
=नगरं समया मन्दिरम् अस्ति.

३.स्कूल के सामने कुअा है.
=पाठशालाम् अभितः कूपः अस्ति.

४.मैं मित्र के साथ बाजार जाती हू.
=अहं मित्रेण सह अापणं गच्छामि.

५.रमा माता के साथ शहर जाती है.
=रमा मात्रा सह नगरं गच्छति.

६.श्याम अाख से काणा है.
=श्यामः नेत्रेण काणः अस्ति.

७.परिश्रम के विना विद्या कहा?
=परिश्रमेण विना विद्या कुतः?

८.राजा चोर पर क्रोध करता है.
=राजा चौराय क्रुध्यति.

९.मुझे दही अच्छा लगता है.
=मझ्यं दधि रोचते.

१०.वीर देश को शत्रुअों से बचाता है.
=वीरः देशं शत्रुभ्यः रक्षति.

तुषी चकमा

विपत्तौ काले धैर्येण स्थातव्यम्।

विपत्तौ काले धैर्येण स्थातव्यम्

महाभारतस्य युद्धे द्रोणाचार्यं छलेन अघ्नन् इति विदित्वा पुत्रः अश्वत्थामा अत्यन्तं कुपितः अभवत्। 

सः तदा पाण्डव-सेनायाः उपरि नारायणास्त्रेण आक्रमणम् अकरोत्।
नारायणास्त्रम् अत्यन्तं भयङ्करम् आसीत् यत् तं रोद्धुं केनापि न शक्यम्।

यः कोऽपि योद्धा हस्ते अस्त्रं निधाय युद्धं कर्तुम् उद्युक्तः दृश्यते चेत् नारायणास्त्रं तस्योपरि अग्निवृष्टिं कारयित्वा तं शीघ्रं नष्टं करोति स्म। 

एतद् दृष्ट्वा पाण्डवाः सर्वे भीताः सन्तः भगवतः श्रीकृष्णस्य समीपं गत्वा तस्य अस्त्रस्य विषये अपृच्छन्। केन उपायेन तं रोद्धुं शक्यते इत्यपि अपृच्छन्। 

भगवान् श्रीकृष्णः तदा उक्तवान् तम् अस्त्रं परास्तुं केवलम् एकैव उपायः अस्ति यद् भवन्तः सर्वे अस्त्राणि शस्त्राणि त्यक्त्वा केवलं तस्य वन्दनां कुर्वन्तु, मनसि युद्धं कर्तुम् इच्छा अपि न भवेत् कस्यापि इति। 

सर्वे तथैव कृतवन्तः। तत्पश्चात् नारायणास्त्रस्य प्रभावः शनैः शनैः समाप्तः अभवत्। 

अनेन उपायेन पाण्डवसेनायाः रक्षा अभवत्। 

अस्य कथाप्रसङ्गस्य तात्पर्यं किम् इति चिन्तयन्तु।

प्रत्येकं स्थाने युद्धं कृत्वा विजयी भवितुं न शक्यते केनापि। 
अतः प्रकृतेः प्रकोपात् रक्षणाय कदाचित् अस्माभिः सर्वैरपि तूष्णीं भूत्वा सर्वमपि कर्म त्यक्त्वा हस्तौ योजयित्वा तस्य भगवतः वन्दना करणीया।

तदा एव वयं सर्वे तस्मात् प्रकोपात् रक्षां प्राप्नुयाम। 

कोरोणाविषाणोः प्रकोपः अपि शीघ्रं समाप्तः भविष्यति। 
भगवता श्रीकृष्णेन प्रोक्तः उपायः कदापि विफलः न भविष्यति। 
जय श्रीकृष्ण

करबद्धनिवेदनम्

#प्रिय_बान्धवाः
#शरीरमाद्यं_खलु_धर्मसाधनम् ।
#करोनाविषाणुः प्रसरति सर्वत्र वेगेन ।
सत्यमेव बहु बहु बहु बहु #गम्भीरतास्ति । 
#वृथा_न_गच्छन्तु_बहिः ।
स्वस्था भवन्तु स्वगृहे एव ।
#अतिबुद्धिप्रयोगः मास्तु ।
मम किमपि न भवति इति गर्वं न कुर्वन्तु ।
आशास्ति कस्यापि किमपि दुःखं न स्यात् !
🙏🙏🙏🙏🙏🙏🙏🙏
करबद्धनिवेदनम्

एकेन रुप्यकेन ईश्वरः क्रेतव्यः

!!!---: एकेन रुप्यकेन ईश्वरः क्रेतव्यः :---!!!
============================

एकः अष्टवर्षीयबालकः हस्ते एकं रुप्यकम् आदाय एकम् आपणं गत्वा आपणिकं पृच्छति महोदय! भवतः आपणे ईश्वरः अस्ति वा? इति

आपणिकः बालकस्य वचनं श्रुत्वा तस्य धनमुद्राम् अधः पातितवान् अपिच तं बालकं प्रताडितवान्। 

पुनः सः एकं रुप्यकं नीत्वा पार्श्वस्थम् आपणं गत्वा तूष्णीम् स्थितवान्।

आपणिकः तं दृष्ट्वा पृष्टवान् भो बालक! एकेन रुप्यकेन त्वं किं नेतुम् इच्छसि? इति। 
अहम् ईश्वरम् इच्छामि, अस्ति वा भवतः आपणे इति बालकः पृष्टवान्। 

तस्य बालकस्य वचनं श्रुत्वा सोऽपि आपणिकः तं प्रताडितवान्।

एवमेव सः बालकः रुप्पकमेकं नीत्वा प्रायः चत्वारिंशत् आपणान् गतवान् परन्तु कुत्रापि तेन ईश्वरः न लब्धः, अपि च तं सर्वे अपि आपणिकाः प्रताडितवन्तः।

परन्तु सः बालकः निराशः न अभवत्। अन्ते च सः एकस्य वृद्धस्य आपणं गतवान्। सः तम् आपणिकमपि तथैव पृष्टवान्। 

वृद्धः आपणिकः बालकस्य वचनं श्रुत्वा तं पृष्टवान् हे बालक! त्वं किमर्थम् ईश्वरं क्रेतुम् इच्छसि? ईश्वरं नीत्वा त्वं किं करिष्यसि? इति। 

प्रथमवारं कस्यापि आपणिकस्य मुखात् प्रश्नं श्रुत्वा तस्य बालकस्य मनसि किञ्चिद् आशा उत्पन्ना। मन्ये अस्मिन् आपणे ईश्वरः अस्ति सः बालकः चिन्तितवान्। 

अतः सः उत्साहेन उत्तरितवान् महोदय। अस्मिन् जगति मम मातरम् विहाय अन्यः अन्या वा कोऽपि नास्ति। मम माता कार्यं कृत्वा मह्यं भोजनम् आनयति।

इदानीं सा रुग्णा अस्ति अतः सा चिकित्सालये प्रविष्टा अस्ति।
यदि मम माता म्रियेत तर्हि मां कः का वा भोजनं दद्यात्? 
ईश्वरः एव मम मातुः रक्षां कर्तुं शक्नोति इति वैद्यः उक्तवान्। 
अतः भवतः आपणे ईश्वरः अस्ति वा?  

आपणिकः- आम्, ईश्वरः प्राप्यते, परन्तु तव पार्श्वे कति रुप्यकाणि सन्ति? 

केवलम् एकं रुप्यकम् अस्ति इति बालकेन उक्तम्। 

अस्तु चिन्ता नास्ति। एकेन रुप्यकेन ईश्वरः लभ्यते एव इति आपणिकः उक्तवान्। 

आपणिकः बालकस्य हस्तात् एकं रुप्यकं स्वीकृत्य जलशोधन्याः चषकमेकं जलं स्वीकृत्य तस्मै प्रदाय उक्तवान् एतज्जलं नीत्वा तव मातरं पाययति चेत् सा शीघ्रं स्वस्था भविष्यति इति। 

परेद्युः केचन विशिष्टाः वैद्याः चिकित्सालयं गत्वा तस्य बालकस्य मातुः शल्यचिकित्सां कृतवन्तः, तस्मात् सा महिला स्वस्था अभवत्। 

तदनन्तरं चिकित्सालयात् तया महिलया प्राप्तं मुक्तिपत्रं पठित्वा तस्मिन् पत्रे चिकित्साशुल्क शून्यम् इति दृष्ट्वा सा आश्चर्यचकिता अभवत्। 

तदा वैद्यः तस्यै आश्वासनं प्रदाय उक्तवान् चिन्ता न कार्या, एको वृद्धः सज्जनः भवत्याः सर्वं चिकित्साशुल्कं दत्तवान्। अपिच एकं पत्रमपि सः दत्तवान्। 

सा महिला तदा तत् पत्रं पठितुम् आरब्धवती। तस्मिन् पत्रे लिखितम् आसीत् - मम कृते धन्यवादस्य आवश्यकता नास्ति। भवतीं तु स्वयम् ईश्वरः एव रक्षितवान्। यदि कस्मै अपि धन्यवादं दातुम् इच्छति तर्हि भवत्याः पुत्राय ददातु। 

स अबोधबालकः यः केवलम् एकं रुप्यकं नीत्वा ईश्वरस्य अन्वेषणं कर्तुम् आरब्धवान्। तस्य मनसि दृढविश्वासः आसीत् यत् केवलम् ईश्वरः एव भवतीं रक्षितुं शक्नोति इति। 

यदि मनसि दृढविश्वासः भवेत् चेद् एकेन रुप्यकेन एव ईश्वरं प्राप्तुं शक्यते, कोटिरुप्यकाणां दानस्य आवश्यकता न भवति इति शम्।

शूक्ति-सुधा

1. संघे शक्ति: कलौ युगे। – एकता में बल है।
2. अविवेक: परमापदां पद्म। – अज्ञानता विपत्ति का घर है।
3. कालस्य कुटिला गति:। – विपत्ति अकेले नहीं आती।
4. अल्पविद्या भयंकरी। – नीम हकीम खतरे जान।
5. बह्वारम्भे लघुक्रिया। – खोदा पहाड़ निकली चुहिया।
6. वरमद्य कपोत: श्वो मयूरात। – नौ नगद न तेरह उधार।
7. वीरभोग्य वसुन्धरा। – जिकसी लाठी उसकी भैंस।
8. शठे शाठ्यं समाचरेत् – जैसे को तैसा।
9. दूरस्था: पर्वता: रम्या:। – दूर के ढोल सुहावने लगते हैं।
10. बली बलं वेत्ति न तु निर्बल : जौहर की गति जौहर जाने।
11. अतिपर्दे हता लङ्का। – घमंडी का सिर नीचा।
12. अर्धो घटो घोषमुपैति नूनम्। – थोथा चना बाजे घना।
13. कष्ट खलु पराश्रय:। – पराधीन सपनेहुँ सुख नाहीं।
14. क्षते क्षारप्रक्षेप:। – जले पर नमक छिड़कना।
15. विषकुम्भं पयोमुखम। – तन के उजले मन के काले।
16. जलबिन्दुनिपातेन क्रमश: पूर्यते घट:। – बूँद-बूँद घड़ा भरता है।
17. गत: कालो न आयाति। – गया वक्त हाथ नहीं आता।
18. पय: पानं भुजङ्गानां केवलं विषवर्धनम्। – साँपों को दूध पिलाना उनके विष को बढ़ाना है।
19. सर्वनाशे समुत्पन्ने अर्धं त्य​जति पण्डित:। – भागते चोर की लंगोटी सही।
20. यत्नं विना रत्नं न लभ्यते। – सेवा बिन मेवा नहीं।

करोणाव्याप्तिपञ्चकम्

करोणाव्याप्तिपञ्चकम्
*******************
(१)
हस्ते करोणा चरणे करोणा
मुखे करोणा नयने करोणा।
नासापुटे खेलति सा करोणा
स्पर्शात् करोणावरणं न कुर्यात्।।
(२)
ग्रामे करोणा नगरे करोणा
वीथ्यां करोणा मनुजे करोणा।
मार्गे करोणा विपणौ करोणा
स्पर्शात् करोणावरणं न कुर्यात्।।
(३)
कार्ये करोणा गमने करोणा
द्रव्ये करोणा वसने करोणा।
वाक्ये करोणा शयने करोणा
स्पर्शात् करोणावरणं न कुर्यात्।।
(४)
गोष्ठ्यां करोणा निचये करोणा
देवे करोणा भजने करोणा।
देवालये पाठगृहे करोना
स्पर्शात् करोणावरणं न कुर्यात्।।
(५)
बाले च वृद्धे सहसा करोणा 
वैद्यालये तीव्रतमा करोणा।
चिकित्सके तस्य जने करोणा
स्पर्शात् करोणावरणं न कुर्यात्।।

माघः

माघः संस्कृते प्रसिद्धेषु पञ्चसु महाकाव्येषु शिशुपालवधरूपकस्य रचयिता । शिशुपालवधमपहाय अन्यः कोऽपि माघस्य ग्रन्थः नोपलभ्यते ।
जन्मवृत्तान्तः  - शिशुपालवधस्य अन्ते पञ्चसु पद्येषु माघः किञ्चिन्निवेदयति । तदनुसारेण ज्ञायते माघस्य पितामहः सुप्रभदेवः य: किल वर्मलातनाम्नो राज्ञः मन्त्री बभूव । माघस्य पितुः नाम दत्तकः इति ।
देशकालादयः   -राजास्थानस्य वसन्तपुरप्रदेशे वर्मलातराजस्य कञ्चन शिलालेखः सम्प्राप्तः । अस्य लेखस्य समयः क्रि. श. ६२५ इति निश्चितः । अयमेव वर्मलातः यदि माघपितामहस्य आश्रयदातेति सम्भाव्यते तर्हि माघस्य समयः प्रायः क्रि. श. ६७५-७५० भवेदिति सम्भाव्यते । शिशुपालवधस्य द्वितीयसर्गस्थितः,
अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना ।
शब्दविद्येव नो भाति राजनीतिरपस्पशा ॥
इति श्लोकः काशिकावृत्तिं (क्रि. श. ६५०), जिनेन्द्रबुद्धिन्यासं च (क्रि. श. ७००) प्रकारान्तरेण निर्दिशन् माघस्य पूर्वोक्त्तं समयं सममर्थयतीव ।
माघस्यैतिह्यविषये स्वल्पमपि आभ्यन्तरप्रमाणमपि लभ्यते । शिशुपालवधस्य समाप्तौ कविवंशवर्णनप्रसङ्गोऽपि समुपस्थापितोऽस्ति । तदनुसारेण माघो सुप्रभदेवाख्यस्य पौत्रो दत्तकाख्यस्य पुत्रः आसीत् । यथोक्तं तत्र 
सर्वाधिकारी सुकृताधिकारः श्रीचर्मलातस्य बभूव राज्ञः ।
असक्तदृष्टिर्विरजाः सदैव देवोऽपरः सुप्रभदेवनामा ।।
••••••••••••••
तस्याभवद् दत्तक इत्युदात्तः क्षमी मृदुर्धर्मपरस्तनूजः ।।
•••••••••••••••••••
"तस्यात्मजः सुकविकीर्तिदुराशयाऽदः, काव्यं व्यधत्तं शिशुपालवधाभिधानम्।"
वर्मलातनामा नृपतिः वर्मनामा वर्मनाभः धर्मनामः धर्मलात इतिप्रभृति नामभिरपि परिचितः । वसन्तगढग्रामे तेन स्थापितमेकं शिलाशासनं समुपलब्धमस्ति । यथोक्तं तत्र -
द्विरशीत्यधिके काले षण्णां वर्षशतोत्तरे ।
जगन्मातुरिदं स्थानं स्थापितं गोष्ठिपुङ्गवैः।।
जयति जयलक्ष्म्यलक्षितवक्षःस्थलसंशयोदारः।
श्रीवर्मलातनृपतिः पतिरवनेरधिकबलवीर्यः॥ इति ।
यद्यपि कविवंशवर्णनपराणि पञ्च पद्यान्यपि मल्लिनाथादिभिः व्याख्यानान्येव तथापि तेषां मौलिकत्वं तु ससंशयमेव। यतो हि तद्ग्रंथनशैली ग्रन्थनिर्वाहितशैल्या भिन्नैव । सम्भवति पश्चाद्वर्तिना केनाऽपि तानि प्रक्षिप्तान्यपि स्युः । सत्यपि तथा स्वल्पमपि कविपरिचयप्रकाशं तु तेभ्यः प्राप्यत्येव प्रक्षेपकस्यापि आप्तत्वात् । श्रीवर्मलातो नृपः सम्भवतो वलभीं शासति स्म । तस्य च स्थितिकालः स्पष्टत: ६८२ मितवैक्रमाब्दमभितः शिलालेखे तथोल्लिखितत्वात् । तेन हि सुप्रभदेवस्याऽप्ययमेव कालः । तस्य हि सुतो दत्तकः सर्वाश्रयः । तस्य च कालस्तदन्तरवर्ती, सम्भवतः ६७०-७३० मितवैक्रमाब्दानभितः । तस्य पुत्रो माघ इति तस्य कालः ७००-७०० मितवैक्रमाब्दानभितोऽनुमितः समालोचकैः ।
अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना।
शब्दविद्येव नो भाति राजनीतिरपस्पशा ।।
उक्तं शिशुपालवधगतं पद्ममाधृत्य केचित्तु वृत्तिशब्देन काशिकावृत्तिं जयादित्यप्रणीतां न्यासशब्देन जितेन्द्रबुद्धेः विवरणपञ्जिकां च गृहीत्वा यथानिर्दिष्टं मल्लिनाथवल्लभदेवादिभिः व्याख्यातृभिः माघस्य समयो जितेन्द्रबुद्धेः पश्चाद्वर्तीत्यपि मन्यन्ते । किन्त्वेष भ्रम एव दृश्यते 'दिङ्नागानां पथि परिहरन्' इति कथनेन कालिदासदिङ्नागयोः समकालिकत्वकल्पनमिव । यतो हि बाणस्य समयस्तु सुनिश्चित एव । न कदापि काशिकावृत्तिकारेण बाणपूर्ववर्तिना भाव्यम् । काशिकावृत्युपरि हरदत्तस्य पदमञ्जरी टीका । तस्या एव व्याख्या जितेन्द्रबुद्धेर्न्यासापराभिधा। किन्तु बाणभट्टोऽपि न्यासं ग्रन्थं स्मरति 'कृतगुरुपदन्यासा लोक इव व्याकरणेऽपि' इति कथनेन । तेन हि जितेन्द्रबुद्धेः पूर्वमपि आसन्ननेके न्याससंज्ञिताः ग्रन्थाः । अष्टाध्याय्याः वृत्तिग्रन्थश्च काशिकापूर्वमप्यासीदेव यदुपरि वार्तिकानि प्रणीतानि कात्यायनादिभिः । वस्तुतस्तु अष्टाध्यायी सूत्राणामाद्यो वृत्तिकारः पाणिनिरेव तदनु च व्याडिरिति सर्वसम्मतमेव । अतो नेदं प्रमाणं माघकालनिर्णये । अपरञ्च जितेन्द्रबुद्धिः पदमञ्जरीमनुसरति । पदमञ्जरीकारी हरदत्तः स्वयमेव माघं स्मरतीति निरस्तैव जितेन्द्रबुद्धेः माघपूर्ववर्तिता।सामान्यतो बाह्यमाणैरपि माघस्य समयं निर्णेतुं शक्यते । बाणभट्टो माघं न स्मरतीति सामान्यतः इदमेव तस्य स्थितिकालस्य पूर्वसीमा । यद्यपि स भट्टिमपि न स्मरति तथैव भारविमपि तथापि सामान्यरूपेणेदमुच्यते । भारविमनुजीवति माघ इति तथा रेखा कल्पिता । यशस्तिलकचम्पूकारः सोमदेवः (१०१६ वै०), ततः पूर्ववर्ती ध्वन्यालोककृदानन्दवर्धनः (९०७ वै०) कविराजमार्गस्य प्रणेता नृपतुङ्गदेवः (८७१ वै०) च माघं स्मरन्ति । तुङ्गदेवस्तु तं कालिदाससमकक्षत्वेन स्तौति । अतस्ततोऽपि न्यूनतममपि शताब्दीपूर्वमेव माघस्य स्थितिकालेन भाव्यमेव । अनेनाऽपि माघस्य स्थितिकालः ७७० वैक्रमाब्दमभितः आपतति सामान्यतः । स च दीर्घजीवी आसीत् । तेन तस्य स्थितिकालः ७००-७८० मितवैक्रमाब्दान्तरालेऽनुमितः विद्वद्भिः। प्रचलितकिंवदन्त्यनुसारेण, यथा भोजप्रबन्धे प्रबन्धचिन्तामणौ च लिखितं, माघो नाम कश्चिद्विचक्षणो भोजस्य सभायामासीत् । कोऽसौ माघः कश्चासौ भोज इति तु नाधुनाऽपि स्पष्टम् ।सामान्यतो राजा भोजशब्देनाऽप्युच्यते । महाभारते भोजशब्दो राजबोधकत्वेन प्रयुक्तो दृश्यते । नाम्नापि भोजाख्यास्त्रयो राजानोऽभूवन्निति वदन्त्येतिहासिकाः, येषु टोडर-महाशय अन्यतमः। धारानगरीशः परमारवंशीयो भोजस्तु १०६०-१११० मितवैक्रमाब्दान्तराले स्थितिमानिति सप्रमाणं प्राप्यते। माघस्य तत्समकालिकत्वे मते सति तस्य हि 'रम्या इति प्राप्तवतीः पताकाः'[३] 'त्रासाकुलः परिपतन्'[४] इति पद्यद्वयमुद्धरत आनन्दवर्धनस्य कः स्थितिकालः स्याद् यं हि कुन्तको, राजशेखरः, महिमभट्टश्च, स्वयमेव भोजोऽपि स्मरति अभिनवगुप्तस्तु व्याख्यात्यपि । तेन नैव माघो धारानगरीशभोजसमकालिकः । इदं सम्भवति यत्कश्चिद्भोजाख्यो नृपः यमैतिहासिका द्वितीयभोजमिति परिचिन्वन्ति, चितौर (चित्रवर) नगरे ७०७ मितवैक्रमाब्दात् ७३२ मितवैक्रमाब्दपर्यन्तं शासनरतः आसीत् । तेनास्य माघाश्रयदातृत्वं सिध्यत्यपि। अपरञ्च माघस्य श्रीमालवास्तव्यत्वम् - 'इति श्रीभिन्नमालवास्तव्यदत्तकसूनोर्महावैयाकरणस्य माघस्य कृतौ शिशुपालवधे महाकाव्ये' इति शिशुपालवधपुष्पिकावाक्यतो ज्ञायते । श्रीमालवास्तव्यश्चित्तोरनगरीमाश्रितवानिति न किमप्याश्चर्यम्।
कृतयः - शिशुपालवधमपहाय अन्यः कोऽपि माघस्य ग्रन्थः नोपलभ्यते । शिशुपालवधस्य कथावस्तु महाभारतात् संगृहीतम् । यदुनन्दनोऽत्र नेता, वीरस्तु प्रधानरसः । इन्द्रेण प्रेषितो नारदः द्वारकायां श्रीकृष्णमुपगम्य शिशुपालवधाय प्रोत्साहयति । तस्मिन्नेव समये श्रीकृष्णः युधिष्ठिरेण राजसूययागाय आहूतो भवति । कार्यद्वयाकुलो वासुदेवः उद्धवेन बलरामेण च समं संमन्त्र्य राजसूयं गच्छति तत्र शिशुपालं निहन्ति च ।

शिशुपालवधम्
माघस्य सम्प्रत्येकैव कृतिर्लभ्यते शिशुपालवधं नाम महाकाव्यम् । तत्र हि महाभारताश्रिता शिशुपालवधात्मिका कथा वर्णिताऽस्ति । नारदाद्युधिष्ठिरयज्ञवृत्तान्तं श्रुत्वा कृष्णः ससैन्यस्तत्र गच्छति । तत्र च कुष्णस्याग्रपूजाविरोधिनमुद्धतं शिशुपालं स निहन्ति । एतावतीमेव कथां कविः स्वप्रतिभाबलाद् विस्तृतेषु विंशतिसर्गेषु वर्णयति । संक्षिप्तकथाश्रयेण काव्यप्रवर्तनं संस्कृतपण्डितानां महानामोदविषयः । कालिदासो हि सुविस्तृतां कथामादाय काव्यरत्नं प्रणीतवान् । एवमेव कुमारदासोऽपि । भारविस्तु तदपेक्षया स्वल्पतरां कथामाश्रित्य महाकाव्यं विरचितवान् । माघस्ततोऽपि स्वल्पतरां कथां गृहीतवान् । रत्नाकरस्तु स्वल्पतमामेव कथामाधृत्य पञ्चाशत्सर्गात्मकं महाकाव्यं प्रणीतवान् । शिशुपालवधस्य सन्त्यनेकाष्टीका विशत्यधिंकाः यासु मल्लिनाथस्य सर्वङ्कषा प्रसिद्धाः प्राचीनासु नेवासु च शेषराजस्य चन्द्रकला ।तत्र हि शिशुपालवधस्य प्रथमे सर्गे नारदागमनं श्रीकृष्णेन तदादरः नारदेन शिशुपालवधाय प्रोत्साहनं शक्रसन्देशकथनम् । द्वितीये कृष्णबलरामोद्धवानां गुप्तमन्त्रणा उद्धवपरामर्शानुसारेण युधिष्ठिरस्य यज्ञं गमनाय निर्णयः, तृतीये श्रीकृष्णस्य प्रस्थानं द्वारकासेनासमुद्रादीनां वर्णनम्, चतुर्थे रैवतकपर्वतवर्णनम्, पञ्चमे तत्र सैन्यशिविरवर्णनं, षष्ठे षट्ऋतुवर्णनं, सप्तमे वनविहारवर्णनं, अष्टमे जलक्रीडावर्णनं, नवमे सायं चन्द्रोदय-शृंगारविधानादिवर्णनं, दशमे दानगोष्ठीरात्रिक्रीडावर्णनम्, एकादशे प्रभातवर्णनं, द्वादशे प्रस्थानवर्णनं यमुनावर्णनञ्च, त्रयोदशे कष्णपाण्डवसमागमः, श्रीकृष्णस्य नगरप्रवेशवर्णनं च, चतुर्दशे राजसूययज्ञक्रमः श्रीकृष्णस्याग्रपूजा, भीष्मेण तस्य स्तवनञ्च, पञ्चदशे शिशुपालक्रोधो युद्धाय सन्नद्धता च राज्ञां, षोडशे दूतसंवादः सप्तदशे युद्धप्रयाणं, अष्टादशे युद्धवर्णनं, एकोनविंशे युद्धवर्णनं चित्रालंकारयोजना च, विंशे शिशुपालवधः, इति प्रतिसर्गकथासारः ।
माघस्य शैली
माघे सन्ति त्रयो गुणाः
सुविदितमेवैतत् संस्कृतसाहित्ये महाकाविः माघः खल्वत्यन्तं भासुरं रत्नम्। अस्य हि नवाभिनवपदविन्यासविलासो नितराम् उदात्तशैलीम् अनुशेते। अलङ्कारगीभिः गुम्फितशैली माघस्य अत्यन्तभासुरा वर्तते । तेनैव कारणेन एतस्य महाकाव्यं विद्वद्भिः बृहत्त्रय्यां पर्यगण्यत। असाधारणम् अलङ्कारपूर्णं वर्णनं भावगाम्भीर्यं च पदे पदे कवेरस्य काव्यकलायाः उत्कर्षम् उद्‌घोषयति । सर्गे सर्गे अनेकानि पद्यानि वर्णनसौन्दर्येण, भावसौष्ठवेन विचारगाम्भीर्येण चाऽद्वितीयं भावम् उपस्थापयन्ति । चरित्रचित्रण-धुरन्धराणां प्रकृतिपर्यवेक्षणविचक्षणानां गणना-प्रसङ्गे तु माघस्य तुलां नाऽधिरोहति कोऽपि । कविनाऽनेन कृतं वर्णनं सर्वेषाम् एव पाठकानां ह्रदयानि आवर्जयति। वैशिष्टयं च किञ्चित् प्रतिपाद्यते। तद्यथा-
उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम्।
वहति गिरिरयं विलम्बि-घण्टाद्वयपरिवारित-वारणेन्द्रलीलाम्।
अस्मिन् पद्ये कविः रैवतकं पर्वतम् उभयतः सूर्येन्दु-रूपविलम्बिघण्टा-द्वय-परिवारित-वारणेन्द्रलीलाम् आवहन्तम् इवाऽऽकलयति । अत एव माघो ` घण्टामाघः' इति नाम्ना प्रसिद्धिम् उपगतः।
माघविरचितं शिशुपालवधं नाम महाकव्यं विंशतिसर्गग्रथितम् । १६५० पद्यैः परिगुम्फितमिदं महाकव्यं संस्कृतसाहित्ये भृशं विराजते । काव्येऽस्मिन् कवेः प्रौढिमा प्रतिपदं दृश्यते। तद्यथा-
उदयशिखर-श्रृङ्ग-प्राङ्गणेष्वेव रिंगन्
सकमलमुखहासं वीक्षितः पद्मिनीभिः।
विनतमृदुकराग्रः शब्दयन्त्या वयोभिः
परिपतति दिवोऽङ्के हेलया वालसूर्यः॥
कविरयं समयानुरूपं विषयानुरूपं शब्दसमूहम् एवाङ्गीकरोति । साधारणप्रश्नोत्तरकाले साधारणी, वाद-विवाद-समये च तदनुरूपां शैलीम् एव । परं वादविवाद-समयेऽपि कविः नाऽतिजटिलां नाऽपि चाऽतिकठिनां भाषाम् अङ्गीकरोति । तथाहि-
अनृतां गिरं न गदसीति जगति पटहैर्विघुष्यसे।
निन्द्यमथ च हरिमर्चयतः तव कर्मणैव विकत्यसत्यता॥
माघस्य रचनायां सारल्यम्, अलङ्काराणां नूतनत्वं श्लेषस्यौपयिकत्वं चित्रालङ्कारणां वैचित्र्यं सर्वत्रैव समुपलभ्यते। प्रतिस्थलं वर्णितान् अप्य् उपमाऽतिशयोक्ति-रूपकोत्प्रेक्षा-दृष्टान्ताऽऽदीनाम् अलङ्काराणां समुचितः सन्निवेशः काम् अप्य् अद्वितीयां छटां विदधाति। तथाहि--
अपशंकमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपैतुमात्मजाः।
अनुरोदितीव करुणेन पत्रिणां विरुतेन वत्सलतयैव निम्नगाः॥
श्लोकेस्मिन् उत्प्रेक्षा कस्याऽपि प्रेक्षावतः चेतसि अनिर्वचनीयताम् उपस्थापयति । पदलालित्यम् अर्थ-गौरवम् च कवेः काव्ये प्रतिपदं दरीदृश्यते ।
अनुप्रासप्रयोगे तु असौ सर्वान् अतिक्रामति । अनेनानुप्रासप्रयोग-सिद्धहस्तेन जाज्वल्यमानम् उदाहरणं संस्थापितम् अधोलिखिते पद्ये पदलालित्यम् अपि रमणीयम् उपपन्नम्-
मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया।
मधुकराङ्‌गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे॥
कविकुलललामभूतस्य माघस्य श्रृंगारिक-पदावलिरपि नितरां मुग्धीकरोति विदग्धान् । यथा च-
यां यां प्रियो प्रैक्षत कातराक्षीं, सा सा ह्रिया नम्रमुखी बभूव
निःशङ्कमन्याः सममाहितेर्ष्या, स्तत्रान्तरे जघ्नुरमुं कटाक्षैः॥
माघप्रतीतकाव्येषु विषय-वैविध्यनिवेशेनाऽनुमीयते यदसौ कविरासीत् अनेकशास्त्रनिपुणः सङ्गीत-नाट्य-व्याकरणाऽलङ्कार-राजनीति-विशेषज्ञश्च । अत एव भारतीयैः आलोचकैः माघे प्रभूतप्रशंसायाः वृष्टिः कृताऽवलोक्यते । माघकाव्ये कालिदासस्योपमा, भारवेरर्थगौरवं, दण्डिनः पदलालित्यम् इत्येतेषां त्रयाणामपि गुणानाम् अभूतपूर्वः सन्निवेशः समजनि इत्याचक्षते । तथा हि-
उपमा कालिदासस्य भारवेरर्खगौरवम्।
दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥ इति।
वस्तुतत्त्वेषु विमृश्यामानेषु विदितं भवति यत् प्रशस्तिरियम् काव्यकलां सर्वोत्कृष्टां ज्ञापयति । उपमा-विषयेऽपि कविकुल-चूडामणिः माघः इतरानखिलान् कवीश्वरान् अतिवर्तते इत्युक्त्तिः सुतराम् सत्यम् भवति । न चेयं लोकख्यातिराख्यातिमात्रम् । माघकाव्ये न केवलम् उपमाभूयिष्ठत्वम्, अपितूपमा-सौष्ठवम् । यद्यपि बहुभिः अन्यैः कवीश्वरैः अपि उपमा समुपलालिता, तथा च सा रामणीयकत्वेन परिपूर्णत्वेन याथातथ्येन प्रकृत्युनुरूप-निरूपकत्वेन च मघस्योपमायाः तुलां नाधिरोहति । माघस्योपमा यथा निमज्जयन्ती रसिकान् आनन्दसागरे, पाययन्ती लोकोत्तररसधारां, चमत्कुर्वती चेतांसि विपश्चिताम्, उपदिशन्ती चाऽनन्यसदृशान् उपदेशान्, आविष्कुर्वती वा विविधभावावेशान् उपजयन्ती यादृशं प्रभावं सह्रदयह्रदयपटलेषु प्रतिभाति, न तथाऽन्येषाम् ।
अत एव साहित्यधुरन्धरेण रादशेखरेणेत्थम् अभाणि-
कृत्स्नप्रबोधकृद्वाजी भारवेरिव भारवेः।
माघेनेव च माघेन कम्पः कस्य न जायते॥
माघः एकीभूतकालिदासभारविभट्टय इति समालोचकाः कथयन्ति। काव्ये कालिदासस्य काव्यसौन्दर्यं भारवेरर्थगौरवं भट्टेश्च व्याकरणपाटवञ्च दश्यते । तस्मिन् काव्यनैपुण्यव्याकरणपाटवयोः सुन्दरसमन्वय दृश्यते । तत्र हि कलापक्षस्य प्राचुर्येण सहैव भावपक्षस्यापि समादरो लभ्यते अत्र वीरो मुख्यरसः शृगारश्चाङ्गम् । कोमलपदावल्या सहैव शब्दजालोऽपि तत्र विलसति । अस्य हि सुसंघटिता भाषा भावाभिव्यक्तये नितान्तं सक्षमा दृश्यते । अत्र त्रयाणमेव काव्यगुणानां समन्वितः प्रयोगो दृश्यते । अस्य चित्रालङ्कारजालो भारविं भट्टिञ्चातिशेते । तेनैवोक्तं - 'माघे माघे गतं वयः' इति। यथा 'सञ्चारिणी दीपशिखेव रात्रौ' इति कथनात्कालिदासो दीपशिखासंज्ञां लेभे यथा वा 'आदन्ते कनकमयातपत्रलक्ष्मीम्' इति कथनाद्भारविरातपत्रसंज्ञां लेभे तथैव माघोऽपि निम्नांकितपद्येन घण्टासंज्ञामलभत -
उदयति विततोऽर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् ।
वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम्।।[५] इति।
कथ्यते 'नवसर्गे गते माघे नवशब्दो न विद्यते'। तथा कथनेऽयमेव हेतुर्यत्तत्र नवनवानां शब्दानां बाहुल्येन प्रयोगकृतोऽस्ति । नवतामेव माघो रमणीयताया स्वरूपं मन्यते । कथयति सः - 'क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः'।[६]
समालोचकाः कथयन्ति यन्माघस्य भाषायां पाण्डित्येन सह परिष्कारः, कोमलतया सह माधुर्यं, ओजसा सह सशक्तता, अर्थगाम्भीर्येण सह स्फूतिरपि द्रष्टुं शक्यते । यथा हि -
मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे।।[७]
तस्य हि सूक्ष्मेक्षिकाऽपि सर्वानेवातिशेते । स यदेव कथयति तस्य मूलमेव स्पृशति । यथा हि -
प्रहरकमपनीय स्वं निदिद्रासतोच्चैः, प्रतिपदमुपहुतः केनचिज्जागृहीति।
मुहुरविशदवर्णादददपि गिरमन्तर्बुध्यते नो मनुष्यः ।।
कुमुदवनमपश्रि श्रीमदम्भोजदण्डं त्यजति मुदमुलूकः प्रीतिमश्चक्रवाकः ।
उदयमहिमरश्मिर्याति शीताशुरस्तं, हतविधिलसितानां हा विचित्रो विपाकः।
माघेन काव्ये बहूनिच्छन्दांसि प्रयुक्तानि । तेषु हि वंशस्थवृत्तमतीव प्रियम्। माघाय हि अलङ्कृतकाव्यपरम्परा भारवितः प्राप्ताऽऽसीद्या सा साधु निरवाहयत् । तस्य प्रत्येकं वर्णनमलङ्कृतभाषायामेव लभ्यते । सः यद्यपि इतिवृत्तनिर्वाहे स्खलति, यत्र कुत्र तु प्राकरणिकवर्णनस्य मूलकथया सह नास्ति कोऽपि सम्बन्धस्तथापि वर्णनाचातुर्या स निष्प्रयोजनानपि विषयान् प्रयोजनसम्बद्धामिव करोति । वस्तुतञ्चतुर्थसर्गादारभ्य त्रयोदशसर्गपर्यन्तो विषयो मूलकथया सह नितान्तमेवासम्बद्धः । इतिवृत्तेन सह तु प्रथम-द्वितीय-चतुर्दश-विंशतिसर्गा एव सम्बद्धाः । वीररसाप्लाविते इतिवृत्ते गौणेन शृङ्गारवर्णनेन काव्यस्य कलेवरवृद्धिरेव भवति नान्यत् । वस्तुतस्तु अङ्गीभूतेन शृङ्गारेण अङ्गभूतो वीर उद्वेजित इव दृश्यते तत्र। यदा कदा तस्य प्रकृतिचित्रणमपि कृत्त्रिभमलङ्कारभाराक्षिप्तमिव दृश्यते। तस्य प्रकृतिचित्रणमुद्दीपरूपेणैव कृतं दृश्यते। किन्तु ग्राम्यजीवनचित्रणं तु नितान्तं स्वाभाविकमपि दृश्यते। तस्य वर्णनसौन्दर्यं चमत्कारविधानञ्च चरमोत्कर्षतां स्पृशति । नारदावतरणं स इत्थं वर्णयति -
चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम्।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ।।
तथैव -
गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वज्वलनं हविभुजः।
पतत्यधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः॥
भारविणा सह साम्यम्
तिपयपक्षेषु माघो भारविना सह साम्यं विभर्ति कतिपयपक्षे वैषम्यमपि । उभेऽपि काव्ये 'श्रियाः' इति पदेनारभेते। उभयोरेवारम्भे राजनीतिवर्णिताऽस्ति । उभयोरेव चतुर्थसर्गो नानावृत्तमयः । उभेऽपि शब्दचित्रकाव्यं प्राथम्येन प्रस्तुतः प्रथमे १५ सर्गे द्वितीये १९ तमे सर्गे। किन्तु प्रथमं शिवमहिमवर्णनपरं द्वितीयं तु कृष्णकथासम्बद्धम् । प्रथमे प्रतिसर्गान्ते लक्ष्मीशब्दस्य प्रयोगो द्वितीये श्रीशब्दस्य । प्रथमे हिमालयवर्णनाय यमकं प्रयुनक्ति द्वितीयं रैवतकवर्णनाय । प्रथमे व्यासस्य भूमिकां द्वितीये नारदः पूरयति । इदमपि विश्वस्यते यद भावाभिव्यक्तौ पाण्डित्यप्रदर्शने च माघो भारविमतिशेते तथैव छन्दोयोजनायां चित्रालङ्कारप्रयोगे च । आद्यो हि विवेचकोऽपरो समीक्षकः । प्रथमे ओजोभूयस्त्वं द्वितीये तु माधुर्यप्राचुर्यम् । आद्यः निपुणः कलाकारो द्वितीयस्तु दक्षचित्रकारः। प्रथमे या सुकुमारता सा द्वितीये प्रौढतामावहति । आद्ये काव्यवनिता आसन्नयौवना द्वितीये तु प्राप्तयौवना दृश्यत इति ।

प्रशंसा
काव्यशास्त्रमर्मज्ञः माघः बहुविद्यापारङ्गतः वैदिकधर्मतत्त्वज्ञश्चासीदिति शिशुपालवधपरिशीलनेन निश्चेतुं शक्यते ।
"उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥"
"तावभ्दा भारवेर्भाति यावन्माघस्य नोदयः ।"
"नवसर्गे गते माघे नवशब्दो न विद्यते"
इत्यादयः माघकवेः प्रशंसापराः उक्तयः विराजन्ते ।
शास्त्री  रेखा सिंह जयशूर

महाकवि भारवि

महाकवि भारवि
--------------------------

भारविः कौशिकगोत्रोत्पत्रस्य नारायणस्वामिनः पुत्रः । भारवेः पूर्वजाः पूर्वम् उत्तरपश्चिमभारतान्तर्गतम् आनन्दपुरं नाम नगरमध्यवात्सुः परतश्च ते नासिकनामकं दक्षिणभारतनग्रमायाताः । एकदा स्वसमसामयिकेन राजकुमारेण विष्णुवर्धनेन समं मृगयायां घोरं काननमुपेतो भारविः मांसं सिषेवे, यत्पापानोदनाय स तीर्थानि बभ्राम । तदीयं काव्यं श्रुत्वा काञ्चीनृपः सिंहविष्णुस्तमात्मराजधानीमानाययत् । सिंहविष्णुतनयेन राजकुमारमहेन्द्रविक्रमेण स तत्र सानन्दमुवास । तस्य पुत्रो मनोरथनामाऽऽसीत् । तस्य प्रपौत्रः दण्डी बभूव । इयं कथाऽवन्तिसुन्दरीकथायां लिखिता । भारवेरेव नामान्तरं दामोदर इत्यथवा दामोदरभारवी भिन्नौ पुरुषावितिसन्देहो दुरपासः ।
भारवेः जन्मनाम दामोदरः । एतस्य पिता नारायणस्वामी । दामोदरः चालुक्यराजस्य विष्णुवर्धनस्य मित्रम् आसीत् । एषः गङ्गराजस्य दुर्विनीतस्य आस्थाने, पल्लवराजस्य सिंहविष्णो आस्थाने च कञ्चित् कालम् आसीत् इत्यपि ज्ञायते । क्रि श षष्ठे शतके भारविः आसीत् । 'किरातार्जुनीयं' भारवेः सुविख्यातं काव्यम् । महाभारते विद्यामानम् एव कथावस्तु स्वीकृत्य भारविः एतत् महाकाव्यं रचितवान् अस्ति ।

भारविः शैव आसीत् । भारविरिति नाम ऐहोळे शिलालेखे निम्नलिखितरुपेण प्राप्यते –

येनायोजि न वेश्म स्थिरमर्थविधौ विवेकिना जिनवेश्म ।
स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः ॥
अयं पुलकेशिनो द्वितीयस्य ६३४ ई. सामयिकः शिलालेखः, अतो भारविस्तत्पूर्वतनः सम्भवति । किञ्च काशिकावृत्तौ भारवे काव्यमुदाहृतं दृश्यते । अपि च स्वहर्षचरिते बाणेन भारविनामास्मरणात् बाणसमयपर्यन्तं भारवेः प्रसिध्दिरजायतेति तर्कयितुं शक्यते । अतः भारवेः समयः षष्ठेशवीयशतकं मन्तुं युज्यते । भारवेः किरातार्जुनीयम् शिवार्जुनयुध्दमवलम्ब्य निर्मितं भारवेरेकमेव किरातार्जुनीयाभिधं काव्यं प्राप्यते । अष्टादशसर्गनिबध्देऽत्र महाकाव्ये महाभारताधारकं सुन्दरमुपाख्यानं चित्रितम् । द्यूते पराजितो युधिष्ठिरो भ्रातृभिः पत्न्या च सह द्वैतवने वसति स्म । स दुर्योधनस्य शासनपध्दतिं ज्ञातमेकं वनेचरं गुप्तचररुपेण प्रेषितवान् । सर्वं ज्ञात्वा प्रतिनिवृत्तो वनेचरो दुर्योधनस्य नीतिपूर्णं शासनपध्दतिं युधिष्ठिराय निवेदयामस । भीमद्रौपद्यौ युधिष्टिरं बहूत्तेजयामासतुः परं प्रतिज्ञामुल्लङ्घ्य युधिष्ठरो युध्दार्थं न प्रावर्त्तत । अत्रान्तरे वेदव्यासस्तत्रायातः । स पाशुपतास्त्रमासादयितुमर्जुनं तपस्यार्थमिन्द्रकीलं नाम पर्वतं प्रेषयामास । तपस्यतोऽर्जुनस्य ब्रतभङ्गाय देवबाला आगत्य विफलप्रयासा अभवत् । इन्द्रः स्वयं तदाश्रममागत्य तं प्रोत्साहयामास । अर्जुनस्य तपोबलं परीक्षितुं शिवः किरातवेषमादायागतः । मायावी शुकरोऽर्जुनस्याश्रमपार्श्वेऽदृश्यत । अर्जुनकिरातौ सहैव तत्र शूकरे बाणं प्रचिक्षिपतुः । इदमेव युध्दकारणमजायत । युदध्यमानयोः किरातार्जुनयोर्गाण्डीवी भुजाभ्यामाजध्ने कनकशिलानिभं विषमविलोचनस्य वक्षः । अर्जुनपराक्रमदर्शनतुष्टः शिवोऽर्जुनाय पाशुतास्त्रं ददौ ।
संस्कृतमहाकाव्यपरम्परायां भारवेस्तृतीयं स्थानं कालक्रमदृष्ट्या । स हि संस्कृतकाव्यजगति अलङ्कृतशैल्याः प्रथम उन्नायकः पण्डितयुगस्य प्रवर्तकश्च । तस्य किरातार्जुनीयं महाकाव्यं प्रसिद्धं यद्धि काव्यसर्वस्वभूतयोर्भावकक्षापक्षयोः समन्वयापेक्षयापि कवेः पाण्डित्यप्रदर्शनमेव प्राधान्येनावलम्बते।

महापण्डितस्यास्यैतिह्यविषये स्पष्टतया न किमपि ज्ञायते। केचनामुं दाक्षिणात्यं मन्यन्ते कतिपये तूत्तरखण्डभवमपि । स्वविषये कविमनमेवालम्बते पण्डितेतरवत् । एतावदेव निश्चीयते यत्कविरसौ माघपूर्ववर्ती कालिदासपरवर्ती च। सम्प्राप्ताभिलेखेषु पुलकेशिनो द्वितीयस्य चालुक्यवंश्यस्य शासनकाले रविकीर्तिना समुट्टङ्किते शिलाभिलेखे कविरयं कालिदासेन सह स्मृतो दृश्यते । यथा - १७.....................

येनायोजि नवेश्यस्थिरमर्त्यविधौ विवेकिना जिनवेश्म।

स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः ॥३७॥ इति ।

त्रिंशत्सु त्रिसहस्रेषु भारतादाहवादितः, सप्ताब्दशतयुक्तेषुः गतेष्वब्देषु पञ्चसु।।३३॥

पञ्चाशत्सु कलौ काले षट्सु पञ्चशतासु च, समासु समतीतासु शकानामपि भूभुजाम् ।।३४॥

महाभारतयुद्धकालतः ३०३० वर्षानन्तरं, कलेः ३०३०+७०५= ३७३५ मितवर्षे शककालात् ५५६ वर्षेषु व्यतीतेषु चेत्यस्याशयः । कलेः ६३६ वर्षेषु व्यतीतेषु युधिष्ठिरो जनिं लेभे। महाभारतयुद्धे सोऽशीतिवर्षवयस्क आसीत् । तेन हि कलेः ७२६ वर्षेषु व्यतीतेषु महाभारतयुद्धं प्रवर्तितमासीत् । तथैव नृपविक्रमार्कात् १३५ वर्षेषु यातेषु शकयुगः प्रवर्तितो मन्यते । तेन शकाब्दक्रिष्टाब्दयोरपि ७८ वर्षाणामन्तरं विद्यते । अतोऽस्य कालः ६७१ मितवैक्रमाब्दमभितो दृश्यते । तदा कालिदाससमकक्षमेव ख्यातिकीर्तिना कविना न्यूनमपि ततः शताब्दीपूर्ववर्तिना भाव्यम्। अपरञ्च विक्रमानन्तरं ७०७ मितवर्षाण्यभितः प्रणीतायामष्टाध्याय्याः काशिकावृत्तौ 'संशय्य कर्णादिषु तिष्ठते यः' इति भारवीयं पद्यमुदाहृतं दृश्यते । तेन न कथमपि भारविना तत्परवर्तिना भाव्यम् । अवन्तीसुन्दरीकथानुसारेण भारविः विष्णुवर्धनाऽऽख्यस्य कस्यचिन्नृपस्य सभापण्डितः आसीदिति ज्ञायते । यथोक्तं तत्र -

स मेधावी कविर्विद्वान् भारविः प्रभवो मिराम् ।

अनुरुध्याऽकरोन्मैत्रीं नरेन्द्रे विष्णुवर्धने ।। इति ।

केचिदत्र भारविशब्दं द्वितीयान्तमपि पठन्ति । तथैवाऽप्यस्तु । कोऽसौ विष्णुवर्धन इत्यपेक्षायां समालोचकास्तं पुलकेशिनोऽनुजं मन्यन्ते, येन ६७२ मितवैक्रमाब्दे श्रीहर्षः पराजितः । वस्तुतस्तु तर्कोऽयं तथ्येन सह नैव संवदते इति मन्यते। यतो हि -

११. अपरिमितविभूतिस्फीतसामन्तसेना, मुकुटमणिमयूखाक्रान्तपादारविन्दः ।

युधि पतितगजेन्द्रानीकबीत्सभूतो, भयविगलितहर्षो येन चाकारि हर्षः ॥२३॥

इति ऐहोलाभिलेखे स्मृतं दृश्यते । यदि हि पुलकेशिनोऽनुजस्य विष्णुवर्धनस्य सभासत्त्वेन भारविगृह्यते तदो तस्य रविकीर्तेरपि परकालिकत्वमारतेत् । तेन हि यदि भारवेविष्णुवर्धनाख्यस्य सभापण्डितत्वमेवं मन्येत तदाऽपि विष्णुवर्धनेन केनाऽप्यन्येन पुलकेशिपूर्ववर्तिना भाव्यम् । कतिपये तु बाणेन हर्षचरिते स्वपूर्ववर्तिकविप्रसङ्गे भारविनैव स्मृतोऽतस्तेन बाणपरवर्तिना भाव्यमित्यपि निर्दिशन्ति । सत्यमेतावन्मात्रमत्र यत्, बाणो भारविं नाम्ना नैव स्मरति । बाणो हर्षसभापण्डितः । तेन बाणरविकीर्त्योः समकालिकत्वं मन्यते। श्रीहर्षो हि सम्राट् ६६२ मितवैक्रमाब्दे साम्राज्येऽभिषिक्तः ७०५ मितवैक्रमाब्दे निर्वाणमाप्तवान् । बाणस्तु हर्षनिधनानन्तरमपि जीवित आसीत् । ६७१ मितवैक्रमाब्दे रविकीर्तिना तथाऽऽदृत भारविर्यदि बाणेन नैव स्मृतश्चेत्तद् बाणस्यैव दोषो वा तदुपेक्षा।

सम्भवति कान्यकुब्जेश्वरसभासद्भूतो बाणो भारविं नैव जानाति स्म तथा वा ते समुल्लेखनीयं नैव मन्यते स्म । भारवेः प्रसिद्धिरधिकरूपेण दाक्षिणात्यप्रदेश एवाऽऽसीत्तदानीम् । बाणो भारविं जानन्नपि केनाऽपि कारणेन नैव तत्रोल्लिखति इति मन्यते विद्वद्भिः। यतो हि ७०७ मितवैक्रमाब्दानभितः प्रणीतायां काशिकायां स्वकथनदार्ढ्याय 'संशय्य कर्णादिषु तिष्ठते यः' इति भारवेर्वचनं काश्मीरौ जयादित्यवामनौ परमप्रामाणिकत्वेनौद्धरतः तत्समकालीन एव प्रीतिकूटवासी बाणो नैव तज्ज्ञानातीति नैव विश्वासभूमिः । तत्र प्रादेशिकताऽपि कारणत्वेन सम्भवति। यतो हि न केवलं बाणोऽपि तु ध्वन्यालोक कृदपि भारविं नैवोद्धरति किन्तु बाणभट्ट बहुशः विद्वत्प्रसिद्धिरपि भारविं बाणपूर्ववर्तिनमेव समर्थयति । यथा -

मेण्ठे स्वद्विरदाधिरोहिणिवशं याते सुबन्धौ विधेः।

शान्ते हन्त च भारवौ विघटिते बाणे विषादस्पृशः।।[१]

दण्डिनः -

वंशवीर्यप्रतापादीन् वर्णयित्वा रिपोरपि।

तज्जयान्नायकोत्कर्षकथनं च धिनोति न।।[२]

इति कथनं भारवेः किरातार्जुनीये प्रतिभटकिरातवर्णनं लक्षयति इति समालोचकाः वदन्ति । सति तथा भारवेर्दण्डिनोऽपि पूर्ववर्तित्वं मन्यते।

एवमेव दुर्विनीताख्येन कोङ्कणनरेशस्याविनीतस्य पुत्रेण किरातार्जुनीयस्य पञ्चदशसर्गस्य टीका प्रणीताऽऽसीत् । स च राजा ६३७ मितवैक्रमाब्दमभितः स्थितिवानासीत् । अनेनापि भारवेस्तत्समये प्रसिद्धिः मन्यते। दण्डिप्रणीतत्वेन प्रसिद्धायामवन्तिसुन्दरीकथायां कथितम् -

"को हि नाम भगवतीं भवितव्यतामतिक्रम्य यथासमीहितेन,

साधयति यथा यतः कौशिककुमारं महाशैवं महाप्रभावम्।

गवां प्रभवं प्रदीप्तभासं भारविं रविमिवेन्दुरनुरूप्यदर्श

इव पुन्यकर्मणि विष्णुवर्धनाख्ये राजसूनौ प्रणयमन्वबध्नात्।'' इति ।
दण्डिनः कथनमिदमादाय पण्डिताः भारविनं दण्डिनः प्रपितामहं मन्यन्ते । उक्तं हिं यद् भारविरस्योपाधिः, जन्मनाम तु दामोदरः । असौ हि नारायणस्वामिनः पुत्रः । तस्य पुत्रो मनोरथाऽऽख्यः । तस्य च वीरदत्तादयश्चत्वारः सुताः । वीरदत्तस्य गौर्याख्यायां पत्न्यां जातो दण्डीति । एतेन भारवेः दामोदरस्य चैक्यं मन्यते। किन्तु नैतद्विश्वासभूमिः । न च दण्डिना तत्समर्थितं यत्र कुत्रापि न च किरातार्जुनीयव्याख्यातारश्च तत्स्मरन्ति । एतेन भारवेः दण्डिपूर्ववतत्वं तु सूच्यत एव।

एवञ्च सन्ति कतिपयानि वचनानि यैर्भारवेर्माघपूर्वर्वितत्वं संसूच्यते । यथा -

“तावद्भा भारवेर्भाति यावन्माघस्य नोदयः ।"

"उपमा कालिदासस्य भारवेरर्थगौरवम्।

दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः।।"

नैतावन्मात्रमपि तु बृहत्त्रय्यां किरातार्जुनीयस्यैव नाम प्रथमं गृह्यते तदनन्तरमेव शिशुपालवधनैषधीयचरितयोः । एभिरन्यान्यैश्च प्रमाणैरनुमीयते यद्भारविः न्यूनतमपि विक्रमानन्तरं षष्ठशतके स्थितिवानासीत् । तस्य स्थितिकालः कविजीविते ५८५ मितवैक्रमाब्दमभितोऽनुमितः । तस्य हि हंसराजानुसारेण ६०७ मितवैक्रमाब्दः स्थितिकालः । राजशेखरः उल्लिखति -

इह कालिदासभर्तृमेण्ठावत्रामररूपसूरभारवयः।

हरिचन्द्रचन्द्रगुप्तौ परीक्षिताविह विशालायाम्।।

इति। तस्य एतत् कथनमादृत्य भारविः विक्रमानन्तर ५००-५८० मितवर्षान्तरालवर्ती मन्यते, बाणात् न्यूनतममपि शताधिकवर्षपूर्ववतनम्।
न केवलं स्थितिकालस्यापि तु कवेरस्य देशविषयेऽपि तथैवान्धकारो विद्यते । राजशेखरानुसारेणासौ विशालायां परीक्षित आसीत् किन्तु नैतावताऽस्य देशो निर्णीतुं शक्यते । अधिकांशतः पण्डिता अमुं दाक्षिणात्यं मन्यन्ते किन्तु अस्य शरद्धिमालययोर्वर्णनं तु कविममुमौत्तरीयमेव सूचयति । अस्य हि सह्याद्रिप्रसंगमालोक्य केचित्तं महाराष्ट्रीयं मन्यन्तेऽन्ये तु तद्वाचोयुक्तिमेव मन्यन्ते।

भारवेः कृतित्वेन सम्प्रति किरातार्जुनीयमेव लभ्यते । एतदनुमीयते यदेतादृशस्य महाप्रतिभासम्पन्नस्य कवेः स्युरेव तदितरा अपि कृतयः कालेन कवलिताः।

किरातार्जुनीयं सर्वविधलक्षणोपेतं महाकाव्यम् । अत्र सन्ति अष्टादशसर्गाः सम्प्रति समुपलब्धाः । महाभारतस्य वनपर्वणि समुल्लिखतमर्जुनस्य पाशुपतास्त्रप्राप्तिवृत्तान्तमादाय निबद्धमिदं महाकाव्यं भावपक्षापेक्षया कलापेक्षमेव समधिकं पुष्णाति । द्यूते पराजितो युधिष्ठिरः सानुजः सभार्यः संविदानुसारेण वनवासनिमित्तं द्वैतवनं प्रविशति । तत्र स्थितः स दुर्योधनवृत्तान्तज्ञानाय कञ्चित्किरातं वर्णिरूपेण हस्तिनापुरं प्रेषयति । ज्ञातवृत्तश्च स द्वैतवनमागत्य सर्वं राज्ञे निवेदयति । युधिष्ठिरोऽपि तत्सर्वं भ्रातृभ्यः श्रावयति । विपक्षस्योत्कर्षमसहमाना पाञ्चाली पतिं धिक्कृतवती सती युद्धाय प्रेरयति । प्रियोक्तं द्रढयन् भीमोऽपि तं धैर्यमपहाय विक्रमाय प्रेरयति । युधिष्ठिरश्च तं सान्त्वयन्नेव व्यासेन निर्दिश्यते फाल्गुनाय दिव्यास्त्रलाभाय प्रेषयितुम् । तत्परामर्शानुसारमेवार्जुनस्तपसे हिमालयं प्रविशति यक्षेण सह । इन्द्रकीलपर्वतं गत्वा तपसि रतोऽर्जुनोः विघ्नेः प्रतिहन्यमानोऽपि स्वलक्ष्यान्नैव विचलति । तं परीक्षितुं त्र्यम्बकः किरातवेषेण तत्रागच्छति। उभावेव समकालं मायाविनं शंकरं प्रहरतः । तस्य निधनकारणमादाय तयोः विवादः समुत्तिष्ठते । युद्धे पराजितोऽप्यर्जुनः स्वप्रयासं नैव जहाति । तेन परमप्रीतः शङ्करस्तस्मै पाशुपतास्त्रं ददाति 
काव्यमिदमालक्ष्य मल्लिनाथः कथयति -

नेता मध्यमपाण्डवो भगवतो नारायणस्यांशजः।

तस्योत्कर्षकृते नु वर्ण्यचरितो दिव्यः किरातः पुनः।।

शृङ्गारादिरसोऽङ्गमत्र विजयी वीरः प्रधानो रसः।

शैलोद्यानि च वर्णितानि बहुशो दिव्यास्त्रलाभः फलम्।। इति।

चतुर्दिग्विकसितप्रतिभावानसौ कविः स्वल्पेनैव वस्तुमाध्यमेन समग्रमेव दर्शनमत्र, समाक्षिप्तवानासीत् । काव्येऽस्मिन् वनेचरमुखाद् दुर्योधतशासनवृत्तान्तवर्णनं, द्रौपदीवाक्यं, भीमगर्जनं, युधिष्ठिरस्य नीतियुक्तवचनं, अर्जुनप्रस्थानसमये द्रौपदीवाक्यं, शरद्वर्णनं, हिमालयवर्णनं, गन्धर्वाप्सरसां विलासवर्णनं, उद्यानजलक्रीडा, सायंचन्द्रोदय-सुरत-प्रभातादिवर्णनं, शिवार्जुनयोः युद्धवर्णनं, चोत्तरोत्तरं प्रातिस्विकोत्कर्षं जनयन्ति ।

कथ्यते हि भारविः भाषा-भाव-सौन्दर्य-रससिद्धिवर्णनाचातुरी-शास्त्रीय- पाण्डित्यादिविविधपक्षाणाम् एकाश्रय इति । तस्य हि भावानुसारी शब्दप्रयोगः, अर्थगौरवं, उदात्तकल्पना च तं कविषु श्रेष्ठं भावयन्ति । स हि सर्वानेव रसान् साधु साधयति विविधानि च्छन्दांसि च । तस्य भाषायां माधुर्यप्रौढतयोरपूर्वः समन्वयो दृश्यते । भावपक्षं न तथोपेक्षमाणोऽपि कविरसौ प्राधान्येन कलापक्षधरः । पञ्चदशसर्गे तस्य शब्दविलासो दर्शनीयः। तत्र कतिपये श्लोकाः एकाक्षरिणः सन्ति । यथा -

न नोननुन्नो नुन्नोनो नाना नानानना ननु ।

नुन्नोऽनुन्नो ननुन्नेनो नानेनानुन्ननुन्ननुत् ॥ इति ।

तथैव -

ससासिः सासुसूः सासो येया येयी ययाययः ।

ललौ लीलां ललोऽलोलः शशीशशिशुशी शशन् ॥[३]

द्व्यक्षरं यथा -

चारचञ्चुश्चिरारेची चञ्चच्चीररुचारुचः।

चचार रुचिरश्चारु चारैराचारचञ्चुरः।।[४]

चित्रकाव्यप्रणयनस्य त्वयं प्रवर्तक एव । अमुमेवानुवृत्य पश्चाद्वर्तिनो माघरत्नाकराद्याः कवयस्तथा प्रावर्तयन्त काव्यस्य चित्रत्वम् । सत्यपि शब्दविलासप्राचुर्ये भारवावकृत्रिमं नाम न किञ्चिदस्ति । स स्वयमेव कथयति -

अकृत्रिमप्रेमरसाभिरामं रामार्पितं दृष्टिविलोभि दृष्टम्।

मनःप्रसादाञ्जलिना निकामं जग्राह पाथेयमिवेन्द्रसूनुः।।[५]

तथैव-

स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम्।

रचिता पृथगर्थतां गिरां न च सामर्थ्यमपोहितं क्वचित्।।[६] इति ।

राजनीतौ प्रावीण्यं यथा -

व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः।

व्रजन्ति शत्रूनवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः।।[७]

प्रकर्षतन्त्रा हि रणे जयश्रीः

सखीनिव प्रीतियुजोऽनुजीविनः समानमानानु सुहृदश्च बन्धुभिः ।

स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम् ।।

गुरूपदिष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ।

अस्य हि व्याकरणज्ञानं तु पूर्ववर्तिनं कालिदासमूर्ध्ववर्तिनं माघमपि अतिवृत्य तिष्ठति । स हि अनद्यतने लङमेव प्रयुनक्ति न लुङम्, एवमेव पुरावृत्तवर्णने एव लिट् प्रयुक्तः । अद्यतनभूतार्थकलुङ् तु दशकृत्व एव प्रयुक्तो यदा माघेन २७२ कृत्व इति समालोचकाः । कालिदासस्तु सर्वत्र सामान्येन प्रयुनक्ति ।

छन्दःप्रयोगेऽप्यस्य महत्कौशलं दृश्यते । तस्य वंशस्थचारुत्वं प्रशंसन् क्षेमेन्द्रः कथयति

वृत्तच्छत्रस्य सा काऽपि वंशस्थस्य विचित्रता।

प्रतिभा भारवेर्येन सच्छायेनाधिकीकृता ।। इति।

अप्रसिद्धमपि उद्गताप्रभृतिवृत्तमसौ साधु प्रयुनक्ति । असौ हि एकस्मिन्नेव सर्गे षोडशविधानि छन्दांस्यपि प्रयुक्तवान् यथा पञ्चमे। अलङ्कृतशैल्युन्नायकस्याऽप्यस्य भाषा सरला हृद्या च विद्यते । घटे सागरमेव समावेशयन्नप्यसौ स्पष्टतां न मुञ्चति । कथितमेव -

प्रदेशवृत्यापि महान्तमर्थं प्रदर्शयन्ती रसमादधानाः।

सा भारवेः सत्पथदीपिकेव रम्या कृतिः कैरिह नोपजीव्या॥ इति ।

मल्लिनाथः कथयति -

नारिकेलफलसम्मितं वचो भारवेः सपदि तद्विभज्यते ।

स्वादयन्तु रसगर्भनिर्भरं सारमस्य रसिका यथेप्सितम्॥ इति।

सूक्तिप्रियः कविरसौ सूक्तिमुक्तानां मालामेव ग्रथ्नाति । तस्य हि काव्यस्याधिकांशभागः सूक्तिमयः । यथा 'हितं मनोहारि च दुर्लभं वचः', 'न वञ्चनीयाः प्रभवोऽनुजीविभिः', 'प्रकर्षतन्त्रा हिरणे जयश्रीः', 'अविवेकः परमापदां पदम्' इत्यादि ।

अर्थगौरवं तु तस्य वैशिष्ट्येषु प्रकृष्टमेव । किन्त्वेतेन नैवेदमवधेयं यदस्य काव्ये सर्वत्रागम्यता एवास्ति । अर्थगौरवस्य अत्रायमेवाशयो यत्स सुदीर्घमपि पन्थानं स्वल्पेनैव प्रयासेन पारयति । यथा हि -

जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते ।

गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः ।। इति ।

साधूक्तं समालोचकैः यद्भारवेः काव्यं कालिदासीयेन सह साम्यं नैवाप्यधिगच्छेत्तथापि तत्र ललितपदावल्या अर्थगाम्भीर्यस्य च मञ्जुलसमन्वयः काञ्चनमणिसंयोगमनुहरति । कटुसत्यवादी कविरसौ द्रौपदी मुखेन कथयति -

'प्रत्यागतं त्वास्मि कृतार्थमेव स्तनोपपीडं परिरब्धुकामा।' इति ।

वस्तुतस्तु अकृतार्थं प्रत्यागतमपि न कोऽपि समनोयोगं गृह्णाति । तथा कथनेनासौ 'सर्वे नन्दन्ति यशसाऽऽगतेन समासाहेन योधमुख्येन वीरः' इति श्रुतिवाक्यमनुहरति । तथैव -

'विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सन् जुहुधीह पावकम्' । धनुभृता तु विक्रमितव्यमेव वस्तुतः । यथा हि 'सञ्चारिणी दीपशिखेव रात्रौ' इति कथनेन कालिदासो दीपशिखाविशेषणमुपार्जयद्यथा वा माघो घण्टामाघ इति तथैव भारविरपि आतपत्रभारविरित्युच्यते पद्येनानेन -

उत्फुल्लस्थलनलिनीवनादमुष्माद्भूतः सरसिजसम्भवः परागः ।

वात्याभिर्वियति विवर्तितः समन्तादाधत्ते कनकमयातपत्रलक्ष्मीम्॥[८]

भारविः कर्मणि विश्वसिति न तु भाग्ये । स द्रौपदीमुखेनास्य सुन्दरमुदाहरणं प्रस्तौति । यथा -

करोति यः सर्वजनीतिरिक्तां सम्भावनामर्थवती क्रियाभिः।

संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति सङ्ख्या ।। इति ।

सः यत्र प्रविशति तत्र तेनैव रूपेण मिलति । इदमेव भारवेः साफल्यस्य रहस्यम् । स हि ग्राम्यजीवनर्णने ग्रामीण एव भवति राजनीतौ तु अमात्य एव । गोपालमधिकृत्य स कथयति -

गतान् पशूनां सहजन्मबन्धुतां गृहाश्रयं प्रेम वनेषु बिभ्रतः ।

ददर्श गोपानुपधेनु पाण्डवः कृतानुकारानिव गोभिरार्जवे ।। इति ।

वस्तृतो ग्रामकामो गोपालो वनकामश्च नापितो व्यर्थ एव। तस्येदं कथनं वस्तुतो यथार्थं तस्य काव्ये -

भवन्ति ते सभ्यतमा विपश्चितं मनोगतं वाचि निवेशयन्ति ये ।

नयन्ति तैष्वप्युपपन्ननैपुणा गभीरमर्थं कतिचित्प्रकाशताम् ।।[९]

विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्यपि द्विषाम् ।

सत्स्वपि विविधेषु गुणेषु भारविर्यदा कदा स्वीयमुत्कर्षमपि विस्मृत्य तथा करोति येन तस्य कृतेः काव्यत्वमपि हीयते । अलङ्कारभारेण यत्र कुत्र चित्रत्वेन काव्यार्थो व्याहतो दृश्यते । तथैव शृङ्गारवर्णने रसोचिततरलतायाः स्थानमैन्द्रियप्रेकर्षो गृह्णाति । विविधच्छन्दसां प्रयोगो भारायैव दृश्यते यथा पञ्चमस्कन्धे । यत्र कुत्र वार्ता पात्रयोग्यतामतिवर्तते । तथापि तस्य काव्यस्योत्कर्षस्तु न केनाऽप्यावलपितुं शक्यते । आचार्यपण्डितयुगयोः सेतुत्वेन पण्डितयुगस्य प्रवर्तकोऽयं कविः स्वप्रयासे सफलो मन्यते पश्चाद्वर्तिभिः बहुशोऽनुक्रियते च।

भारवेरर्थगौरवं प्रसिध्दम् । अत एव मल्लिनाथोऽपि टीकाप्रारम्भे – नारिकेलफलसम्मितं वचो भारवेरित्याह । बहोरप्यर्थराशेरल्पेन शब्देनाभिधाने भारविरभ्यस्तकौशल इति सर्वेषां विदुषां विचारः । विशिष्टार्थगर्भितानां वाक्यानां प्रयोगे भारविः अत्यन्तं निपुणः । 'हितं मनोहारि च दुर्लभं वचः', 'सहसा विदधीत न क्रियाम्' इत्यादयः तस्य प्रयोगाः एतम् अभिप्रायं समर्थयन्ति ।'भारवेः अर्थगौरवम्' इति उक्तिः अपि विमर्शकलोके प्रसिद्धा । एकमेव महाकाव्यं लिखित्वा अपि भारविः स्वकवित्वेन, पाण्डित्येन, वर्णनकौशलेन च कविप्रपञ्चे विशिष्टं स्थानं प्राप्तवान् । वस्तुत इयमेवोक्तिर्भारविकवित्वप्रशंसायामप्युपयुज्यते । ऋतूनां जलक्रीडायाश्चन्द्रोदयस्यच वर्णने महती कवित्वप्रतिभा प्रदर्शिता भारविणा । अलङ्काराणां यथावस्रोपन्यासे चित्रकाव्यनिर्माणे च परं साफल्यामासादितमनेन कविवरेण । भारविणा नीतयो निपुणमुपन्यस्ताः –

वरं विरोधोऽपि समं महात्मभिः ।
न वञ्चनीयाः प्रभवोऽनुजीविभिः ।
हितं मनोहारि च् दुर्लभं वचः ।
विश्वसयत्याशु सतां हि योगः ।
सुदुर्लभाः सर्वमनोरमा गिरः ।
गुरुतां नयन्ति हि गुणा न संहतिः ।
गुणाः प्रियत्वेऽधिकृता न संस्तवः।
षाड्गुण्यप्रभवा नीतिर्वंशस्थेन विराजते इति क्षेमेन्द्रोक्तिर्वंशस्थोपनिबध्दां भारवेनीतिचर्चामालोक्यैव प्रवृत्ता स्यादिति सम्भाव्यते । भारवेः कवितानां समीक्षया ज्ञायते तदस्याभिमानधनताऽऽसीत् । भारविकवितायां तर्कात्मकमोजः प्रबलम् । कवित्वनिदर्शनाय कतिचन पद्यान्युद्घ्रियन्ते ।

अथ क्षमामेव निरस्तविक्रमश्चिराय पर्येषि सुखस्य साधनम् ।
विहाय लक्ष्मीपतिलक्ष्मकार्मुकं जटाधरः सञ्जुहुधीह पावकम् ॥
अपवर्जितविप्लवे शुचौ हृदयग्राहिणि मङ्गलास्पदे ।
विमला तव विस्तरे गिरं मतिरादर्श इवाभिलक्ष्यते ॥
तुषारलेखाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः ।
अगूढभावापि विलोकने सा न लोचने मीलयितुं विषेहे ॥
मृणालिनीनामनुरञ्जितं श्रिया विभिन्नमम्भोजपलाशशोभया ।
पयः स्फुरच्छालिशिखापिशङ्गितं द्रुतं धनुः खण्डमिवाहिविद्विषः ॥

*किरातार्जुनीयम्*

महाकविः भारविः शैवमतावलम्बी , प्राकाण्डपण्डितः, राजनीतिज्ञः, वीररसवर्णनकुशलः, अलङ्कृतशैल्याः प्रवर्तकः च आसीत् । भारविणा निजपरिवारस्य , निवासस्थानस्य, पितुः, पितामहस्य, गुरोर्वा विषये कोप्युल्लेखो न कृतः किरातार्जुनीये । दण्डिविरचितम् अवन्तीसुन्दरीकथा अनुसारेण कुशिकगोत्रीयाः ब्राह्मणाः आनदपुरे निवसन्ति स्म । ततः परं ते वरारप्रान्ते अचलपुरे एलिचपुरे वा आगत्य निवासम् अकुर्वन् । अस्मिन्नेव वंशे नारायणस्वामी जातः । तस्य पुत्रः एव दामोदरः आसीत् । अयमेव दामोदरः भारविः इति नाम्ना प्रख्यातः अभवत् । तत्र भारविविषयकः श्लोकः अयं प्राप्यते -

स मेधावी कविर्विद्वान् भारविं प्रभवां गिराम् ।
अनुरुध्याकरोन्मैत्रीं नरेन्द्रे विष्णुवर्धने ॥
इत्थं भारविः दण्डिनः प्रपितामहः आसीत् । तस्य स्थितिकालः ६०० ईसवीयसमीपे मन्यते । अस्य ‘किरातार्जुनीयम्’ नाम एकमेव महाकाव्यं प्राप्यते; यत् बृहत्त्रय्यां प्रथमस्थाने’ परिगणितम् । संस्कृतविद्वत्समाजे ‘भारवेरर्थगौरवम्’, ‘नारिकेलफलसम्मितं वचो’ ‘स्पुटता न पदैरपाकृता’ इत्याभणकानि सुप्रसिध्दानि एव । महाकविभारविकृते किरातार्जुनीयमहाकाव्ये तज्जीवनविषयकसाक्ष्याभावात् बाह्यसाक्ष्यानुसारं तस्य कालनिर्धारणं करणीयम् ।

दक्षिणभारते एहोलग्रामे ६३४ ख्रिष्टीया जैनकविना रविकीर्तिना लिखितशिलालेखे “ स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः” इत्यनेन ज्ञायते यत् सप्तम शताब्दयाः पूर्वार्ध्दं यावत् भारविः सुविख्यातः कविरासीत् ।
काव्यकलायाः उत्तरोत्तरप्रभावदृष्ट्या कालिदासः भारवेः पूर्ववर्ती महाकविमाघश्च उत्तरवर्ती कविरासीत् । माघस्य स्थितिकालः ७०० ख्रिष्टीयाब्दः मन्यते, अतः भारवेः स्थितिकालः षष्ठशताब्धाः उत्तरार्ध्दे भवैतुमर्हति ।
काशिकायां भारवेः (किरात ३/१४) इत्युध्दरणं प्राप्यते । अतः भारवेः कालः वामनजयादित्याभ्यां (सप्तमशताब्दी –पूर्व) षष्ठशताब्धाः उत्तरार्ध्दे भवेत् ।
अवन्तीसुन्दरीकथा – अनुसारं दण्डिनः प्रपितामहः दामोदरः एव ‘भारविः’ यः विष्णुवर्ध्दनस्य (६१५ ई.) समापण्डितो आसीत् । अतः तस्य कालः षष्ठशताब्द्याः उत्तरार्ध्दे भवितुमर्हति । निष्कर्षरुपेण एवं प्रतिभाति यत् भारवेः स्थितिकालः षष्ठशताब्द्याः उत्तरार्ध्दे सप्तमशताब्द्याः पूर्वार्ध्दे (५५०-६०० ई.) भवैतुम् अर्हति ।
महाकविभारविना महाभारतकथामाश्रित्य अलंकृतकलापक्षप्रधानशैल्या विरचितं अष्टादशसर्गात्मकं वीररसप्रधानम् अर्थगाम्भीर्ययुक्तं बृहत्त्रय्यां प्रथमपरिगणितं ‘किरातार्जुनीयम्’ नाम एकमेव महाकाव्यं समुपलभ्यते । अस्य ग्रन्थस्य शुभारम्भः ‘श्री’ शब्देन, सर्गान्तः ‘लक्ष्मी – शब्देन च भवति । अत्र अर्जुनस्य किरातवेशधारिणा शङ्करेण सह युध्दं वर्णितम् । अत एव ग्रन्थस्य नामकरणं कृतं – ‘किरातार्जुनीयम्’ किराताश्च अर्जुनश्च किरातार्जुनौ (द्वन्द्वः) किरातार्जुर्नौ अधिकृत्य कृतं काव्यं किरातार्जुनीयम् । किरातार्जुन + छ (‘ईय’ आदेशः) अर्जुनाय दिव्यास्त्राणां प्राप्तिरेव महाकाव्यस्य फलम् । अतः ग्रन्थस्यास्य नायकः अर्जुनः नायिका च द्रौपदी वर्तते । अर्थगौरवं, स्पष्टता, पुनरुक्तेरभावः अलंकृतशब्दयोजनाश्च अस्य महाकाव्यस्य वैशिष्ट्यम् । भारविना एकाक्षरद्वयक्षर श्लोकाः अपि रचिताः । तद्यथा – “ न नोनन्नुनो नाना नानानना ननु” किरात. १५/१४. ग्रन्थेऽस्मिन् ऋतुवर्णनं, हिमालयवर्णनं, सन्ध्यावर्णनं, चन्द्रवर्णनं, प्रभातमित्यादीनां रोचकं रमणीयञ्च चित्रणं विद्यते । एवमेव पञ्चदशे सर्गे चित्रकाव्यस्य वर्णनं दर्शनीयम् । प्रथमसर्गे द्रौपद्याः कथने या वचनचातुरी विद्यते, सा अन्यत्र दुर्लभा एव ।

किरातार्जुनीयस्य कथानकस्य मूलाधारः महाभारतम् अस्ति। महाभारतस्य अष्टादशसर्गेषु वनपर्वणि किरातार्जुनीयस्य कथा अस्ति। अत्र किरातः तत्वेषधारी शिवः अस्ति। महाभारतात् संक्षिप्तकथानकं स्वीकृत्य भारविः स्वकल्पनाभिः काव्यप्रतिभयाच कथानके मौलिकताम् उत्पादितवान्। महाभारतस्य शैली सरला अस्ति किन्तु किरातार्जुनीयस्य शैली क्लिष्टा अलङ्कृता च अस्ति। महाकाव्यलक्षणानुरोधेन भारविः स्थाने स्थाने ऋतु- पर्वत- नदी- वन- प्रातः-सन्ध्यादीनाम् अपि सुन्दरं वर्णनं कृतवान्। भारवेरर्थगौरवम् इत्युक्त्यनुसारम् किरातर्जुनीयस्य अर्थगौरवम् अतिव प्रसिद्धम् अस्ति। चित्रकाव्यस्य चमत्कारं प्रदर्शयन् भारविः एकव्यञ्जनस्य प्रयोगेण अपि श्लोकानां निर्माणं कृतवान्।

उदाहरणार्थं श्लोकमेकम् अत्र दत्तम्।
न नोन नुन्नो नुन्नानो नाना नानाननाननु।
नुन्नोऽनुन्नो ननुन्नेना नानेना नुन्ननुन्ननुत्॥किरा॥

शास्त्री  रेखा सिंह जयशूर

महाकवि दांडी

महाकवि दांडी
------------------------
दण्डी कविः आलङ्कारिकश्च। दशकुमारचरितं, काव्यादर्शः, अवन्तिसुन्दरीकथा च अस्य प्रसिद्धाः ग्रन्थाः। आहत्य अस्य सप्त रचनाः सन्ति। एषः काञ्जीवासी आसीत्।

दण्डिनः स्थितिकालः सन्दिग्ध एव । अत्र समालोचकाः सुबन्धु-बाण-दण्डिनः, बाणदण्डिसुबन्धवः, सुबन्धु-दण्डि-बाणाश्चेति त्रिविधक्रमसमर्थका दृश्यन्ते । अधिकाः तु प्रथममेव पक्षमाश्रित्य प्रचलिताः दृश्यन्ते। एतावदेव ज्ञायते यत्स दाक्षिणात्यः । बाणभट्टः तं न स्मरतीति तस्य स्थितिकालस्य पूर्वसीमा, अभिनवगुप्तस्तं लोचने स्मरतीति तस्यापरसीमा।

अवन्तिसुन्दरीकथाऽनुसारेण दण्डी दामोदराऽऽख्यस्य प्रपौत्रः आसीत्। दामोदरस्य चतुर्षु सुतेषु कनिष्ठस्य वीरदत्तस्य सुत आसीद् दण्डी । तस्य माता गौरी । कथ्यते दामोदरः भारविरेव किंवा भारवेरन्तरङ्गसुहृदासीत् । सः विष्णुवर्धनाख्यस्य सिंहविष्णोः काञ्चीनरेशस्य सभापण्डित आसीत् । दामोदरस्य पुत्रो वीरेश्वरदत्तोऽपि सिंहविष्णुसुतस्य महेन्द्रवर्मणः सभापण्डित आसीत् । तथैव तत्सुतो दण्डी महेन्द्रवर्मणः सुतस्य नरसिंहवर्मणस्तत्सुतस्य राजवर्मणश्च सभाध्यक्ष आसीत् । नरसिंहवर्मणः स्थितिकालः ७४७-७८२ मितवैक्रमाब्दानभितः । एवमेव अवन्तिसुन्दरीकथायाम् -

भिन्नतीक्ष्णमुखेनाऽपि चित्रं बाणेन निर्व्यथः।

व्याहारेषु जहौ लीलां न मयूरः::::::::::।।

इति बाणो मयूरश्च कवी स्मृतौ दृश्येते । अनेन अवन्तिसुन्दरीकथायां वर्णितायाः कादम्बर्याः वर्णनस्य बाणवर्णितकादम्बरीवर्णनेन सह साजात्येनापि दण्डिनो बाणपरवर्तित्वं मन्यते। बाणः ७१५ मितवैक्रमाब्दे तनुं तत्याजेति मन्यते। तदनन्तरवर्तित्वेन दण्डिनः ७३०-८०० मितवैक्रमाब्दकालः स्थितिकालत्वेन विद्वत्सु सम्मतिः।

दण्डिनः प्रासादिकगुणगुम्फितां सरलां भाषां विलोक्य केचित्तं बाणपूर्ववर्तिनमेव मन्यन्ते । तेषां मते सति तस्य बाणपरवर्तित्वे तस्य भाषयाऽपि बाणप्रवर्तितशैल्या प्रभावितया भाव्यं स्यान्न हि भाषयाऽपि तथा प्रतीयत इति। किन्तु नेदं युक्तियुक्तं प्रमाणं मन्यते यतो हि बाणपश्चाद्वर्तिनः सर्वे बाणमेवानुकुर्वन्तीति नैव राजाज्ञा कुत्रापि । कवेस्तु स्वकीयं वैशिष्ट्यं भवति । कमनीयपदावल्येव दण्डिनो वैशिष्टयम् । कल्पितेऽपि प्रमाणबाहुल्ये दण्डिनो यथार्थतः स्थितिकालस्तु ७००-८५० मितवैक्रमाब्दान्तरालः मन्यते। तेन ७५० मितवैक्रमाब्दपश्चाद्वर्तिना तु न कदापि भाव्यं यतो हि ७५० मितवैक्रमाब्दानभितः स्थितिमती विज्जका तं स्पष्टमेव स्मरति ।

नीलोत्पलदलश्यामां विज्जकां मामजानता।

वृथैव दण्डिना प्रोक्ता सर्वशुक्ला सरस्वती॥ इति ।

विज्जका द्वितीयपुलकेशिनः पुत्रस्य चन्द्रादित्यस्य पट्टराज्ञी विजयभट्टारिकैव नान्या।

दण्डी संस्कृतसाहित्ये मूर्तिमत् कविरेव। कथ्यते हि -

जाते जगति वाल्मीकौ कविरित्यभिधाऽभवत्।

कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि।। इति ।

दण्डिनः कृतित्वेन सन्त्यनेके ग्रथाः प्रसिद्धाः । यथा -

१. दशकुमारचरितं - गद्यकाव्यं कथारूपम् ।

२. काव्यादर्शः - लक्षणग्रन्थः

३. अवन्तिसुन्दरीकथा - गद्यकाव्यम्

४. छन्दोविचितिः

५. कलापरिच्छेदः

६. द्विसन्धानकाव्यम्

७. वातमन्दिरम्

केचिदत्र मृच्छकटिकं गृह्णन्ति किन्तु वातमन्दिरमेव तत् । तेष्वपि त्रयो नितान्तं ख्याताः -दशकुमारचरितं, काव्यादर्शः, अवन्तिसुन्दरीकथा (सम्भवतः)। कलापरिच्छेदः काव्यादर्शस्यैवाग्रिमो भागो न तु स्वतन्त्रग्रन्थः । एवमेव छन्दोविचितिरपि । यथोक्तं काव्यादर्शो -

'इत्थं कलाचतुःषष्ठिविरोधः साधु नीयताम्।

तस्याः कलापरिच्छेदे रूपमाविर्भविष्यति।।[१]

'पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ।

छन्दोविचित्य सकलस्तत्प्रपञ्चो निदर्शितः ।।[२]

दण्डिनो द्विसन्धानकाव्यमित्थं भोजराजेन शृङ्गारप्रकाशे स्मृतम् -

'द्वितीयस्य ( द्विसन्धानप्रकारस्य ) उदाहरणं यथा दण्डिनो धनञ्जयस्य द्विसन्धानप्रबन्धौ'[३]

दशकुमारे यादृशी भौगोलिकी स्थितिवर्णिताऽस्ति तदनुसारेण तु दण्डी प्रभाकरवर्धनसमकालिको दृश्यते । तदनुसारेण तस्य बाणपूर्ववर्तित्वं सिध्यति अपि च गद्यकाव्यस्य प्रथमप्रयोक्तत्वञ्च । किन्तवेतन्न तथा प्रामाणिकं यतो हि कवयः श्रुतं वा कल्पितमप्यर्थं लीलया वर्णयन्ति यथा नैषधीयचरिते दमयन्तीस्वयंवरसभायां सप्तानामेव द्वीपानां राज्ञां विशेषतो जम्बूद्वीपस्य अवन्ति-गौड-मथुरा-काशी-अयोध्या-पाण्ड्य-महेन्द्र-काञ्ची-नेपाल-मलय-मिथिला-कामरूप-उत्कल-कीकटमहीपतीनामुपस्थितिवर्णनम् । अपरञ्च हर्षनिर्वाणानन्तरमपि भारतस्य दशा तथैव सञ्जाताऽऽसीद्या प्रभाकरवर्धनसमये आसीत् । काव्यादर्शे दण्डी कथयति यत् -

'इति साक्षात्कृते देवे राज्ञो यद्राजवर्मणः।

प्रीतिप्रकाशनं तच्च प्रेय इत्यवगम्यताम्॥'[४] इति ।

राजवर्माणं स्वाश्रयदातृत्वेन स्मरति । ऐतिहासिकैः खलु राजवर्मा इति ७४७-७८२ मितवैक्रमाब्दान्तराले काञ्चीं शासत्पल्लवराजो नरसिंहूवर्मा गृह्यते । सति तथा, दण्डिनोऽपि तत्सभाकवित्वेन वा तत्समकालिकत्वेन ७३०-८०० मितवैक्रमाब्दकालः स्थितिकालत्वेन मन्यते ।

दण्डी न केवलं विद्वान्, तस्य कल्पना उदात्ता बदुमुखी च । नास्य प्रबन्धः सुबन्धोरिव प्रत्यक्षरश्लेषमयो नापि च बाणस्येव रुचिरस्वरुवर्णपदानि । अस्य तु पदानि प्रसादमधुराणि ललितललितानि भावगभितानि च । समालोचकाः आमनन्ति यत्, स्पष्टता, भव्यभावसमभिव्यक्तिः कोमलकल्पनाकमनीयता, विचारवेशद्यञ्चास्य कृतिगतं वैशिष्ट्यम् । कविरसौ अनुप्रासमयपदविन्यासे एव रमते । तेनैवोक्तं भवेत् - 'दण्डिनः पदलालित्यम्' इति । अस्य पात्राणां सजीवता रोचिष्णुहास्यविलासः हृदयङ्गमा व्यङ्गभङ्गी च सर्वेषां कृते प्ररोचकाः । यथा हि -

'कुमारा माराभिरामा रामास्तपौरुषा रुषा भस्मीकृतारयो रयोपहसितसमीरणा रणाभियानेनाभ्युदयाशंसं राजानमकार्षः।'

निभाल्यतामस्य कवित्वकमनीयताऽत्र -

सुभग कुसुमसुकुमारं जगदनवद्यं विलोक्य ते रूपम्।

मम मानसमभिलषतित्वं वित्तं कुरु तथा मृदुलम्॥ इति ।

एवमेवास्य वर्णनकौशलस्योदाहरणं यथा -

'तत्र चकोरलोचनावचितपल्लवकुसुमनिकुरस्वं महीरुहसमूहं शरदिन्दमुख्या मन्मथसमाराधनस्थानञ्च नताङ्गीपदपङ्क्तिचिह्नितं शीतलसकततलञ्च सुदतीमुक्तमुक्तं माधवीलतामण्डपान्तरपल्लवतल्पं च विलोकयन् ललनातिलकविलोकनवेलाजनितशेषाणि स्मारं स्मारं मन्दमारुतकम्पितानि नवचतपल्लवानि मदनाग्निशिखा इव चकितो दर्शं दर्शं मनोजकर्णेजपानामिव कोकिलकोरमधुकराणां क्वणितानि श्रावं श्रावं मारविकारेण क्वचिदप्यवस्थातुमसहिष्णुः परिबभ्राम' इत्यादि ।

सत्यमेवोक्तमेकेन समालोचकेन यद्दण्डिनो दशकुमारचरिते नानाविधा, रोमाञ्चकारिघटनाः सन्ति । ग्रन्थस्यास्य मुख्यो रसस्तु वीर एव किन्तु प्राधान्यमद्भूतस्यापि ।

त्रयोऽग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः ।
त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ॥
इति महाकविः राजशेखरः स्वस्य सुभाषितहारावलिग्रन्थे वदति । संस्कृतसाहित्ये गद्यकविषु दण्डी (Dandi) बहु प्रख्यातः अस्ति। गद्यकाव्येषु याद्र्शी कुतूहलता दण्डिना प्रदर्शिता ताद्र्शी कुतूहलता आसक्तिः च केनापि न प्रदर्शिता। दण्डिनः सप्त कृतयः समुपलभ्यते।


दशकुमारचरितम्
----------------------
दशकुमारचरितं दण्डिनः प्रथितं गद्यकाव्यम् । अस्य पूर्वपीठिका, दशकुमारचरितं, उत्तरपीठिका चेति त्रयो भागाः । तत्रापि केचित्तु भाषागतभङ्गीमुद्दिश्य केवलं चरितभागमेव दण्डिप्रणीतं मन्यन्ते । तदनुसारेण यथा चरितभागस्य कमनीयपदा प्रसादगुणगुम्फिता मधुरमधुरा च भाषा न तथा पूर्वोत्तरपीठिकयोरिति । किन्तु कथनमतन्न युक्तियुक्तं सर्वेभ्यः। भाषाभङ्गी विषयानुबन्धिनी कवेस्तात्कालिकमनोवृत्यनुगा च । तेन एक एव कविरपि विविधभाषाभङ्गीमनुतिष्ठतीति नाश्चर्यं विषयाद्यनुसारेण ।

दशानां कुमाराणामतिपौरुषपराक्रमवर्णनमेवाऽस्य ग्रन्थस्य विषयः । मगधेशकुमारस्य राजवाहनस्य तन्मित्राणां नवानां देशविदेशाटनानुभवानां मनोहारि वर्णनमत्र दृश्यते।

दशकुमारचरितस्य सन्त्यनेके टीकाग्रन्थाः । अस्य पूर्वपीठिकायाः पददीपिकाऽभिधा टीका लभ्यते प्राचीना, नवीना च शेषराजशर्मणश्चन्द्रकलाऽऽख्या । मध्यभागस्य पदचन्द्रिका कवीन्द्राचार्यसरस्वतीकृता, शिवरामप्रणीता भूषणाऽऽख्या, लघुदीपिका च भानुचन्द्रकृता टीकाः । उत्तरपीठिकायाः न काऽपि टीका लभ्यते । पूर्वपीठिकायाः मध्यभागस्य च ताराचरणभट्टाचार्यप्रणीता बालविबोधिनी नाम्नी टीकाऽपि दृश्यते।

काव्येस्मिन् शोभनाशोभनयोः द्वयोरपि वर्णनं दृश्यते। दशकुमाराणां चरितम् अस्य काव्यस्य मूलविषय: अस्ति ।

स मेधावी कविर्विद्वान् भारविं प्रभवां गिराम् ।
अनुरुध्याकरोन्मैत्रीं नरेन्द्रे विष्णुर्वधने ॥
अनेन पद्येन कवेः जीवनचरितं प्रकाशितं भवति । दण्डिनः कवेः प्रपितामहस्य श्रीदामोदरस्य मैत्री विष्णुवर्धनेन सहाभवत् । दण्डिनः जन्म काञ्चीवरमिति नाम्नाधुना प्रसिद्धनगरे अभवत् । काञ्च्याः पल्लवनरेशस्य पुत्रस्य शिक्षायै दण्डी ' काव्यादर्शम्' रचितवान् इति प्रसिद्धास्ति किंवदन्ती ।

नवमशतब्द्याः ग्रन्थेषु दण्डिनः नामोल्लेखः प्राप्यते । अतः दण्डिनः समयो नवमशताब्द्याः पूर्वं भवितुमर्हति । "काव्यादर्शः"अस्य मौलिकग्रन्थो प्रतिभाति । प्राचीनमपि पद्यं काव्यादर्शे दृश्यते । "लक्ष्म लक्ष्मीं तनोतीति प्रतीतिसुभगं वचः" इत्यादौ दण्डी, महाकविकालिदासस्य "मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति" इति पद्यांशमुद्धरति । अतः कालिदासस्य पद्यादेवास्यास्तित्वमिति निर्विरोधम् ।

प्रो०आर्०नृहिंसाचार्यः काव्यादर्शे उल्लिखितं राजवर्माणं नृसिंहवर्मणा उपनाम्ना प्रसिद्धं मत्वा दण्डिनः स्थितिकालं सप्तमशताब्द्याः उत्तरार्धे स्वीकरोति । वस्तुतस्तु पल्लवराजस्य नृसिंहवर्मणः समयः ६९० ई आरभ्य ७१५ ई मन्यते । अत अस्यैव सभापण्डितस्य दण्डिनः समयः सप्तमशताब्द्याः अन्ते अष्टम-शताब्द्याश्चादौ वा मन्तव्य इति युक्तिसङ्गतं प्रतिभाति ।

दशकुमारचरितं दण्डिनः गद्यकाव्यं विद्यते । दशकुमाराणां चरितं काव्येऽस्मिन् वर्णितमतो दशकुमारचरितमिति नाम ।

अवन्तिसुन्दरीकथा

अवन्तिसुन्दरीकथा दण्डिनोऽपरा कृतिः। ग्रन्थोऽयमपि हर्षचरितमिव कतिपयैः पद्यैरारभ्यते । अत्रापि वाल्मीकि-व्यास-सुबन्धु-गुणाढ्य-शूद्रक-भास-प्रवरसेन-कालिदास-नारायण-बाण-मयूराख्यानां कवीनां नामग्रहणं कृतमस्ति । तत्र कतिपयपद्यानां मध्यभागः खण्डितोऽपि दृश्यते । ततश्च गद्येन ग्रन्थारम्भः कृतोऽस्ति । अत्र बाणस्य कादम्बरी पुनरुक्तेव दृश्यते भाषाभाववर्ण्यविषयादिदृष्ट्या। दण्डिना 'ओजःसमासभ्यस्त्वं गद्यस्य जीवितमिति' यदुक्तं तदवन्तिसुन्दरीकथायामेव चरितार्थं भवति न तु दशकुमारचरिते ।
शास्त्री रेखा सिंह जयशूर

रमण महर्षि

रमणमहर्षिः

आधुनिकभारतस्य महान् ऋषिः आसीत् । श्रीरमणमहर्षिः –(डिसेम्बर-३० १८७९तः –एप्रिल -१४-१९५०पर्यन्तम् ) भारते सुप्रसिद्धेषु आध्यात्मगुरुषु अन्यतमः। सः आत्मज्ञानप्राप्त्यर्थम् 'अहं कः?’ इति आत्मविचारविषयकस्य ज्ञानमेव प्रमुखं साधनम् इति बोधितवान् । अग्रे सः एव विषयः विस्तारितः भूत्वा गुरुं प्रति अथवा इष्टदेवतां प्रति शरणागतिः अपि उत्तमं साधनम् इति उक्तवान् । ये अन्यविधानानि अनुसरन्ति स्म तादृशेभ्यः साधकेभ्यः अपि सूचनां, मार्गदर्शनं च करोति स्म ।

तस्य पूर्वतनं नाम वेङ्कडरमण-अय्यर् । तमिळ्नाडुराज्यस्य मधुरै समीपस्य तिरुचुरिग्रामे जन्म अभवत् । पिता सुब्रह्मण्यअय्यरः माता अळगम्माळ । तेषां कुटुम्बस्य चतुर्षु पुत्रेषु एषः द्वितीयः । १८७६ तमे वर्षे तन्नाम षोडशे वयसि जातस्य आत्मप्रज्ञानुभवस्य अनन्तरं शास्वतरुपेण अरुणाचलं प्रति (तिरुवण्णामलै) आगतवान् । ततः शेषायुष्यं तत्रैव यापितवान् ।

श्री रमणमहर्षिः आत्मविचारं तन्नाम , आत्मज्ञानप्रप्त्यर्थम् 'अहं कः?’ इति विचारस्य आत्मान्वेषणविधानम् उत्तमसाधनं भवितुम् अर्हति इति विचारं बोधितवान् । एतत् विधानं 'श्री रमण नुट्रिएट्टु’, प्रबन्धे विस्तरेण विवृतवान् अस्ति । आत्मविचारकं विधानं नाम बुद्ध्यात्मक व्यायामः इति अपार्थः न करणीयः इति उक्तवान् । योग्यरीत्या कृतः आत्मविचारः 'अहम् इति संवेदनाम् अतिरिच्य चिन्तनं विना सुभद्रतया,प्रखरतया च केन्द्रीकृतं भवति इति। स्व- आत्मविचारं सः एवं विवृतवान् अस्ति- “ मम मातुलस्य गृहे प्रथमे अट्टे एकस्मिन् प्रकोष्ठे उपविष्टवान् आसम्। अहं कदाचित् एव ज्वरपीडितः भवामि स्म । आरोग्ये अन्यः कोऽपि क्लेशः न आसीत् । तथापि हठात् मम मनसि मरणस्य भयम् उत्पन्नम् । एतस्य निमित्तं आरोग्यसम्बद्धः कोऽपि हेतुः न आसीत् । भयस्य कारणम् अन्वेष्टुम् अपि मनः न प्राभवत् । अहं मरणं प्राप्नुवन् अस्मि इति भावना उत्पन्ना । यदि मरणं सन्निहितं तर्हि किं करणीयम् इति चिन्तितवान् । मरणभीत्याः आधाततः अहम् अन्तर्मुखः अभवम् । स्तब्धः अहं मनसि एव विचिन्त्य स्वगतं एवम् उक्तवान् “ इदानीं मरणं सन्निहितं, मरणम् इत्युक्ते किं स्यात्? किं नश्यति, एतत् शरीरं नश्यति’ अनुक्षणं मरणं जातमिव नटनं कृतवान् । शरीरं ह्स्तौ, पादौ साक्षात् प्रसार्य, चलनेन विना शवः इव अनुसरणं कृतवान्। एतस्य विषयस्य वास्तविकतां ज्ञातुं श्वासं अवरुद्ध्य ओष्टौ दृढीकृत्य, (अहम् इति वा अन्यः वा शब्दः कदाचित् बहिः निस्सरेत् इति कारणतः ) यथा शब्दः न भवेत् तथा पिधानं कृतवान् । तदा स्वगतम् उक्तवान् “ सत्यम् एतत् शरीरं नष्टम्, एतस्य दहनं कुर्वन्ति, शरीरस्य दहनमात्रेण अहं मृतः इति अर्थः वा? 'अहम्’ इत्याख्यम् एव शरीरं वा? तत् तु मौनं जडं च। किन्तु अहं मम व्यक्तित्वस्य सम्पूर्णां शक्तिं तथा मयि विद्यमानम् 'अहम्’ इति स्वरः भिन्नौ इत्यस्य अनुभवं प्राप्तवान् । अतः एतस्मात् शरीरात् भिन्नं चैतन्यम् (चेतनं कदापि मरणं न प्राप्नोति)। तन्नाम 'अहं’ इत्यस्य मरणं नास्ति । सर्वदा चैतन्ययुक्तं भवति । एवं चिन्त्यमानाः विचाराः, एतादृशानि चिन्तनानि वा सामान्यानि न । जीवन्ति सत्यानि इति विषयः मनसि स्फुरितः। अहम् इत्येतत् किञ्चन सत्यम्। प्रस्तुतस्थितौ अहम् इत्यनेन एकेनैव सत्यत्वं प्राप्तम् आसीत् । अपि च शरीरेण प्रज्ञापूर्वकं योजिताः अंशाः सर्वे 'अहम् 'इत्यत्र केन्द्रीकृतानि आसन् । अनुक्षणं 'अहम्’ अथवा 'आत्मा’ इत्यंशः प्रबलः सन् सर्वं चिन्तनं तत्र केन्द्रीकृतम् अभवत् । मरणस्य भयं चिरम् अपगतम् । अहं नामकः विषयः आत्मप्रज्ञायाः महापूरे विनष्टः। तदारभ्य आत्मलीनता लुप्ततां विना अनुवर्तिता। इतरे विचाराः सङ्गीतस्य नादाः इव तदा तदा आगत्य गच्छन्ति स्म। किन्तु 'अहम्’ इति विषयःमूलश्रुतिः इव अनुवर्तिता। सा इतरनादानां मूलशिला इव नादानां योजनस्य श्रुतिः अभवत्।


श्री रमणमहर्षेः बोधने तथा शङ्कराचार्यणां विस्तृतेषु अद्वैतसिद्धान्तेषु च बहुसादृशम् अस्ति तथापि केचन भेदाः भवन्ति । • अद्वैतसिद्धान्तं नकारात्मकं 'नेति, नेति (एतत् न , एतत् न ) मार्गं सूचयति। श्रीरमणमहर्षिः सकारात्मकं 'अहं कः ?’ इति विचारं सूचयति । • अद्वैतसिद्धान्तम् आत्मानं विहाय आत्मरहिताः इतरकोशाः (अन्नमयः, प्राणमयः, मनोमयः, विज्ञानमयः, आनन्दमयः च) त्यक्तव्याः इति बोधयति । रमणमहर्षिः “ अहं कः ? इति रुपस्य विचारः प्रमुखं साधनम् । मनसः शमनं कर्तुं अन्यः मार्गः नास्ति । यदि अन्यामार्गेण मनसः शमनार्थं प्रयतन्ते चेदपि तात्कालिकं शमनं जातं भवति किन्तु तस्य पुनरुत्थानं भवितुम् अर्हति” इति सूचितवान् ।"
शास्त्री रेखा सिंह जयशूर

राज्ञी पिङ्गळा

राज्ञी पिङ्गळा

'चन्द्रावती’ बहुसुन्दरं नगरम् । अत्र परमारवंशस्य अन्तिमः राजा हूणः राज्यशासनं करोति स्म । एतस्य पत्नी एव राज्ञी पिङ्गळा । कदाचित् राजा मृगयार्थं गतवान् आसीत् । तत्र सः किञ्चन अद्भुतं दृश्यं दृष्टवान् । राजगृहं प्रति प्रत्यागमनानुक्षणं सः तद् दृश्यं पत्न्यै विवृतवान् । तस्य ध्वनिः गद्गदितः आसीत् । नेत्रे अश्रूभिः पूर्णे आस्ताम् । व्याधसदृशेषु सामान्यजनेषु अपि तादृश्यः सतीमणयः सन्ति किल इति सः विस्मितः आसीत् । कञ्चित् व्याधं वने कश्चन सर्पः दष्टवान् । परिणामेन सः मृतः । तस्य पत्नी स्वयं चितां निर्माय पत्युः देहं तत्र संस्थाप्य अग्नेः स्पर्शं कृत्वा अनन्तरं स्वयमपि अग्निप्रवेशं कृतवती आसीत् । शरीरं दहत् अस्ति चेदपि तस्याः सतीमण्याः मुखे विषादस्य छाया अपि नासीत् । सा प्रसन्ना आसीत् । तद् दृश्यमेव स्मरतः राज्ञः वचनं श्रुत्वा राज्ञी पिङ्गळा एवं वदति यद् "निश्चयेन सा काचित् वीरमहिला स्यात् । किन्तु तां 'सती’ इति वक्तुं न शक्नुमः । पत्युः मरणानन्तरमपि जीवितवतीं पत्नीं 'सती’ इति कथम् निर्दिशति ? पत्युः मृत्युवार्तायाः श्रवणानुक्षणं पत्नी पत्युः किञ्चित् चिह्नां धृत्वा अविलम्बेन एव स्वस्य शरीरस्य त्यागं करोति” इति । महाराजः पत्न्याः एतादृशानि वचनानि न इष्टवान् । सा कस्याश्चित् साध्व्याः सतीत्वस्य अपहास्यं कुर्वती अस्ति इति चिन्तयित्वा व्यङ्ग्यध्वनिना वदति "एतादृशी सती राज्ञी पिङ्गळा अपि भवितुं शक्नोति किल" ? इति । एतद् श्रुत्वा राज्ञी स्वस्यापि परीक्षा कदाचित् भविष्यति इति सत्यम् अवगतवती । तस्याः स्ववचनैः लज्जा, पश्चात्तापः च अभवताम् । किन्तु किं कर्तुं शक्यते ? तस्याः मुखात् वचनानि निर्गतानि आसन् । इतःपरं किमपि कर्तुं न शक्यते इति चिन्तितवती । कदाचित् धर्मगुरुः दत्तात्रेयस्वामी प्रासादम् आगतवान् आसीत् । समयं दृष्ट्वा राज्ञी तेन मिलित्वा स्वस्य समस्यां वदति "प्रभो ! मम पतिः सर्वदा मृगयासु, युद्धेषु च अधिकं कालं यापयति । यदि सः शत्रुदेशे मरणं प्राप्नोति तर्हि तस्य मरणस्य ज्ञानं मम कष्टं भवति । अतः मम पतिः जीवेन अस्ति वा, न वा इति मया कथां ज्ञातव्यम् ? कृपया परिहारं सूचयतु” इति । तदा सः गुरुः "वत्से ! मम समीपे भवत्याः अन्तरङ्गम् आच्छादयन्ती अस्ति किल ? एतादृशी स्थितिः आगच्छति इति भवती एव स्वयं सज्जतां कृतवती वा इति भासते । एतं विषयं भवती जानाति वा, न वा किन्तु परिणामः तु समानः अस्ति । एतस्मिन् विषये भवत्याः तावती आसक्तिः अस्ति चेत् वदामि, शृणोतु !” इत्युक्त्वा स्वस्य प्रसेवात् किञ्चन बीजं बहिः निष्कास्य पिङ्गळायाः हस्ते यच्छन् वदति "एतद् बीजम् अङ्गणे आरोपयतु । एतेन किञ्चन सस्यम् अङ्कुरितं भवति । भवत्याः महाराजस्य जीवनस्य विषये यदा शङ्का भवति, तदा एतस्य सस्यस्य स्नानं कारयित्वा, पृच्छतु । राजा जीवन् अस्ति चेत् सस्यात् जलबिन्दवः पतन्ति । यदि राजा मृतः तर्हि अनुक्षणं सर्वाणि पर्णानि शुष्काणि भूत्वा सस्यात् पतन्ति” इत्युक्त्वा दत्तात्रेयस्वामिनः प्रस्थितवन्तः । तेन यथा उक्तं तथैव राज्ञी पिङ्गळा बीजम् आरोपितवती । अङ्कुरितबीजेन सस्यम् आगतम् । उत्तमपोषणेन आकर्षकं सस्यं जातम् ।

*महाराजद्वारा पत्न्याः सतीत्वस्य परीक्षा*

राज्ये दस्यूनाम् पीडनम् अधिकम् अभवत् । तेषां निवारणार्थं महाराजेन गन्तव्यम् आपतितम् । पूर्णतया दस्यूनां दमनं कृत्वा प्रत्यागच्छतः राज्ञः मनसि राज्ञ्याः सतीत्वस्य परीक्षायाः विचारः आगच्छति । 'दस्युभिः सह युद्धसमये महाराजः मरणं प्राप्तवान्’ इति सन्देशं, सन्देशवाहकस्य द्वारा प्रेषयितुम् इष्टवान् । एषा वार्ता अनृता इति अन्तिमक्षणे वक्तव्यम् इति तस्मै दूताय सूचनां दत्तवान् आसीत् । एवमेव दूतः राजमुकुटं स्वीकृत्य राजधानीं गत्वा महाद्वारतः एव रुदन् आगतवान् । काचित् अमङ्गलकरी वार्ता स्यात् इति राज्ञी ऊहितवती । दूतद्वारा वार्तां श्रुत्वा राज्ञी क्षणं यावत् दिग्भ्रान्ता जाता । तथापि स्वयं समाधाननं प्राप्य अग्रिमकार्यार्थं सज्जा अभवत् । स्नानं कृत्वा तस्य पवित्र सस्यस्य समीपं गत्वा तस्य स्नानं कारयित्वा, पूजां कृत्वा अनन्तरं स्वस्य शङ्कां पृष्टवती । अनुक्षणमेव सस्यात् जलबिन्दूनां पातः आरबब्धः । एतद् दृष्ट्वा राज्ञी पिङ्गळा राजा जीवति इति निश्चितवती ।

*सतीत्वस्य परीक्षायां पिङ्गळायाः जयः*  -
'महाराजः मम परीक्षार्थम् एतं दूतं प्रेषितवान्’ इति भासते । मया शरीरस्य त्यागः करणीयः इति इच्छा तस्य स्यात् वा ? पत्युः इच्छापूरणे एव स्त्रियाः पतिव्रताधर्मः निगूहितः अस्ति । परलोकं प्रति गमनानन्तरं तु सः मया प्राप्यते एव । यदि एतस्मिन् सन्दर्भे अहं शरीरत्यागं न करोमि तर्हि मम पितुः कुलमपि कलङितं भवति “ राजा सोमचन्द्रस्य पुत्री पत्युः मरणवार्तां श्रुत्वापि जीविता अस्ति किल ? कियान् लज्जास्पदः विषयः एषः इति जनाः परस्परं न वदन्ति वा?” इति चिन्तयित्वा महाराजः जीवति इति ज्ञात्वाऽपि मरणं प्राप्तुं सज्जा अभवत् । राज्ञी पिङ्गळा योगाभ्यासं सम्यक् पठितवती काचित् उत्तमयोगिनी आसीत् । अतः सा पत्युः किरीटं अङ्के स्वीकृत्य आसनस्था अभवत् । अपानेन सह प्राणसंलग्नं कृत्वा, समानम् उदानं च स्वीकुर्वती कण्ठात् भ्रुवोः मध्ये योजितवती । परिस्थितिः अन्तिमघट्टे अस्ति इति ज्ञात्वा दूतः "महाराज्ञि ! मया उक्तं सर्वम् असत्यम् । एवं महाराजः उक्त्वा प्रेषितवान् आसीत् । तद्वत् भवत्यै वदन् अस्मि” इति उक्तवान्। महाराज्ञी एतस्य श्रवणस्य स्थितौ नासीत् । मुखस्य मूलं छेदयित्वा ब्रह्मरन्ध्रेण तस्याः प्राणाः गताः आसन् । सा गतप्राणा अभवत् । दूतः प्रत्यागतवान् । दूतस्य प्रेषणानन्तरं वस्तुतः राज्ञी मरणं प्राप्नुयात् इति शङ्का महाराजस्य भवति । अतः सज्जतां कृत्वा यावत् शीघ्रं तावत् नगरं प्रति प्रस्थितवान् । एवं प्रयाणं कृत्वा नगरसमीपम् आगच्छन् सः समीपस्थं श्मशानं गतवान् । तत्र कस्यांश्चित् चितायां ज्वलाः ज्वलन्त्यः आसन् । तस्मात् चन्दनस्य सुगन्धः बहिः आगच्छति स्म । तत्रत्यां परिस्थितिं दृष्ट्वा राज्ञी प्राणत्यागं कृतवती इति विचारः स्पष्टः अभवत् । तत्र ज्वलन् शवः पत्न्याः एव इति सत्यं सः ज्ञातवान् । अनुक्षणं सः विक्षिप्तः जातः ।

राजा स्वेन धृतानि वस्त्राभूषणानि निष्कास्य क्षिप्तवान् । अनन्तरं पादाभ्यां श्मशानं प्रविष्टवान् । अश्वस्य उपरि आरुह्य वायुवेगेन आगतवान् आसीत् इति कारणेन बहुश्रान्तः, तेन सह कोऽपि नासीत् इत्यनेन सः एकाकी आसीत् । श्मशानेऽपि शवः पूर्णरूपेण दग्धः इत्यनेन सर्वे जनाः प्रस्थितवन्तः आसन् । अतः एषः उन्मत्तः इव रुदन्, श्मशाने सर्वत्र अटन् आसीत् ।

*गोरक्षनाथस्य उपदेशः* -
सिद्धः, परमपुरुषः, योगिश्रेष्ठः च गोरखनाथः तस्मिन् समये एव नगरं प्रति आगच्छन् आसीत् । सः महाराजस्य स्थितिं दृष्टवान् । तस्य महापुरुषस्य हृदये दया उत्पन्ना । अतः सः समीपम् आगत्य रुदन्तं राजानं यदा पृच्छति तदा राजा पत्न्याः मरणस्य वृत्तान्तं विवृतवान् ।

सम्यक् तस्मिन् समये एव गोरखनाथस्य हस्ते विद्यमानं मृत्तिकापात्रं स्खलनेन अधः पतित्वा छिन्नम् अभवत् । सः भग्नखण्डान् एकत्र योजयन् 'हन्त ! हन्त !’ इति चीत्कारम् आरब्धवान् ।

एतद् दृष्ट्वा राजा आश्चर्यचकितः जातः । सः पृच्छति "वराटिकाद्वयस्य एतस्मै घटाय भवत्सदृशाः एवं रुदन्ति वा ? एतस्य अपेक्षया उत्तमानि पात्राणि भवते न लभ्यन्ते वा ? तद् तु मृत्तिकया निर्मितं पात्रमासीत् । अतः पतनानुक्षणं भग्नं जातम्” इति । "मम घटः तु मृत्तिकायाः आसीत् । किन्तु भवतः पत्नी सुवर्णेन निर्मिता आसीत् किम् ? अहम् एतस्य अपेक्षया उत्तमं मृत्तिकापात्रं प्राप्नुयाम् । एवमेव भवतेऽपि अस्मिन् जगति द्वितीया पत्नी लभ्येत । मम घटः वराटिकाद्वयोः मूल्यस्य स्यात् । किन्तु भवतः पत्न्याः मूल्यं तावदपि नास्ति किल ? भवतः क्षणिकसुखाय सा साहायिका आसीत् इत्येतत् विहाय अन्यद् किमपि साहाय्यं नासीत् । मम भिक्षापात्रं सर्वदा मया सह भवति स्म । एतेन एव अहं जलं पिबामि स्म । एतेन एव भिक्षान्नं प्राप्नोमि स्म । एतस्य शिरः अधः कृत्वा, उपधानमिव मम शिरसः अधः संस्थाप्य शयनं करोमि स्म । भवान् बहु बुद्दिमान् जातः किम् ? माम् एव उपदिशति वा ? मम भिक्षापात्रस्य खण्डान् योजयतु अहं भवतः स्त्रीम् अपि जीवयामि !” इति कोपस्य नाटकं करोति गोरखनाथः ।

*पिङ्गळायाः कारणतः जगतः मिथ्यात्वस्य अवगमनम्* -

तस्य वचनानि श्रुत्वा राजा स्तम्भीभूतः जातः । एतावत्पर्यन्तम् अहं कियान् मूर्खः आसम् इति चिन्तयति । स्वस्य मूर्खतायै वेदनाम् अनुभूय क्षमायाचना रीत्या "प्रभो ! भवान् सर्व समर्थः । अहं केवलं यः कश्चित् नीचमानवः । भवतः चरणे शरणं गतवान् अस्मि । तां साध्वीपत्नीं विहाय अहं जीवितुं न शक्नोमि । भवान् तां मम निमित्तं जीवयतु !” इति प्रार्थितवान् । तस्य साधोः चरणयोः पतितवान् च । "उत्तिष्ठ ! उत्तिष्ठ ! एतासु भवतः पिङ्गळा का इति अन्विष्यतु !” इति उक्तवान् गोरखनाथः । एवम् उक्त्वा सः महात्मा किञ्चित् भस्म स्वीकृत्य तत्रत्यचितायाः उपरि स्थापितवान् । तावता तयोः पुरतः स्त्रीणां कश्चित् गणः एव स्थितः आसीत् । ताः सर्वाः सुन्दर्यः आसन् । सकलालङ्कृताः, आकर्षिकाः च आसन् । सौन्दर्ये तु सर्वाः समानाः आसन् । सर्वाः राज्ञी पिङ्गळा इव आसन् । तासु स्वस्य राज्ञी का इति ज्ञातुं राजा असमर्थः जातः । पुनः सः साधुं प्रार्थयति । साधुः अनुक्षणं करताडनं करोति । वास्तविकां पिङ्गळां विहाय अन्याः सर्वाः अनुक्षणम् अदृश्याः अभवन् । एतद् सर्वं दृष्ट्वा महाराजस्य प्रापञ्चिकव्यामोहस्य विषये इच्छा गता । सः उक्तवान् "प्रभो ! इदानीं मम सर्वे मोहाः दूरं गताः । एतावत्पर्यन्तम् अहं पर्याप्तमात्रेण राज्यसुखोपभोगान् अनुभूतवान् अस्मि । इदानीं भवान् मह्यम् भवतः श्रीचरणे स्थानं ददातु !” इति वदन् तस्य पादयोः उपरि पतितवान् । तस्य हृदये परिवर्तनं जातम् आसीत् । तत्र पूर्णं वैराग्यम् आच्छादितम् आसीत् । मोहरहितदृष्ट्या पिङ्गळां दृष्ट्वा अनन्तरं गुरोः मुखं पश्यति । तावदा तस्याः मायापाञ्चालिकायाः राज्ञ्याः पिङ्गळायाः रूपम् अदृश्यम् आसीत् । महाराजः एवं जगतः मिथ्याम् पिङ्गळायाः तथा तस्याः जीवनात् ज्ञात्वा जीवन्मुक्तः भूत्वा, गुरोः दत्तात्रेयस्य पृष्ठतः गच्छन् अरण्यं प्रविश्य, तपसः आचरणे मग्नः जातः । सः तपसा सिद्धिं प्राप्तवान् । राज्ञ्याः पिङ्गळायाः जीवः पुण्यलोकं प्राप्नोति।"

शास्रत्री रेखा सिंह जयशूर

श्रवणकुमारः

श्रवणकुमारः

श्रवणकुमारः तस्य मातापितॄणां एकः एव पुत्रः आसीत् । तौ अन्धौ, वृद्धौ च । श्रवणकुमारः तौ उत्तमरीत्या प्रीत्या पालयति स्म । एकस्मिन् दिने तौ उक्तवन्तौ “मरणात् पूर्वम् आवां तीर्थक्षेत्राणि द्रष्टुम् इच्छावः” इति । श्रवणकुमारः शक्तियुतं कण्डोलद्वयं सज्जीकृतवान् । मातापितरौ तत्र उपवेश्य भुजस्य उपरि कण्डोलौ संस्थाप्य नीतवान् । मार्गे तयोः बहु पिपासा जाता । जलम् आनेतुं सः नदीं प्रति गतवान् । घटे जलपूरणसमये शब्दः जातः। दशरथः इति एकः राजा आसीत् । सः वने मृगयार्थम् आगतवान् आसीत् । सः जलपूरणशब्दं श्रुत्वा कश्चित् प्राणिः स्यात् इति मत्वा बाणप्रयोगं कृतवान् । सः बाणः श्रवणकुमारे लग्नः अभवत् । श्रवणकुमारः उच्चैः आक्रोशं कृतवान् । अनुक्षणं राजा दशरथः तत् स्थलं प्रति धावितवान् । प्रवृत्तं सर्वम् अवलोक्य ”मया बुद्ध्या एवं न कृतम् । अहं शब्दं श्रृत्वा कोपि क्रूरमृगः जलं पातुम् आगतवान् स्यात् इति चिन्तितवान् । क्ष्यम्यताम्” इति उक्तवान्। तदा श्रवणकुमारः “हे राजन् मम विषये भवान् चिन्तां मा करोतु। किन्तु कृपया एतत् जलं मम मातापित्रोः कृते ददातु , तौ बहु पिपासाग्रस्तौ स्तः” इति श्रवणकुमारः उक्तवान् । स्वस्य मरणस्य अपेक्षया मातापितॄणां विषये चिन्ता श्रवण्कुमारस्य । दशरथः जलं स्वीकृत्य श्रवणकुमारस्य मातापितृणां कृते दत्त्वा “ स्विकुरुतां जलम्” इति उक्तवान् । तदा तौ एककाले “ भवान् कः? भवान श्रवणः न” इति उक्तवन्तौ। राजा प्रवृत्तं सर्वम् उक्तवान् । श्रवणकुमारस्य वृद्धौ मातापितरौ तम् आघातं सोढुं न शक्तवन्तौ। पुत्रस्य आघातकर्या मरणवार्तया तौ पुत्रस्य चिन्तयामेव मरणं प्राप्तवन्तौ ।"

शास्त्री रेखा सिंह जयशूर

कर्कटी (राक्षसी)

कर्कटी (राक्षसी)
ब्रह्मवादिनीषु काचित् राक्षसी अपि अस्ति । सा तपः प्रभावेण ब्रह्मवादिनी अभवत् । एताम् अथर्ववेदमन्त्रदृष्ट्री इति सङ्केतितमस्ति । सामान्यतः भूतप्रेतसंहारार्थम् उच्यमानान् मन्त्रान् एषा एव रचितवती । अतः एव..

हिमालयस्योत्तरे देशे
कर्कटीनाम राक्षसी ।
तस्याः स्मरणमात्रेण
दुःस्वप्नः शम नं व्रजेत् ॥

इति एतं श्लोकं रात्रौ शयनस्मये उक्त्वा शयनं करोति चेत् दुःस्वप्नाः नागच्छन्ति इति वदन्ति । बृहदाकारस्य दन्ताः, गाढरक्तवर्णस्य नेत्राणि, कपिलवर्णस्य, शुष्करूक्षाः केशाः, भयानकं मुखं, विशालं शरीरं, खनिजाङ्गारम् इव कृष्णवर्णः एवं तस्याः रूपं बहुकरालः आसीत् । शाल्मलिवृक्षवत् दीर्घाः हस्तपादाः च आसन् इत्यनेन एतस्याः नाम कर्कटी इति अभवत् ।

*क्रूरा घोरा राक्षसी*

एतस्याः निवासः हिमालयपर्वतानाम् उत्तरभागे आसीत् । एतस्याः बृहत् उदरम् । सर्वदा महती बुभुक्षा । अतः कियत् खादति चेदपि पर्याप्तमिति न भासते स्म । अतः एषा दिनरातौ अटन्ती बहुप्राणिनः खादति स्म । तथापि तस्याः क्षुधायाः तृप्तिः न भवति स्म । बुभुक्षा तु दिनेदिने वर्धिता । एतेन कष्टेन सा दुःखिता जाता । जम्बूद्वीपस्य समस्तप्राणिनः जीविनः च एकश्वासेन, एककवलेन मम उदरं गच्छन्ति चेत् मम बुभुक्षा निवारणा स्यात् इति सा चिन्तितवती । किन्तु एतद् कथं सम्भवति ? जम्बूद्वीपस्य अधिकसङ्ख्यायाः मानवाः धर्मात्माः सन्ति । एषा राक्षसी कथं तान् स्पृशति ? तेषाम् अङ्गुलीस्पर्षमपि कर्तुम् एषा न शक्नोति । तथा कर्तुम् एषा असमर्था । एतेषां मानवानां सम्बन्धितान्, एतेषाम् आश्रये, रक्षणे विद्यमानान् पशुपक्षिणः स्पर्शमपि कर्तुम् एषा न शक्नोति । अतः सा अभीष्टसिद्ध्यर्थं ब्रह्माणम् उद्दिश्य कठोरतपः आरब्धवती ।

ब्रह्मणः वरम् -
बहुवर्षाणाम् अनन्तरम् एतस्याः तपसा सन्तुष्टः प्रत्यक्षः ब्रह्मदेवः वरं याचताम् इति अवदत् । अश्राम्यं सुदृढं सूचीसदृशं शरीरं मे अनुगृह्णातु । एतेन अहं यत्रकुत्रापि यदाकदापि वा गत्वा सर्वान् प्राणिनः खादितुं शक्नोमि इति वरम् अयाचत । तथास्तु भवती मारिरोगः इव भवतु । अपरिमितभोजनकर्तॄन्, कुत्सितस्थाने वसन्तान्, मलिनवस्त्रधरान्, अपवित्रद्रव्यपानजनान्, दुष्क्रियान्वितान्, शास्त्रवर्जितकर्मेषु निरतान् जनान् सम्भक्ष्य आनन्देन वसतु । किन्तु ये स्वच्छाः, सदाचारिणः, मन्त्रपठिताराः सन्ति ते भवतः आक्रमणेन रक्षिताः भवन्तु । अतः तान् भवती न स्पृशतु एव । इत्युक्त्वा ब्रह्मदेवः एतेन सम्बद्धं मन्त्रम् उक्त्वा अदृश्यः अभवत् । राक्षसी शुष्कत्वेन सूक्ष्मरूपशरीरं प्राप्तवती । सा सूच्याः अपेक्षया लघु जाता । सा बृहत् मारीरोगरूपेण प्राणिनः संहारं कर्तुम् आरब्धवती । सूक्ष्मशरीरेण सा मलिनस्थानानां, कीटैः युक्तस्थानानां, धर्मशालानां, मांसमद्यविक्रयणस्य च स्थानानां च आक्रान्तवती । बहुनरमांसभक्षणं कृतवती ।

पुनः तपः  -  
किन्तु मानसिकी तृप्तिः प्राप्ता चेदपि शारीरिकतृप्तिः न प्राप्तः । सूक्ष्मशरीरस्य सूक्ष्मभोगः स्थूलशरीरस्य न भवति । अतः तस्यै स्थूलशरीरस्य वाञ्छा समुत्पन्ना । अतः सा पूर्ववत् स्थूलरूपं प्राप्तुं कठोरतपः आरब्धवती । सप्तसहस्रवर्षपर्यन्तं सा तपः आचरितवती । एतेन तस्याः अन्तःकरणस्य शुद्धीकरणं जातम् । इन्द्रियवासनायाः नाशः अभवत् । तस्याः आत्मशुद्धिः अभवत् । विशुद्धान्तःकरणे तत्त्वज्ञानस्य उदयः अभवत् । एतम् आत्मानन्दं प्राप्य राक्षसी तृप्ता जाता । तस्याः तपस्समाधिः अखण्डा आसीत् । इदानीमपि ब्रह्मा प्रत्यक्षः अभवत् । तस्याः वचनात् पूर्वमेव सः एवं वरं दत्तवान् । पुत्रि भवत्याः देहः पूर्ववत् बृहत् भवतु । विना प्रयासेन भवती आहारं प्राप्स्यति । इतः परम् अपि भवती तपः एव कुर्वती भवतु । यदा तस्समाधितः उत्तिष्ठति तदा भवत्याः आहारः लभ्यते । सत्सङ्गार्थं यत्नं कुर्वती अग्रे गच्छतु । इति वरं दत्त्वा ब्रह्मा अदृश्यः अभवत् । राक्षस्याः शरीरं पुनः पूर्ववत् अभवत् । सा बृहदाकारं प्राप्तवती । किन्तु ध्यानेन तस्या तृप्तिः न जातमासीत् । अतः सा पुनः षण्मासपर्यन्तं तपः आचरितवती ।

जीवनमार्गपरिवर्तनम् -  

तपसा उत्थानानन्तरं तस्याः बहुबुभुक्षा आरब्धा । आहारम् अन्वष्यन्ती प्रस्थितवती सा । तदानीम् आहारसम्पादनार्थम् अन्यायमार्गं प्राणिहिंसां वा सा न इच्छति स्म । न्यायपूर्णाहारान्वेषणे पर्वतप्रदेशस्य कञ्चित् किरातराज्यं प्रविष्टवती । तस्य समीपस्थवने सा अटन्तौ द्वौ गुप्तवेषधारिणौ दृष्टवती । एते मम भोजनं भवेयुः । यदि एते पापिनः, चोराः, दस्यवः तर्हि एतान् अहं खादितुं शक्नोमि । किन्तु रात्रौ महात्मनः अपि अटन्ति । अतः एतेषां परीक्षां करोमि । एते यदि महात्मनः तर्हि एतेषां सत्सङ्गं प्राप्य अहं कृतार्था भवामि। एवं चिन्तयित्वा सा तेषां पुरतः अगच्छत् । एवम् अवदत् च.. हे क्षुद्रकीटाः भवन्तः केऽपि वा भवन्तु, इदानीं मम आहारः इव सन्ति । रात्रेः अन्धकारे अरण्ये तादृशं विकाररूपं पुरतः दृष्ट्वा तस्य गर्जनं श्रुत्वा द्वयोर्मध्ये एकः अपि भयं न अनुभूतवान् । इतः ततः धावनमपि न कृतवान् । हे मातः का अस्ति भवती ? स्वतः भयेन चीत्कारं तु न कुर्वती अस्ति किल ? एवं कोपं किमर्थं कुर्वती अस्ति ? किमपि पृष्टव्यं चेत् पृच्छतु अहम् अत्रत्यः राजा अस्मि । एषः मम मन्त्री अस्ति । अस्माकं भायनस्य यत्नं त्यजतु । यतः प्रयत्नः तु व्यर्थः भवति । इति तयोः कश्चित् धीरस्वरेण अवदत् । सः एव राजा आसीत् । अहं काचित् राक्षसी । इदानीं मह्यम् महती बुभुक्षा अस्ति । भवन्तौ द्वौ अपि एतादृशरात्रेः अन्धकारे अटन्तौ मृत्युमुखं प्राप्तवन्तौ स्तः । मम प्रश्नेभ्यः सम्यक् उत्तरं यच्छति चेत् भवन्तौ त्यजामि । अन्यथा भवन्तौ खादामि । इत्युक्त्वा राक्षसी पुरतः स्थितौ सामान्यौ न इति ज्ञातवती ।


*अध्यात्मसंवादः* -   खादनस्य वा मृत्योः भयोत्पादनप्रयत्नः वा व्यर्थः । विना परमात्मनः इच्छया, मम कर्मफलसमाप्तिं विना च कोऽपि मां मारयितुं न शक्नोति । भवती किं प्रष्टुम् इच्छति पृच्छतु मम शक्तिः यावत् अस्ति तावत् उत्तरं दातुं, भवत्याः समधानं कारयितुं च यत्नं करोमि । इति अधिकारवाण्यां प्रत्युत्तरं दत्तवान् राजा । एवं राक्षसी अपृच्छत् । राजा प्रत्यवदत् ।

प्रश्नः - एकानेकरूपाणि प्राप्यापि परमाणौ लक्षाधिकब्रह्माण्डानि कः स्थितवान् अस्ति ?
उत्तरम् - अहो भवत्याः जिज्ञासा तु परमात्मसम्बद्धा । नामरूपः इन्द्रियातीतः परमसूक्ष्मः चिन्मात्रपरमात्मा एव परमाणौ विद्यमाना शक्तिः । सः एव स्वयम् परमाणुः । बीजे यथा वृक्षः भवति तथा सः जगतः रूपे सत् भूत्वा, प्रलयसमये अविद्यमानरूपस्य अस्त् भूत्वा तिष्ठति । तथापि सः एतेभ्यः सर्वेभ्यः बहिः भवति । सः एव परमाणौ प्रविश्य, कोटिकोटिब्रह्माण्डान् स्वस्मिन् अन्तर्गतं करोति ।
प्रश्नः - अहं का ? भवन्तः के ?
(कस्याश्चित् राक्षस्याः मुखात् ब्रह्मज्ञानसम्बद्धः एतादृशाः प्रश्नाः बहिः आगच्छति इत्युक्ते आश्चर्यमेव ) अहं, भवान् इति भेदः अज्ञानजन्यः अस्ति । पार्थक्यज्ञानं (पृथक् पृथक् इति मन्यमाना) सत्यं न
प्रशनः - किम् चलति ? किम् स्थिरतया तिष्ठति ? (कः चलन् अस्ति ? कः स्थिरतया स्थितवान् अस्ति ?)
उत्तरम् - देशकालव्याप्तिम् अतिक्रम्य सर्वत्र प्रसृतस्य चलनं कुत्र अस्ति ? एषा कल्पना एव भ्रान्तियुक्ता अस्ति
प्रश्नः - चैतन्ययुक्तः चेदपि शिला इव जडत्वेन कः तिष्ठति ?
उत्तरम् - मिथ्याजगतः बहिः आगत्य तादात्म्यतां प्राप्य चैतन्यघनं स्वं जडः इति विश्वसिति ।
प्रश्नः - परमसूक्ष्मः कः अस्ति ?
उत्तरम् - ज्ञातुं कष्टम्, अशक्यः सः सर्वेश्वरः एव परमसूक्ष्मः ।
प्रश्नः - दीपः, अन्धकारः, प्रकाशः, तमः इत्युक्ते किम् ? के ते ?
उत्तरम् - ज्ञातुम् अशक्यः सः एव तमः । यं ज्ञातुं न शक्यते सः एव अन्धकारः । तस्य ज्ञानानन्तरं सः प्रकाशः भवति । परमात्मनः ज्ञानप्राप्तिः एव दीपः । अविनाशी, ज्ञानस्वरूपः अपि च सः एव । इन्द्रियद्वारा तं ज्ञातुं न शक्यते । एतद् वर्णनं सर्वं तस्मै परमात्मने एव अन्वयः भवति ।
प्रश्नः - निमेषः (पक्ष्मणः निमीलनोन्मीलनकालः) चेदपि कल्पः भूत्वा, कल्पः चेदपि निमेषः भूत्वा स्थितवान् कः अस्ति ?
उत्तरम् - मनसि (स्वप्ने) कञ्चित् विस्तारं नगरं द्रष्टुं शक्यते । एवमेव कल्पः इव विस्तारस्य जगतः वाणिज्यं निमेषे एव दृष्टुं शक्यते । कल्पः निमेषः विस्तारः सूक्ष्मः च एते सर्वेऽपि तस्मिन् चैतन्यघने समाविष्टाः सन्ति । एतद् सर्वं प्रकाशे सम्मिलितं भवति । भावनानुगुणम् असत्यं सत्यं भवति । सत्यम् असत्यं भवति ।
प्रश्नः - प्रत्यक्षः चेदपि नास्ति इत्युक्ते किम् ? चैतन्यं चेदपि जडः एतस्य अर्थः कः ? वायुः चेदपि अवायुः कः ? शब्दः चेदपि निःशब्दस्थितिः इत्युक्ते किम् ? अहं चेदपि तद् नास्ति इत्युक्ते किम् ? सर्वरूपी चेदपि निराकारः इत्युक्ते किम् ?
उत्तरम् - दृश्यस्य यथार्थता इन्द्रियानुभवस्य आधारेण भवति । एतद् परिवर्तनशीलम्, अविनाशी, आद्यन्तरहितः च । अतः प्रत्यक्षः चेदपि नास्ति इव अस्ति । सः एव चेतनातत्त्वरूपेण प्रतिभासितः अस्ति । अतः चेतनं चेदपि जडः इव अस्ति । वायोः, शब्दस्य, अहङ्कारस्य च सर्वस्वरूपाणि, भावाः च तस्मिन् एव अनुष्ठितम् अस्ति । सः एतेषु सर्वरूपेषु दृश्यते । एवं चेदपि सः एतेन सर्वेण बहिः भवति । अतः सः एकरसः, समानस्वाभावः, निर्विकारः च अस्ति । (योगवासिष्ठस्य उत्तरकाण्डे एषा कथा अस्ति । ) राक्षस्याः केभ्यश्चित् प्रश्नेभ्यः राजा, इतोऽपि केभ्यश्चित् प्रश्नेभ्यः मन्त्री च उत्तरं दत्तवन्तौ । एतेषां मननम् अत्यगत्यम् ।

प्रसन्नाराक्षस्याः उपकारः  - 

एतैः उत्तरैः प्रसन्ना राक्षसी एवम् अवदत् । धीरौ अहं सन्तुष्ठा अस्मि । साधुसन्तानां सङ्घस्य अपेक्षया अधिकं सुखकरम् । अस्मिन् जगति अन्यद् किमपि नास्ति । भवन्तौ मां कृतार्थां कृतवन्तौ सतः । भवद्भ्यां सेवाकरणं मम कर्तव्यम् । अहं कां सेवां करोमि सूच्यताम् । मम राज्ये प्रजाः मारीरोगात् वान्यरोगात् पीडिताः सन्ति । एतस्य कष्टस्य निवारणार्थं, तस्य परिहारस्य मार्गम् अन्वष्यन्तौ आवाम् एतस्मिन् अन्धकाररात्रौ प्रस्थितवन्तौ आस्ताम् । भवती लब्धा । एतस्य परिहारमार्गाः सन्ति चेत् कृपया सूचयतु । इति राजा राक्षसीम् अपृच्छत् । सा गत्वा भूर्जपत्रसस्यस्य पर्णम् आनीतवती । तं तस्मै दत्त्वा अवदत् । चन्द्रमण्डलस्य मन्त्रम् अस्मिन् पर्णे लिखित्वा, तायके स्थापयित्वा अथवा एवमेव रुग्णः दक्षिणभुजे बद्नतु । अनन्तरं दक्षिणहस्तं वामहस्ते स्थापयित्वा रोगीं स्नानैः शुद्धं कृत्वा, मन्त्रयुक्तं जलं तस्मै प्रोक्ष्यति चेत् सः रोगः तस्मात् बहुदूरं धावति । एवं मन्त्रेण बद्धं मारीरोगः किमपि न करोति । रोगेण सः विमुक्तः भवति । इति राक्षसी तस्य विधिविधानानि च विवृतवती । एवं मन्त्रिणा सह राजा नदीतीरं प्राप्तवान् । स्नानम्, आचमनं च कृत्वा राजा सज्जः जातः । राक्षसी तं रक्षामन्त्रम् उपदिष्टवती ।

ॐ ह्रीं ह्रां रीं रां विष्णुसक्तये नमः ।
ओं मनोभगवति विष्णुशक्तिमेनां ॥
ओं हरिहर नय नय पच पच मथ मथ उत्सादय दूरे कुरु स्वाहा ।
हिमवन्तं गच्छ जीव सः सः चन्द्रण्डलगतो असि स्वाहा ॥

मन्त्रोपदेशानन्तरं राजा म्रतापूर्वकेन प्रार्थनां करोति, हे मातः एतस्य मन्त्रस्य उपदेशं कृत्वा भवती मम गुरुः अभवत् । कृपया भवती सुन्दरस्त्रीरूपं धृत्वा मम प्रासादम् आगच्छतु । मम सत्कारं स्वीकरोतु । राजन् मानवस्तरस्य भोगैः मतसदृश्याः । राक्षस्याः तृप्तिः भवती वा ? मह्यं भवान् कीदृशम् आहारं ददाति ? वदतु भवती षड्दिनपर्यन्तं मानवभोगादरे एव तृप्तिं प्राप्नोतु । एतेषु षड्दिनेषु मम राज्ये येभ्यः चोरेभ्यः, दस्युभ्यः प्राणदण्डना दण्डः दीयते तान् आनीय भवत्यै अर्पयामि । तान् स्वीकृत्य भवती हिमालयपर्वतं गच्छतु । पुनः तपः कृत्वा जागरणानन्तरं पुनरागच्छतु । भवत्यै भवत्याः भक्ष्यानि सङ्गृह्य एकत्र स्थापयामि । एतया व्यवस्थया तृप्ता राक्षसी ततः प्रस्थितवती । एवं प्रतिवारं तपसा उत्थाय कर्कटी, तस्य राज्ञः राजधानीम् आगच्छति स्म । राजा प्राणदण्डम्, आमरणान्तदण्डं प्राप्तवन्तान् अपराधीन् तस्यै ददाति स्म । सा तान् अपराधिजनान् नीत्वा स्वस्य बुभुक्षां निवारयति स्म । राजा कस्याञ्चित् गुहायां राक्षस्याः प्रतिमां स्थापयित्वा, तस्याः पूजाव्यवस्थां कृतवान् । एवं तस्य राज्यस्य प्रजाः अपि प्रतिमायाः पूजां कृत्वा रोगबाधया मुक्ताः भवन्ति स्म ।

शास्त्री रेखा सिंह जयशूर

बालकस्य दिनचर्या

बालकस्य दिनचर्या एकस्मिन् रमणीये ग्रामे सोमः नाम एकः बुद्धिमान् बालकः वसति स्म। तस्य गृहं वृक्षैः परिवृतम् आसीत्। सः प्रतिदिनं ब्राह्ममुहूर्...